श्लोक 1
अथातो रसायनविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
दीर्घमायुः स्मृतिं मेधामारोग्यंअ तरुणं वयः।
प्रभा वर्णस्वरौदार्यं देहेन्द्रियबलोदयम्॥
श्लोक 2
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्।
लाभोपायो हि शस्यानां रसादीनां रसायनम्॥
श्लोक 3
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः।
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा॥
श्लोक 4
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः।
न भाति मलसंसृष्टे वस्त्रे राग इवार्पितः॥
श्लोक 5
युक्तं संस्कारहीनस्य सम्यगप्यप्रमादिनः।
यथैव पौरुषं तद्वन्नसिध्यति रसायनम्॥
श्लोक 6
सर्वे च दोषा भवन्ति ग्राम्यादाहारादम्ललवणकटुकक्षारविरुद्वासात्म्यरूक्षाभिष्यन्दिक्लिन्नगुरुपूतिपुर्युषितनवधान्यशुष्कशाकाममांसतिलकुलत्थदधिशुक्तकाञ्जिकपिष्टान्नविरूढकनिषेविणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामायामसङ्क्षोभितवपुषां क्रोधलोभभयशोकायासबहुलाना पापकर्मणामसमञ्जसाहारविहारनिर्हारनिरतानाम्॥
श्लोक 7
अतो निमित्तं ह्यविशुद्धः सञ्जायते रसो विदह्यते रक्तं शिथिलीभवन्ति मांसानि विष्यन्दते मेदो दूष्यन्ते दोषा विमुच्यन्ते सन्धयो न सन्धीयन्तेस्थिषु मज्जानो नाप्यायते शुक्रं नौजो न बलं न वीर्यम्॥
श्लोक 8
ततः स एवंभूतो ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितः खिद्यते निर्विद्यते निरुत्साहोऽसमर्थः शारीरमानसानां विशिष्टानां चेष्टानां भ्रष्टच्छायो नष्टस्मृतिरल्पबुद्धिरसम्पाद्यमानाभिलषितार्थोऽहर्निशमनिशमनिशं निश्वसन्नधिष्ठानभूतो रोगाणां नोपात्तमपि सर्वमायुरवाप्नोति॥
श्लोक 9
तस्मात् बुद्धिमानपास्य यथोक्तानाहारादिदोषान् निर्वाह्य च पूर्वोपचितान् रसायनं विधिविहितमुपसेवेत॥
श्लोक 10
तत्तु द्विविधं कुटीप्रावेशिकं वातातपिकं च।
तत्र वीर्यप्रभावप्रयोगपरिहारगुरुत्वात् कुटीप्रावेशिकं महाफलतरम्॥
श्लोक 11
तस्य विधिः क्षेमसुभिक्षधार्मिकशद्दधानजननृपवैद्यविप्रे सुलभमहौषधिघृतक्षीरपथ्यभोजनोपकरणे ग्रमे नगरे वा पूर्वोत्तरस्यांदिशि प्रागुदक्प्रवणे सुविभक्तविहारोद्देशे देशे दृढघनसुमृष्टभित्तिमुत्सेधविस्तारसम्पन्नां सूक्ष्मलोचनां त्रिगर्भामृतुसुखां निर्वातां प्रवातैकदेशां प्राग्द्वारामुदग्द्वारां वा शमीविल्वक्षीरिवृक्षपरिगृहीतामनिष्टेन्द्रियार्थवातातपरजोधूमस्वेदक्लेददंशमशकसरीसृपव्यालबालस्त्रीदासान्तावसायिनामगम्यां सन्निहितसद्वैद्यपरिचारकोपकरणां कुटीं कारयेत्॥
श्लोक 12
तस्यां रसायनार्थी शरदि वसन्ते वा शुक्लपक्षे प्रशस्ते अहनि पूजयित्वा यथार्हं देवगुरुविप्रान् प्रणम्य ब्रह्मदक्षाश्विप्रभृतीन् परिमृश्य सुवर्णघृतमधुसिद्धार्थकप्रियङ्गुरोचनाः प्रदक्षिणीकृत्य गोब्राह्मणाननु प्रविशेत्॥
श्लोक 13
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः।
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः॥
श्लोक 14
दानशीलदयासत्यव्रतधर्मपरायणः।
देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः।
प्रियौषधः पेशलबागारभेत रसायनम्॥
श्लोक 15
हरीतकीमामलकं सैन्धवं नागरं वचाम्।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्।
स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते॥
श्लोक 16
ततः शुद्धशरीराय कृतसंसर्जनाय च।
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्।
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा॥
श्लोक 17
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्।
यस्य यद्यौगिकं पश्येत् सर्वमालोच्य सात्म्यवित्॥
श्लोक 18
हरणात् सर्वरोगाणां यासावुक्ता हरीतकी।
पथ्यत्वात् सर्वधातूनां पथ्या शिवतया शिवा॥
श्लोक 19
यस्माद्विजयते व्याधीन् समग्रान्विजया ततः।
अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतम्।
यतः शीलयतामेनां तेनेयमभया स्मृता॥
श्लोक 20
नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या।
बालस्य सा प्रयोक्तव्या नवनीतसमन्विता॥
श्लोक 21
वाते ससर्पिर्लवणा पित्ते सगुडशर्करा।
कफे सपिप्पलीक्षौद्रा सर्वदा सा प्रशस्यते॥
श्लोक 22
अथ हरीतकीनां हिमवच्छैलसम्भवानां कालजातानामापूर्णरसवीर्याणामनामयानां द्विशस्त्रिशो वा शकलितानामनस्थ्नामाढकं चतुर्गुणेन पयसा संस्वेद्य मृदुभूतमवतार्य शीतं सर्पिर्मध्वाढकाभ्यां संसृज्य सुगुप्तं स्थापयेत्।
ततस्त्रिरात्रादूर्ध्वमाहारानुपरोधिनीं मात्रां प्रत्यहमुपयोजयेत् जीएणे शालिषष्टिकं पयसा भुञ्जीत।
प्रयोगान्ते च तावन्तमेव कालम्।
अस्य प्रयोगाद्वर्षशतमजरो निर्वलीखलतिपलितामयः श्रुतिस्मृतिसम्पन्नः समिद्धानलश्च पुरुषो भवति॥
श्लोक 23
बृहच्छरीरं गिरिसारसारं स्वरो घनौघस्तनितानुकारी।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं प्रयत्नात्॥
श्लोक 24
पथ्यासहस्त्रं त्रिगुणधात्रीफलसमन्वितम्।
पञ्चानां पञ्चमूलानां सार्द्धं पलशतद्वयम्॥
श्लोक 25
जले दशगुणे पक्त्वा दशभागस्थिते रसे।
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा॥
श्लोक 26
विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम्।
त्वगेलामुस्तरजनीपिप्पल्यगरुचन्दनम्॥
श्लोक 27
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्।
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाधिकम्॥
श्लोक 28
सितोपलार्द्धभारं च प्रात्राणि त्रीणि सर्पिषः।
द्वे च तैलात् पचेत् सर्वं तदग्नौ लेहतां गतम्॥
श्लोक 29
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः।
ततः खजेन मथितं निदध्यात् घृतभाजने॥
श्लोक 30
एतद्रसायनं ब्राह्मं समं पूर्वेण सर्वथा।
वैखानसा बालखिल्याः प्राश्य प्राप्ता नवं वयः।
आरोग्यममितंचायुर्वीततन्द्राश्रमक्लमाः॥
श्लोक 31
अभयामलकविभीतकपञ्चात्मकपञ्चमूलनिर्यूहे।
वल्लीपलाशकरसे द्विगुणे क्षीरेष्टगुणे च विपचेत्॥
श्लोक 32
घृतस्यकुम्भं मधुकं मधूकं काकोलियुग्मं च बलां स्वगुप्ताम्।
सक्षीरशुक्लामृषभं सजीवं सुखाम्बुपस्तच्चपिबेत् गुणाढ्यम्॥
श्लोक 33
आमलकसहस्त्रं पिष्टस्वेदनविधानेन क्षीरोष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्।
तदामलकसहस्रस्वरसपरिपीतं स्थिराजीवन्तीपुनर्नवानागबलामण्डूकपर्णीब्रह्मसुवर्चलाभीरुशङ्खपुष्पीवचापिप्पलीविडङ्गस्वगुप्तामृतागरुचन्दनमधुकमधूकपुष्पपद्मोत्पलनवमालिकायुवतियूथिकाचूर्णाष्टभागसम्पृक्तं पुनर्नागबलापलसहस्रस्वरसपरिपीतं छायोपशोषितं द्विगुणितसर्पिषा क्षौद्रेण क्षुद्रगुडाकृति कृत्वा घृतभाजनस्थं भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षमथर्ववेदवित्कृतरक्षं पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायश्चूर्णाष्टभागसंयुक्तमर्द्धकर्षाभिवृद्ध्या यथाग्नि प्रातः प्रयोजयेदिति समानं पूर्वेण॥
श्लोक 34
आमलकसहस्रमार्द्रपलाशद्रोण्यां सापिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्।
तानि सुस्विन्नशीतान्युद्धृत्य निष्कुलीकृतान्यापोथ्य पिप्पली विडङ्गतण्डुलानां पृथगाढकेनाध्यर्द्धेन शर्करायाः षड्भिर्मधुघृततैलानां संयोज्य घृतकुम्भे स्थापयेद्विंशतिरात्रं परं चोपयोजयेदिति समानं पूर्वेण॥
श्लोक 35
अभयामलकसहस्रं पिप्पलीसहस्रयुक्तं तरुणपलाशक्षारोदकेनाप्लाव्य शुचौ भाण्डे स्थापयेत्।
ततोनुगतक्षारमनातपशुष्कमास्थिरहितं चूर्णयित्वा सितोपलापादेन चतुर्गुणाभ्यां च मधुघृताभ्यां संयोज्य घृतभाजने षण्मासानन्तर्भूमेः स्थापयित्वा परतो यथाग्निबलमुपयुञ्जीतेति समानं पूर्वेण॥
श्लोक 36
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसभावितं मधुघृताढकाभ्यां पिप्पलीचूर्णाष्टभागेन शर्कराचतुर्भागेन च संसृष्टं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्।
तच्छरदि चोपयोजयेदिति समानं पूर्वेण॥
श्लोक 37
विडङ्गतण्डुलानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्द्धं सितोपलानां मधुघृततैलाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशावितिसमानं पूर्वेण॥
श्लोक 38
अभयामलकबिभीतकानां द्विशस्त्रिशो वा संयोजितानां पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानां निरस्थीकृतानां पलसहस्त्रमुलूखले सङ्क्षुद्य दधिभधुघृततैलपललशर्करासम्पृक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना प्रयोगान्ते ततो द्विगुणं कालं यवागूयूषक्षीरघृतषष्टिकान्नमाहारोभ्यञ्जनं सर्पिरुद्वर्तनं यवचूर्णमिति समानं पूर्वेणाभ्यधिकफलं वा॥
श्लोक 39
दशमूलबलामुस्तजीवकर्षभकोत्पलम्।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः॥
श्लोक 40
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी।
पुनर्नवद्विकाकोली काकनासामृताद्वयम्॥
श्लोक 41
विदारी वृषमूलं च तदैकध्यं पलेन्मितम्।
जलद्रोणे पचेत् पञ्च धात्रीफलशतानि च॥
श्लोक 42
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च।
गृहीत्वा भर्जयेत्तैलघृताद्वादशभिःपलैः॥
श्लोक 43
मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत्।
स्नेहार्द्धं मधुनः शीते तुगाक्षीर्याश्चतुष्पलम्॥
श्लोक 44
पिप्पल्या द्वे पले दद्याचतुर्जातं कणार्धिकम्।
अतोवलेहयेन्मात्रां कुटीस्थं पथ्यभोजिनम्॥
श्लोक 45
इत्येष च्यवनप्राशो यं प्राश्य चय्वनो मुनिः।
जराजर्जरितोप्यासीन्नारीनयननन्दनः॥
श्लोक 46
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्।
मूत्रशुक्राश्रयान्तोषान् वैस्वर्यं च व्यपोहति।
बालवृद्धक्षतक्षीणकृशानामङ्गवर्द्धनः॥
श्लोक 47
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं पवनानुलोम्यम्।
स्त्रीषु प्रहर्पं बलमिन्द्रियाणामग्नेश्च कुर्याद्विधिनोपयुक्तः॥
श्लोक 48
मधुकेन तवक्षीर्या पिपल्या सिन्धुजन्मना।
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा॥
श्लोक 49
सितया वा समायुक्ता समायुक्ता रसायनम्।
त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा॥
श्लोक 50
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्।
तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम्॥
श्लोक 51
प्रभूतस्नेहशमनं जीर्णे तत्र प्रशस्यते।
जीवत्यरुग्जरस्तस्य समाभ्यासात्समाः शतम्॥
श्लोक 52
वर्षं खादेत् प्राणदां प्रातरेकामश्नन्नन्नात् पूर्वमक्षद्वयं च।
साज्यक्षौद्रं भोजनान्ते चतुष्कं धात्रीकानां तद्वयःस्थापनेऽलम्॥
श्लोक 53
अथायसानि चतुरङ्गुलदीर्घविस्तृतानि तिलोत्सेधानि पत्राणि कारयेत्।
तन्न्यग्निवर्णानि कृत्वामलकस्वरसे निर्वापयेदेकविंशतिकृत्वः।
तेषां तादृशानां पलशतमायस्यां स्थाल्यां प्रक्षिप्यामलकस्वरसोत्तरं कृत्वा सुपिहितं भस्महितं भस्मराशौ निखनेत्।
मासि मासि चोद्दृत्यायसेन दण्डेन घट्टयेत्।
शुष्यत्यामलकस्वरसं पूर्ववदावपेत्।
एवं तानि लोहपत्राणि संवत्सरात् द्रवीभवन्ति।
ततश्चोत्तरकालं कृत्वा वमनविरेचनं स्निग्धतनुरेव केवलं समन्ततोङ्गुष्ठपर्वमात्रमुखेनायसेन स्रुवेणायस एव भाजने तस्मात् कल्कीकृतात् स्रुवमेकं गृहीत्वा मधुधृताभ्यां पृथक् स्रुवेण संयोज्य प्राश्नीयात्।
जीर्णे क्षीररसयूषाणामन्यतमेन सर्पिर्मिश्रं नवं षष्टिकौदनमश्नीयात्।
अनेन विधिना वर्षमुपयुज्य वर्षमेव चान्यदप्युद्दिष्टाहारो यन्त्रितात्मा कुटीं समधिवसेत्।
ततः सर्वोपतापान् जित्वा व्याधिजरामरणशस्त्राग्नितोयविषाणामगम्यः सर्वभावेष्वतीन्दिर्यो वर्षसहस्रद्वयं जीवति॥
श्लोक 54
वाजिवेगो गजप्राणो भवेच्च स्मृतिबुद्धिमान्।
वाग्मी वृषः श्रुतधरो महाभोगो महाधनः॥
श्लोक 55
ताम्ररूप्यसुवर्णानामयमेव पृथग्विधिः।
द्विगुणं तद्गुणोत्कर्षं जानीयादुत्तरोत्तरम्॥
श्लोक 56
हेमधात्रीफलक्षौद्रं गायत्रीपरिमन्त्रितम्।
लिहन्ननुपिबन् क्षीरं दृप्टरिष्टोपि जीवति॥
श्लोक 57
सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः।
क्षीरेण पीतं परममलक्ष्मीविनिवारणम्॥
श्लोक 58
सपद्मबीजामलकाभयाक्षं सर्पिर्मधुभ्यां कनकं लिहन्तः।
दीर्घायुषो मन्दजरोपतापाः सरीसृपाणां च भवन्त्यगम्याः॥
श्लोक 59
मधुमागधिकाविडङ्गसारत्रिफला हेम घृतं सितां च खादन्।
जरसानवलीढदेहकान्तिः समधातुश्च समाः शतं च जीवेत्॥
श्लोक 60
हेमबिल्ववचार्सीपरैकध्यमुपयोजितम्।
मेध्यमायुष्यमारोग्यकान्तिसौभाग्यपुष्टिदम्॥
श्लोक 61
शतावरीघृतं लीढं ससुवर्णं समाक्षिकम्।
करोति चिरजीवित्वं राजानं च वशानुगम्॥
श्लोक 62
आयुष्कामः शङ्खपुष्प्यासमेतं मेधाकामः काञ्चनं सोग्रगन्धम्।
लक्ष्मीकामः पद्मकिञ्जल्कयुक्तं युक्तं खादेत् कामकामो विदार्या॥
श्लोक 63
मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्यचूर्णम्।
रसं गुडूच्याः सहमूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः॥
श्लोक 64
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी॥
श्लोक 65
नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः।
त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः॥
श्लोक 66
त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्।
उपयुज्य भवेज्जडोपि वाग्मी श्रुतधारी प्रतिभानवानरोगः॥
श्लोक 67
पेष्यैर्मृणालविसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः।
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्॥
श्लोक 68
यन्नालकन्ददलकेसरवद्विपकं नीलोत्पलस्यतदपि प्रथितं पृथिव्याम्।
सर्पिश्चतुष्कुवलयं सहिरण्यपत्रं मेध्यं गवामपि भवेत् किमुमानुषाणाम्॥
श्लोक 69
ब्राह्मीवचासैन्धवशङ्खपुष्पी मत्स्याक्षकब्रह्मसुवर्चलैन्द्रयः।
वैदेहिका च त्रियवाः पृथक्स्युर्यवौ सुवर्णस्य तिलो विषस्य॥
श्लोक 70
सर्पिषश्च पलमेकत एत द्योजयेत् परिणते च घृताढ्याम्।
भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधाः॥
श्लोक 71
अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः।
जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान्॥
श्लोक 72
विशेषतः कुष्ठकिलासगुल्म विषज्वरोन्मादगरोदराणि।
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः॥
श्लोक 73
यथोक्तगुणायां भूमौ जातामबालामजीर्णां शीर्णपुराणपर्णामसञ्जातान्यपर्णां तपे तपस्ये वा मासे यथोक्तेन विधिना पुष्ययुक्ते चन्द्रमसि सुमुहुर्ते नागबलां समूलामुद्धरेत्।
तस्या मूलानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमवचूर्णितं वा पयसा पिबेन्मधुघृताभ्यां वा लिह्यात्।
जीर्णे क्षीरवृत्तिरेव स्यात्।
क्षीरेणैव वा ससर्षिष्कं शालिषष्टिकमश्नीयात्।
एवं संवत्सरप्रयोगाद्वर्षशतमजर इत्यादि समानं पूर्वेण॥
श्लोक 74
बलातिबलाचन्दनागरुधवतिनिशखदिरकदरशाकशिंशपासनसुरसापुनर्नवानन्ताश्च वयःस्थापनोक्ता दशौषधयः सविदारीश्वदंष्ट्राश्वगन्धावाराहीशतावर्यो नागबलया व्याख्याताः॥
श्लोक 75
तत्र सारवृक्षाणां सर्वेषां स्वरसार्थी कुष्ठचिकित्सिते खदिरकल्पमीक्षेत।
आर्द्रवृक्षासम्भवे तु सारशकलानिद्व्यङ्गुलत्र्यङ्गुलानि तनूनि चतुर्गुणेम्भ्स्या प्लाव्यातपे त्रिरात्रं स्थापयेत्।
ततस्तान्युद्धृत्यान्यानि तत्र क्षिपेत्।
त्रिरात्राच्च पुनरन्यान्येवं नवरात्रेण त्रिःप्रक्षेपणोद्धारेण च स्वरसः परिकल्पितो भवति॥
श्लोक 76
फलानां पुनर्वीरुदौषधीनां च यन्त्रेणोलूखलेन वा सङ्क्षुद्य निष्पीड्य स्वरसं गृह्णीयात्॥
श्लोक 77
परिशुष्काणां तु चूर्णिकृतानामाढकमाढकमुदकस्याहोरात्रस्थितं विमृदितपूतं स्वरसवत् प्रयोज्यम्।
तुवरकभल्लातकादीनां पुनः पृथगेवोपदेशः॥
श्लोक 78
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः।
वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः॥
श्लोक 79
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे।
मज्ञः फलेम्यश्चादाय शोषयित्वावचूर्ण्यं च॥
श्लोक 80
तिलवत्पीडयेद्रोण्यां क्वाथयेद्वा कुसुम्भवत्।
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्॥
श्लोक 81
अवतार्य करीषे च पक्षमात्रं निधापयेत्।
स्निग्धस्वैन्नो हृतमलः पक्षादुद्धृत्य यत्नवान्॥
श्लोक 82
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्।
मन्त्रेणानेन एतस्य तैलस्य दिवसे शुभे॥
श्लोक 83
मज्जसार महावीर्य सर्वान् धातून् विशोधय।
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः॥
श्लोक 84
तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः।
सायमस्नेहलवणां यवागूं शीतलां पिबेत्॥
श्लोक 85
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यानि वर्जयेत्।
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते॥