श्लोक 86
तदेवखदिरक्वाथे त्रिगुणे साधु साधितम्।
निहितं पूर्ववत् पक्षं पिबेन्मासं सुयन्त्रितः॥
श्लोक 87
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्।
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम्।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्॥
श्लोक 88
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना।
पक्षं मांसरसाहारं करोति द्विशतायुषम्॥
श्लोक 89
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्।
वलीपलितनिर्मुक्तस्थिरस्मृतिकचद्विजम्॥
श्लोक 90
वपुष्मन्तं श्रुतधरं करोति त्रिशतायुषम्।
अन्त्र्धूमं तस्य मज्जा सुदग्धः क्षिप्तस्तैले सैन्धवं चाग्निवर्णम्।
तुल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन॥
श्लोक 91
एकान्तरं तौवरकञ्च तैलं पिबेद्धिताशी नियमेन मासम्।
प्रभिन्नकोष्ठो गलिताङ्गदेशस्त्वचं त्यजेत् सर्पैवाशु जीर्णम्॥
श्लोक 92
साधयेत् षोडशगुणे सलिले तुवराढकम्।
अष्टांशशेषे विस्राव्य सङ्क्षुद्योलूखले ततः॥
श्लोक 93
शुष्कारग्वधवल्कपादरजसा व्यामिश्रित कल्कितं।
तस्य क्वाथजलैरुदुम्बरसमान् छायाविशुष्कान् गुडान्॥
श्लोक 94
कुर्यादेकतमं च सार्द्धमथवा गोवारिणालोडितं।
कुष्ठी तद्दिवसास्थितो निरशनः सूर्ये गतेऽस्तं पिबेत्॥
श्लोक 95
तावदेव च तथैव च भूयः पाययेत्तमरुणोदयकाले।
अप्यजीर्णमविचिन्त्य वमिं वा भेषजं पुरुषदोषबलज्ञः॥
श्लोक 96
मध्याह्नेऽद्यात् भूरिनिष्पावतैलं कङ्गूकूरं शिग्रुकन्दोपदंशम्।
दध्नायुक्तं स्वल्पसिन्धूत्थचूर्णं गव्येनानु स्तोकतक्राम्बुपायी॥
श्लोक 97
तैलाक्तगात्रो दिवसान्तरं च कङ्ग्विष्टिकाचूर्णकृतप्रघर्षः।
स्नायात् सुखाम्भोभिरमद्यमांस स्त्रीसङ्गतिः स्यात्त्रिगुणं च योगात्॥
श्लोक 98
उपयुज्य योगमखिलं प्रतिदिनमेव द्विकालमभियुक्तः।
कुष्ठी कुष्ठमपोहति विशीर्णकर्णौष्ठनासमपि॥
श्लोक 99
अथ भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्र्पमाणवीर्याणि पक्रजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे सङ्गृह्य यवपल्ले माषपल्ले वा निधापयेत्।
तानि चतुर्मासस्थितानि सहे सहस्ये वा मासे प्रयोक्तुमारभेत।
शीतस्निग्धमधुरोपस्कृतशरीरः पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्।
तेषां रसमष्टभागावशिष्टमनुष्णं सपयस्कं सर्पिर्गण्डूषाभ्यक्तोष्ठतालुजिह्वः प्रातः पिबेत्।
एवमेतानी दशभल्लातकान्येकैकोत्कर्षापकर्षेण त्रिंशत्प्रयोज्यानि।
विधिनानेन सहस्रप्रयोगस्त्रिगुणश्च कालो घृतक्षीराभ्यां शालिषष्टिकमशनमेवं विशेषाद्विगतकुष्ठदुर्नामकृमिप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण॥
श्लोक 100
पूर्वमेकैकभल्लातकक्वाथं सपयस्कं पिबेदेकैकं च भल्लातकमभिवर्द्धयेद्यावत् पञ्च।
ततः पञ्च पञ्चवर्धयेद्यावत् सप्ततिः।
प्राप्य च सप्ततिमपकर्षयेत् भूयः पञ्च पञ्च यावत् पञ्च।
पञ्चभ्यश्चैकैकं यावदेकम्।
विधिनानेनसहस्रं प्रयोग इत्यादि समानं पूर्वेण॥
श्लोक 101
सप्ततिवच्च शतमुपयुञ्जीत।
तथा च सहस्रद्वयन्।
प्रयोग इत्यादि समानं पूर्वेण।
द्विगुणस्त्वायुषः कालः॥
श्लोक 102
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकाण्ठनिखातस्य स्नेहभावितस्य दृढस्योपरिकुम्भस्यारोप्योडुपेनापिधायकृष्णभृदावलिप्तं गोमयाग्निनोपस्वेदयेत्।
तेषां यः स्वरसः कुम्भं प्रपद्यते तमष्टभागमधुसंयुक्तं द्विगुणितघृतमद्यात्।
त्रिगुणश्च कालो घृतक्षीराभ्यामित्यादि समानं पूर्वेण॥
श्लोक 103
अनेनैव विधिना भल्लातकस्य रसं गृहीत्वा केवलमेव मासमेकं प्रयुञ्जीत।
त्रिगुणश्च काल इत्यादि समानं पूर्वेण।
मासि मासि वर्षशतमायुषोभिवृद्धिः।
एवं दशमासानुपयुज्य वर्षसहस्रमायुर्भवति॥
श्लोक 104
भल्लातकतैलपात्रं सपयस्कं मधुकाक्षमात्रेण शतपाकमुपयुञ्जीत।
त्रिगुणश्चकाल इत्यादि समानं पूर्वेण॥
श्लोक 105
भल्लातकतैलं कृष्णतिलतैलं सर्पिरामलकरसोऽसनादिसारकषाय इत्येषां द्रोणं द्रोणं त्रिफलात्रिकटुकविडङ्गसारचित्रकहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमधुकविषातिविषारसाञ्जनप्रियङ्गूनां पालिकाभागास्तदैकध्यं स्नेहपाकविधिना विपाच्यावतार्य परिपूयचानुगुप्तं निदध्यात्।
तत उपस्कृतशरीरः प्रातः प्रातः पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुञ्जीत।
जीर्णे मुद्वामलकयूषेणालवणेन सर्पिष्मता खदिरोदकसिद्धं मृदुमोदनमश्नीयात्।
खदिरोदकेनोदककार्याणीत्येवमतो द्रोणमुपयुज्य विगतकुष्ठदुर्नामेत्यादि समानं पूर्वेण॥
श्लोक 106
पुष्टानि पाकेनपरिच्युतानि भल्लातकान्याढकसम्मितानि।
घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन॥
श्लोक 107
जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम्।
तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे॥
श्लोक 108
सर्पिः पक्वं तेन तुल्यप्रमाणं युञ्ज्यात् स्वेच्छं शर्कराया रजोभिः।
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्॥
श्लोक 109
तममृतरसपाकं यः प्रगे प्राशमश्नन्ननु पिबति यथेष्टं वारि दुग्धं रसं वा।
स्मृतिमतिबलमेधासत्वसारैरुपेतः कनकनिकषगौरः सोश्नुते दीर्घमायुः॥
श्लोक 110
द्रोणेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम्।
तिक्ताविषाद्वयवरा गिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिषूदनाय॥
श्लोक 111
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा।
गुडेन पयसा घृतेन यवसक्तुभिर्वा सह।
तिलेन सह माक्षिकेण पललेन सूपेन वा।
वपुष्करमरुष्करं परममेध्यमायुष्करम्॥
श्लोक 112
भल्लातकानि तीक्ष्ष्णानि पाकीन्यग्निसमानि च।
भवन्य्तमृतकल्पानि प्रयुक्तानि यथाविधि॥
श्लोक 113
कफजो न स रोगास्ति न विबन्धोस्तिकश्चन।
यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्॥
श्लोक 114
वातातपविधानेपि विशेषेण विवर्जयेत्।
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्॥
श्लोक 115
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा।
रसायनगुणान्वेषी समामेकां प्रयोजयेत्॥
श्लोक 116
तिस्रस्तिस्रस्तु पूर्वाह्ने भुक्त्वाग्रे भोजनस्य च।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः।
प्रयोज्या मधुसम्मिश्रा रसायनगुणौषिणा॥
श्लोक 117
क्रमवृध्या दशाहानि दशपैप्पलिकं दिनम्।
वर्धयेत् पयसा सार्द्धं तथैवापनयेत् पुनः॥
श्लोक 118
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा।
पिप्पलीनां सहस्रस्य प्रयोगोयं रसायनम्॥
श्लोक 119
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः।
शीतीकृता द्रस्वबलैर्योज्या दोषामयान् प्रति॥
श्लोक 120
तद्वच छागदुग्धेन द्वे सहस्रे प्रयोजयेत्॥
श्लोक 121
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्।
यक्ष्ममेहग्रहण्यर्शः पाण्डुत्वविषमज्वरान्।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्॥
श्लोक 122
विडङ्गचूर्णं यष्टीमधुकचूर्णयुक्तं शीततोयेन समाशमुपयुञ्जीत।
जीर्णे मुद्गयूषेणालवणेन सघृतमोदनमश्नीयात्।
तेन विशेषाद्विगतकृमिदुर्नामकुष्ठप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण।
विडङ्गचूर्णं क्षौद्रभल्लातकक्वाथाभ्यां मध्वामलकरसाभ्यां गुडूचीक्वाथेन च एतांश्चतुरो योगान् मासमुपयुञ्जीतेति समानं पूर्वेण।
सर्वेषु च मासिमासि वर्षशतमायुषोऽभिवृद्धिः॥
श्लोक 123
अलम्बुषां स्वेन रसेन भावितां पृथग्घृतक्षीरमधूष्णवारिभिः।
पिबेत्तथा काञ्जिकतक्रमस्तुभिर्भगन्दरोरुग्रहगुल्मकासवान्॥
श्लोक 124
उष्णा विपाके कटुका कषायमधुरा रसे।
अत्यन्तदीपनी मेध्या वातश्लेष्महरा च सा॥
श्लोक 125
वर्षोपयोगात् कुरुते नरं वर्षशतायुषम्।
दृढेन्द्रियानलबलं निर्वलीपलितामयम्॥
श्लोक 126
श्वेतावल्गुजफलान्यातपशुष्काणी चूर्णयित्वा तत्तुल्यगुडेन सङ्क्षुद्य घृतकुम्भे धान्यराशौ सप्त्परात्रं निदध्यात्।
ततोऽनुदिते भास्वति यथाबलं मात्रां सुखोदकानुपानामुपयोजयेत्।
जीर्णे सुखाम्बुपरिषितः शालिषष्टिकौदनं सशर्करेण पयसाश्नीयात्।
तस्य मासप्रयोगाद्विशेषेण विगतकुष्ठो ग्रहणधारणवान् वर्षशतमजर इत्यादि समानं पूर्वेण।
प्रयोगतश्चोर्ध्वं द्विगुणं परिहारः॥
श्लोक 127
वाकुचिकाकर्षचूर्णं सुखाम्बुना पिबेत्।
पीत्वा चातपे निर्वातोष्णे वा गर्भगृहे तिष्ठेदपराह्णे तद्वदेव स्रानमशनं च।
यूषरसाभ्यां वा।
तस्य त्रिसप्तरात्रप्रयोगाद्विगतकुष्ठ इत्यादि समानं पूर्वेण॥
श्लोक 128
त्वग्रोमकेशदशनान् नखांश्चमुक्त्वा पुनर्नवान् लभते।
स्वरवर्णबलोत्साहं नवं वयो नष्टपलितं च॥
श्लोक 129
पलानि दश बाकुच्या दशैव च फलत्रयात्।
सप्त क्रिमिघ्नादयसस्त्रीणि द्वे गिरिसम्भवात्॥
श्लोक 130
पुरपुष्करमूलाभ्यामाहरेत पलं पलम्।
सूक्ष्मैलार्धपलं व्योषघनकेसरकुङ्कुमम्॥
श्लोक 131
लोध्रत्वक्पत्रयष्ट्याह्वचित्रकं कार्षिकं पृथक्।
शतंभल्लातकानां च सर्वं खण्डसमांसकम्॥
श्लोक 132
चूर्णयेदथ तन्मात्रां भक्षयेत् पालिकीं पराम्।
यथेष्टचेष्टो लभते वर्षाद्रासायनान् गुणान्॥
श्लोक 133
सर्वरोगान् विजयते त्वग्विकारान् विशेषतः।
अर्शोभगन्दरश्वासकासपाण्ड्वामयक्रिमीन्॥
श्लोक 134
गुल्मप्लीहाश्मरीवर्धमप्रमेहारुचिपीनसान्।
मन्दानलत्वं कृशतां शोफग्रन्थ्यर्बुदानपि॥
श्लोक 135
वाकुचिकाफलानि गोमूत्रे सप्तरात्रं वासयेत्।
ततो निस्तुषीकृत्य छायायां विशोषयित्वा सुसूक्ष्मं च सञ्चूर्ण्य त्र्यहं त्र्यहं क्रमशो भावयेत्त्रिफलाक्वथेन कारवल्लीवासाब्राह्मीगुडूचीभृङ्गराजस्वरसैः पृथक्पृथक् खदिरासनराजवृक्षपिचुमन्दक्वाथैः॥
श्लोक 136
तस्य पीतः प्रतिदिनं धात्रीफलरसाप्लुतः।
कर्षः सर्वामयान् हन्ति त्वग्विकारान्विशेषतः॥
श्लोक 137
असनखदिरयूषैर्भावितां सोमराजीं।
मधुघृतशिखिपथ्यालोहचूर्णैरुपेताम्।
शरदमवलिहानः पारिणामान् विकारां।
स्त्यजति मितहिताशी तद्वदाहारजातान्॥
श्लोक 138
तीव्रेण कुष्ठेन परीतमूर्त्तिर्यःसोमराजीं नियमेन खादेत्।
संवत्सरं कृष्णतिलद्वितीयां ससोमराजीं वपुषातिशेते॥
श्लोक 139
ये सोमराज्या वितुषीकृतायाश्चूर्णैरुपेतात् पयसः सुजातात्।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते॥
श्लोक 140
ते कुष्ठिनः पक्ष्मदरिद्रनेत्रा।
विशीर्णकर्णाङ्गुलिनासिका वा।
विहायवैरूप्यमपास्य रूपं।
पुनः प्ररूढा इव भान्ति वृक्षाः॥
श्लोक 141
खदिराम्भसा पिबेद्वा रविसेवी तां तया यवागूं वा।
गायत्रीजलसिद्धां कुष्ठी तत्तोयकार्यकरः॥
श्लोक 142
गजलिण्डक्षारयुता तत्क्षारपायिनो विलेपिभुजः।
श्वित्राणि सोमराजी प्रसह्य हन्यात् प्रलेपाच्च॥
श्लोक 143
गोमूत्रे सप्तरात्रं शशिशकलफलं वासितं लोलयित्वा।
कुर्याच्छायाविशुष्कं पृथगिति च फलं प्रापुनाटं च शुष्कम्॥
श्लोक 144
अंशस्ताभ्यां तथांशः कृमिरिपुदहन स्फोटकृद्भ्यः स चूर्णो गोमूत्रेणोपयुक्तः प्रमितहितभुजः श्चित्रमाश्वेव हन्ति॥
श्लोक 145
इक्षुरगोक्षुरसिंही व्याघ्री पञ्चांगुलाम्बुना पीता।
उपलमघनं घनं वा रसाशिनां हन्ति बाकुचिका॥
श्लोक 146
उष्णोदकेन पिष्टा पीता च घृतान्विता जयेत् गुल्मम् लघुपञ्चमूलसिद्धां पेयामुपयोजयेज्जीर्णे॥
श्लोक 147
कट्वङ्गकुटजयूषैरर्शींसि भगन्दरं च नाशयति।
मेहान् मद्यैर्निगदैर्निषोविता बाकुची प्रबलान्॥
श्लोक 148
विष्किररसेन पीता दशमूलरसेन वा गुडूच्या वा।
अपतन्त्रकं निहन्यादायामं वा रसान्नभुजः॥
श्लोक 149
जठरेषु पिबेन्मूत्रैर्जलोदरे त्रैवृतेन यूषेण।
शोफे पाण्डुव्याधाववल्गुजं शीघ्वरिष्टाभ्याम्॥
श्लोक 150
इक्षुरकादिक्वाथैर्वर्ध्मनि मूत्रेण वा गवां शस्तः।
धारोष्णेन तु पयसा युक्तः शोफज्वरौ हन्ति॥
श्लोक 151
उष्णाम्बुना प्रयोज्यो लूताकीटाखुसर्पदष्टेषु।
कृमिहरचतुरङ्गुलयोः क्वाथः कोष्णः कृमिणकोष्हेषु॥
श्लोक 152
लेखामिन्दोः सघृतां सुखाम्बुना पुत्रिणी भवति पीत्वा पुष्षोदयेश्वगन्धाशृतेन पयसा च भुञ्जाना॥
श्लोक 153
वन्ध्यापि सप्ताहमिमंप्रयोगं करोति या हर्षयती सुगन्धिः।
प्रियंवदा सद्व्रतशौचयुक्ता सूते सुतान् सा नियमात् गुणाढ्यान्॥
श्लोक 154
स्निग्धैरुष्णैर्मधुरैर्हरति गदान्वातजान् युता पैत्तान्।
तिक्तकमधुरकषायैः कफजांस्त्रिफलारसमधुभ्यां च॥
श्लोक 155
इति शमनी धन्येयं विषगरभूतोपसर्गपाप्मघ्नी।
गेहे स्थितापि रेखा चान्द्रमसी किमुत कोष्ठस्था॥
श्लोक 156
मनुष्यमप्यागतमृत्युशासनं प्रणष्टबुद्धीन्द्रियमल्पचेतसम्।
अवल्गुजो मोक्षयते महाभयाच्छ्रियं च मेधां च ददाति पुप्कलाम्॥
श्लोक 157
हैमवत्या वचायाः पिण्डमामलकमात्रं पयसालोड्य पिबेज्जीर्णे पयस्सर्पिरोदन इत्याहारः।
एवं सप्तरात्रेण मेधावी भवति।
सप्तभिः सप्तरात्रैः श्रुतधरो वर्षशतमजर इत्यादि समानं पूर्वेण॥
श्लोक 158
इतरस्या अपि वचाया द्विपलक्वाथं पिबेत् जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण।
तच्चूर्णं वा क्षौद्रसर्पिभ्यां यथाबलमवलिह्यात्।
जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण॥
श्लोक 159
वचाकल्कशतपाकं घृतद्रोणमुपयुज्य विशेषात् ग्रहोन्मादापस्मारगलगण्डगण्डमालाश्लीपदस्वरभेदविमुक्तः सर्वार्थेषु सिद्धिमान् वर्षशतायुर्भवति॥
श्लोक 160
शीतवातहिमदग्धतनूनां स्तब्धभग्रकुटिलव्यधितास्थ्नाम्।
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य॥
श्लोक 161
राहोरमृतचौर्येण लूनाद्ये पतिता गलात्।
अमृतस्य कणा भूमौ ते रसोनत्वमागताः॥
श्लोक 162
द्विजानाश्नन्ति तमतो दैत्यदेहसुमुद्भवम्।
साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम्॥
श्लोक 163
शीलयेल्लशुनं शीते वसन्ते च कफोल्बणः।
घनोदयेपि वातार्त्तः सदा वा ग्रीष्मलीलया।
रक्तपित्तभवारोगा जायन्ते रक्तपित्तिनः॥
श्लोक 164
मासः परोस्य रसकल्कनिषेवणाय स्वच्छन्दमप्युपदिशन्ति विमर्दकैस्तु।
षण्मासमन्यविधिना न तु शस्तमाहुः पक्षप्रयोगमपि हीनतरं रसोने॥
श्लोक 165
स्रिग्धशुद्धतनु शीतमधुरोपस्कृताशयः।
तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः॥
श्लोक 166
तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान्।
अपनीतत्वचो रात्रौ निमयेन्मदिरादिभिः॥
श्लोक 167
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्।
मदिरायाः सुरूढायास्त्रिभागेन समन्वितम्॥
श्लोक 168
मद्यस्यान्यस्य तक्रस्य मस्तुनः कञ्जिकस्य वा।
तत्काल एव वा युक्तं युक्तमालोच्य मात्रया॥
श्लोक 169
तैलसर्पिर्वसामज्जक्षीरमासरसैः पृथक्।
क्वाथेन वा यथाव्याधि रसं केवलमेव वा॥
श्लोक 170
पिबेत् गण्डूषमात्र प्राक्कण्ठनाडीविशुद्धये।
प्रततं स्वेदनंचानु वेदनायां प्रशस्यते॥