अष्टाङ्गसंग्रहः उत्तरस्थानम् 49 contd.

श्लोक 171

शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे।
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि॥

श्लोक 172

विदाहपरिहाराय परं शीतानुलेपनः।
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः॥

श्लोक 173

सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमाला हारयष्टीश्च लोलाः।
स्तनतटविनिविष्टाश्चारुगात्र्यो दधानास्तनुसरसविलिता गाढमेनं स्वजेरन्॥

श्लोक 174

नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च।
दयिताकरपल्लवैश्च शीतैर् शुनस्वेदकृतं क्लमं हरेयुः॥

श्लोक 175

कुडवोस्यपरा मात्रा तदर्द्धं केवलस्य तु।
पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक्च शीलयेत्॥

श्लोक 176

रसोग्निकल्पो मृदुनौजसा हि।
संयुज्यमानः सहसैव तस्य।
दाहातिसारारतिचित्तनाशान्।
कुर्यादतस्तं त्वरितो न युञ्ज्यात्॥

श्लोक 177

जीर्णशाल्योद्दनं जीर्णे शङ्खकृन्देन्दुपाण्डुरम्।
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्॥

श्लोक 178

दीप्ताग्निर्मण्डकान् खादेत् सर्पिप्र्मण्डोपसेचनान्।
अखण्डमण्डलेन्द्वाभानिण्डरीखण्डमण्डितान्॥

श्लोक 179

राजिकाशुक्तसम्पर्कविनिवर्तितगौरवैः।
पिष्टकाचूर्णधवलैर्वध्रैः सौकरकैर्युतान्॥

श्लोक 180

मद्यमेकं पिबेत्तत्तु तृट्प्रबन्धे जलान्वितम्।
गन्धमत्तक्वणदलि प्रियावक्त्रेन्दुबोधितम्॥

श्लोक 181

अमद्यपो यस्तु फलाम्बुतुक्रमवन्तिसोमं च सुगन्धि शीतम्।
सौवीरकं जाङ्गलजं रसं वा तुषोदक्वं वा परिसिक्थिकां वा॥

श्लोक 182

तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्।
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्॥

श्लोक 183

सद्यः पिष्टं सर्पिषा संयुतं वा निर्यासेन स्वेन युक्तं च कामम्।
युञ्जीतैनं पूर्वकैरेव पानैः कोष्णाम्भोभिर्वैष कल्पोतिवीर्यः॥

श्लोक 184

रसोनकल्कः सदृशाजसर्पिः षण्मासमुर्व्यामुषितो निहन्ति।
अभ्यङ्गपानाञ्जननस्ययुक्तो मनोविकारान् विषमज्वरं च॥

श्लोक 185

समतैलं सशुक्तं वा यवराशौ समास्थितम्।
वातरोगान् जयेत् खादन् घृतमांसोत्तराशनः॥

श्लोक 186

तैलसर्पिर्गुडसिताः पृथक्कुर्यात्तुलान्मिताः।
द्वे तुले लशुनाच्छ्रुद्धात् त्र्यूषणात् कुडयत्रयम्॥

श्लोक 187

पलं त्वचश्च तच्श्लक्ष्णं निहितं घृतभाजने।
द्वे समे यवमध्यस्थं पूर्वस्मादधिकं गुणैः॥

श्लोक 188

क्षुण्णां क्षिपेत् कन्दतुलां तक्रस्य पलविंशतौ।
गते च सप्तरात्रे तु तुलार्द्धमसितात्तिलात्॥

श्लोक 189

धौतक्षुण्णात् पृथक्क्षौद्रघृतशुण्ठीचतुष्पलम्।
अजाजीचव्यधान्याग्निद्विकृष्णाग्रन्थिदीप्यकान्॥

श्लोक 190

पलोन्मितांश्चतुर्जातात् पलमेकं सुचूर्णितम्।
पृथक्पलाष्टकं तैलात्घृतात्क्षुण्णाच्चसर्षपात्॥

श्लोक 191

पटूनि पञ्च क्षारौ द्वौ दद्यात्तत्राक्षमानतः।
एकादशाहं तद्धान्ये स्थितमश्नन् प्रगे प्रगे।
गुणान्रासायनान्सर्वान् स प्राप्नोति निरामयः॥

श्लोक 192

द्विपश्चमूलनिष्क्वाथे नल्वणे लशुनाढकम्।
पिष्टं पर्युषितं वर्षं हन्ति वातकफामयान्॥

श्लोक 193

तत्कन्दकल्कस्वरसे घृततैलं पृथक्पचेत्।
शीलयेच्च यथासात्म्यं दारुणानलपीडितः॥

श्लोक 194

नवनीतसमांशं वा खोदत्तत्कल्कमर्दिती॥

श्लोक 195

विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्।
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघुतुच्छमश्नन्॥

श्लोक 196

कुस्तुम्बरी जीरकभृष्टमुद्गसौवर्चलश्लक्ष्णरजोवकीर्णैः।
रसोनकन्दाङ्कुरपत्रचित्रैः सव्यञ्जनैर्नैकरसानुयातैः॥

श्लोक 197

तत्कन्दसिद्धान् क्रमशो यूषक्षीररसान् पिबेत्।
कफपित्तानिलाशङ्की यथास्वौषधसंस्कृतान्॥

श्लोक 198

कृशोश्वगन्धोद्भवचूर्णकीर्णं सन्नस्वरो यष्टिमधूपधानम्।
तैलेन गुल्मी खदिरेण कुष्ठी खादेत् कृमिघ्नैः कृमिमान् रसोनम्॥

श्लोक 199

मांसादमांसैर्यक्ष्माणमर्शांसि कुटजत्वचा।
हन्ति स श्रेष्ठया मेहकासश्वासविलम्बिकाः॥

श्लोक 200

अन्नस्वरूपविज्ञानात् स्वरूपमुपलभ्य च।
यथायथं प्रयोगोस्य कार्यस्तं तं गदं प्रति॥

श्लोक 201

लशुनस्वरसात् प्रस्थान्द्वात्रिंशत्तिलतैलतः।
द्वावपेतमलात् किण्वादष्टौपिष्टाच्चषड्यवात्॥

श्लोक 202

मेषशृङ्गीभवात् क्वाथाद्रोणं पूताच्च शीतलात्।
स्नेहपात्रे तदैकध्यं निदध्याच्च शुचौ दृढे॥

श्लोक 203

क्रमात्तत्र पुनर्दद्यात् पिष्टं प्रस्थचतुष्टयम्।
पक्षात्परमियं पेया सुरा वातविकारिभिः॥

श्लोक 204

त्रिरात्रमुषितां धेनुं लशुनं खादयेत्ततः।
क्षीरदध्याज्यमथितं ब्राह्मणस्यापि शस्यते॥

श्लोक 205

पित्तरक्तविनिर्मुक्तसमस्तावरणावृते।
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम्॥

श्लोक 206

सुखात्मनां विशेषेण प्रयोज्यो लशुनासवः।
नारदेनोद्धवस्यैष वातभग्नस्य कल्पितः॥

श्लोक 207

आमाम्बुपानेक्षुविकारमत्स्ययानाध्ववातातपभाष्यचिन्ताः।
स्वप्नं दिवा जागरणं निशासु पिष्टं व्यवायं दधि चात्र नेच्छेत्॥

श्लोक 208

स्नेहकल्पविधानेन स्नेहयुक्तं प्रयोजयेत्।
लशुनं स्नेहसंयोगात् गरीयान् जायते हि सः॥

श्लोक 209

पित्तकोपभयादन्ते युञ्ज्यान्मृदुविएचनम्।
रसायनगुणानेवं परिपूर्णान् समश्नुते॥

श्लोक 210

प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः।
अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम्॥

श्लोक 211

पाण्डूदरोरक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु।
पैत्ते विकारेक्षिगदेतिसारे क्षामे शरीरे च स वर्जनीयः॥

श्लोक 212

शीलित एष करोति दुरापं वह्निशरीरबलं सममेव।
वङ्मतिरूपगुणाढ्यसुतेप्सोः स्त्रीपुरुषस्य च बीजविशुद्धिम्॥

श्लोक 213

अमृतकणसमुत्थं यो रसोनं रसोनं विधियुतमितिखादेच्छीतकाले सदैव।
स नयति शतजीवी स्त्रीसहायो जरान्तं कनकरुचिरवर्णो नीरुजस्तुष्टिजुष्टः॥

श्लोक 214

रसोनानन्तरं वायोः पलाण्डुः परमौषधम्।
साक्षादिवस्थितं यत्र शकाधिपतिजीवितम्॥

श्लोक 215

यस्योपयोगेन शकाङ्गनानां लावण्यसारादिविनिर्मितानाम्।
कपोलकान्त्या विजितः शशाङ्को रसातलं गच्छति निर्विदेव॥

श्लोक 216

स्निग्धाङ्गत्वं गौरता कान्तिमत्ता वनेर्दीप्तिर्वर्ष्मपुष्टिर्वृषत्वम्।
सम्प्राप्यन्ते यन्त्रणोद्वेगमुक्तैः र्यस्याभ्यासाद्धारि दीर्घं सुखं च॥

श्लोक 217

अप्याहारे शीलितो दीर्घारात्रं बल्यश्चक्षुष्यस्तर्पणः स्थैर्यकारी।
तैस्तैर्योगैर्योजितोयं पलाण्डुस्तांस्तानातङ्कान् मेहिनामुच्छिनत्ति॥

श्लोक 218

रसं रसोनवत्तस्य पीत्वाश्नीयात्तथैव च।
सबीजपूरस्वरसमदिरामधुशीधुपः॥

श्लोक 219

मरकतमणिनीलं नालमस्यातिबालं परिणतशशिगौरं यच्च बीजं सुपिष्टम्।
ससुरससुमुखाभ्यां प्राज्यमांसं सशुक्तं मृदुधवलसुवृत्तैर्मण्डकैरात्तमूर्तिम्॥

श्लोक 220

वहुशःशोभितं शुभ्रैः शशाङ्कशकलोपमैः।
घारिकेण्डरिकावल्लैः क्षीरोदावयवैरिव॥

श्लोक 221

यवमुद्गमाषगोधूम बहुविध विकारकल्पितान् भक्ष्यान्।
काम्बलिकरागषाडवसट्टकखलकान् सफलसारान्॥

श्लोक 222

पटुसुरभिमधुरगन्धान् धवलाक्षकधवलबहुलरसान्।
खर्जूरदाडिमसिताद्राक्षापानानुपोभ्यस्येत्॥

श्लोक 223

लभते बलवर्णौजोवीर्यस्वरसौमनस्यतेजांसि।
क्षीणशकृद्रुधिरोपि च रसोनवत्तद्रसं पीत्वा॥

श्लोक 224

लभते बलवर्णौजोवीर्यस्वरसौमनस्यतेजांसि।
क्षीणशकृद्रुधिरोपि च रसोनवत्तद्रसं पीत्वा॥

श्लोक 225

कुक्कुटाण्डनिभैः कन्दैः किञ्चित् कटुकपिच्छिलैः।
स्निग्धैर्मरकतच्छायैः खर्जूरसदृशैच्छदैः॥

श्लोक 226

निस्विलरोगहरापि विशेषतो जयति दारुणमप्यनिलामयम्।
गुदजगुल्मतमोविषनाशिनी जनयति स्थिरतां वपुषः पराम्॥

श्लोक 227

कुटीं प्रविश्यतत्कन्दान् भक्षयेत्घृतभर्जितान्।
पयोनुपानं धारोष्णं तत्रेष्टमसनाम्बु वा॥

श्लोक 228

तन्मात्रवृत्तिस्तुभवेद्दशाहं विंशत्यहं स्वादुभुगप्रमादी।
जत्रूर्ध्वकोष्ठत्रिकसन्धिवातपाण्डवामयार्शस्तिमिराणि जित्वा॥

श्लोक 229

वलीपलितनिर्मुक्तः स्थिरकेशद्विजश्रुतिः।
मेधामतिस्मृतियुतो जीवेद्वर्षशतद्वयम्॥

श्लोक 230

आपूर्यमाणचन्द्रप्रतिपदमारभ्यवर्धयेत्कन्दम्।
एकैकं घृतभृष्टं प्राग्भक्तं पथ्यभुक्खादेत्॥

श्लोक 231

भुञ्जीताल्पतरं दिनार्दितमृषिः पक्षक्षये भक्षयन् क्षीरं बीजकवारि तक्रमथवा पीत्वा स्थितिं कल्पयेत्।
मांसं प्राश्य तथा नखद्विजकचः शीर्णोत्थितैः कान्तिमान् जीवत्यब्दशतत्रयं धृतिमतिस्मृत्यादिभिर्भूषितः॥

श्लोक 232

क्षीरेण कन्दचूर्णं पिबन्यवागूं च परिणते मासम्।
लवणस्नेहविनां दृढदृग्जीवेच्छरद्द्विशतम्॥

श्लोक 233

तिमिरं क्षौद्रघृताभ्यां पथ्यभुजस्तद्रजो जयेन्मासात्।
कन्दत्रयं च भृष्टं घृतेश्नतो भक्षितं वातान्॥

श्लोक 234

तत्कन्दसूक्ष्मरजसा त्रिभागगोधूमचूर्णमिश्रेण।
पयसा पक्त्वा खादेत् घृतपूरानान्त्रवृद्धिहरान्॥

श्लोक 235

त्रीन् कन्दकांश्च निशि भक्षयताज्यभृष्टान् धात्रीफलाम्बु ससितं चह्गलीपयो वा।
पेयं दृगामयजयाय निषेवितव्या कामं च रोगशममात्रफलार्थिभिः सा॥

श्लोक 236

क्षीरान्विता मूलकतुल्यकन्दा सप्ताष्टपत्रासितरक्तकाण्डा।
विभर्त्ति या पल्लवमब्दशब्दात् सा कञ्चुकी श्वेतवपुर्वरेण्या॥

श्लोक 237

आषाढे कार्तिके वात्तं तत्कन्दं शीतलं स्थितम्।
अङ्गुष्ठपर्वद्वयसं पिष्टं क्षीरपलाष्टके॥

श्लोक 238

कुटीप्रवेशस्तं पीत्वा क्षीरमेव पिबेदनु।
क्षीरमेव च जीर्णेपि पेयां वा स्नेहभर्जिताम्॥

श्लोक 239

किञ्चिदुष्णामलवणां स्पृशेदुष्णाम्बु नो हिमम्।
एकेन सप्तरात्रेण कुष्ठान्येवं नियच्छति॥

श्लोक 240

सर्वव्याधीन् द्वितीयेन तृतीयेन तु सर्पवत्।
त्यक्त्वा त्वचं ततो जीर्णां केशदन्तनखानपि।
धीमेधारूपवान् जीवेत् पञ्चवर्षशतानि च॥

श्लोक 241

कञ्चुकीकन्दचूर्णं वा स्वेन क्षीरेण भावितम्।
गोक्षीरकुडवे न्यतं कर्षं खण्डपलान्वितम्।
पीतं सर्वाभयान् हन्ति नखकेशस्थितानपि॥

श्लोक 242

पीततत्स्वरसं चूर्णं तस्या मधुघृतान्वितम्।
खादन्हिताशी सप्ताहं त्वग्दोषांस्तिमिरं जयेत्॥

श्लोक 243

विडङ्गताप्यत्रिफलालोहकञ्चुकिजं रजः।
सप्तरात्रत्रयं लिह्यान्मधुना संयतेन्द्रियः॥

श्लोक 244

क्षीरेण भोजनं जीर्णे शालेर्लाबरसेन वा।
तथास्य काचत्यिमिरे सुकृच्छ्राः शिरसो गदाः॥

श्लोक 245

मेधाविनः प्रणश्यन्ति गात्रं सुप्तं च बुध्यते।
एष सप्तामृतश्चूर्णः सर्वव्याधिषु पूजितः॥

श्लोक 246

पलं चूर्णस्य कञ्चुक्याः क्षीरप्रस्थे समावपेत्।
स्नेहं दध्नस्ततो लिह्याज्जितात्मा ससितामधु॥

श्लोक 247

शालेरन्नं पयः पानं मासमेवं प्रयोजयेत्।
चतुर्गुणः परीहारः शोषशाब्दसमद्युतिः।
शतानि पञ्च वर्षाणां जीवेद्देव इवोर्जितः॥

श्लोक 248

पचेत् पलानि द्रोणेपां कञ्चुक्याः पञ्चविंशतिः।
अष्टांशशिष्टे तु घृतात् प्रस्थं क्षीरसमं पचेत्॥

श्लोक 249

शङ्खपुष्पीवचाकुष्ठत्रिवृतामरदारुभिः।
वरायष्टीसिताद्राक्षामहिषाक्षैः पलांशिकैः॥

श्लोक 250

युक्तैः कमलकिञ्जल्कत्रिपलेन हिमेऽत्र च।
क्षौद्राच्चतुष्पलं दद्यादेतन्मर्त्यामृताह्वयम्।
चक्षुष्यं बृंहणं मेध्यं वर्ण्यं वर्षशतप्रदम्॥

श्लोक 251

पचेत्पलानि कञ्चुक्यास्त्रीणि लोहात्सुचूर्णितात्।
पलाशबीजाच्चत्वारि दश द्वे च फलत्रयात्॥

श्लोक 252

अष्टादश शतावर्या बीजकस्यैकाविंशतिः।
जीवन्त्याः षोडशैकध्यं पौर्णमास्यां विपाचयेत्॥

श्लोक 253

वहेऽपां पादशेषे च पृथगर्द्धाढकेन च।
पचेत् काञ्जिकमस्तुभ्यां घृतप्रस्थं पिचून्मितैः॥

श्लोक 254

शताह्वारुष्करवचाकुष्ठैलाबिडहिङ्गुभिः।
सौवर्चलान्वितैः पद्मकेसराच्च त्रिभिः पलैः॥

श्लोक 255

पञ्चभिः पद्मबीजानां पद्मद्वादशकेन च।
एतत् सोमामृतं पीत्वा यस्सोमोऽद्यापि राजते॥