श्लोक 1
अथातो विषोपयोगीयं नामाध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः।
विषे प्रतिविषं योज्यं मन्त्रतन्त्रैरसिध्यति।
अतीते पञ्चमे वेगे सप्तमस्यानतिक्रमे।
प्रभोनिर्वद्ये प्रयतो नैव वाख्याय कस्यचित्॥
श्लोक 2
सिद्धमन्त्रधरः कृत्वा धरणीबन्धमादितः।
नहि मन्त्रसहायस्य विषं यात्यविधेयताम्॥
श्लोक 3
श्लेष्मतुल्यगुणं प्रायः स्थिरमूर्ध्वगमं विषम्।
प्रायः पित्तगुणैर्युक्तमधोगामि च जङ्गमम्॥
श्लोक 4
गुणैरिति विपर्यस्तैर्निहतस्ते परस्परम्।
युञ्ज्यान्मूलविषं तस्माद्दष्टानां पानलेपयोः॥
श्लोक 5
विषपीतं च कुशलो दंशयेत् पवनाशिभिः।
न विषप्रतिमं किञ्चिन्निर्विषीकरणं विषे॥
श्लोक 6
चतुर्भिः षड्भिरष्टाभिर्हीनमध्योत्तमां यवैः।
मात्रां विषस्य मौलस्य प्रयुञ्जीत यथायथम्॥
श्लोक 7
दष्टस्य द्वौ यवौ कीटैस्तिलमात्रं तु वृश्चिकैः।
नैव स्वसृक्स्थे पाने तु लूतादष्टस्य नेष्यते॥
श्लोक 8
सविषे युक्तममृतं विषमेवाविषे विषम्।
अबले चातिबलवद्व्यापन्नं च प्रयोगतः॥
श्लोक 9
सविषाविषशङ्कायामगदानुपयोजयेत्।
अविरुद्धान् प्रयुक्तो हि निर्विषस्यागदो गदः॥
श्लोक 10
तद्वच्च सविषत्यापि क्रियाकालातिपाततः।
जानीयाद्विषसद्भावं भिषक्तस्मात् प्रयत्नतः॥
श्लोक 11
साक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम्।
वत्स्स्नाभं च कर्मण्यं विषं स्निग्धं घनं गुरु। नजात्वन्यत् प्रयोक्तव्यं कालकूटं विशेषतः॥
श्लोक 12
विषेऽवचारिते तीक्ष्णे पेयं घृतमनन्तरम्।
सभार्ङ्गीदधिधूमोत्थसारिवातण्डुलीयकम्॥
श्लोक 13
अगारधूममञ्जिष्ठायष्ट्याह्वैर्वा समन्वितम्।
लिह्याद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम्॥
श्लोक 14
क्षीरक्षौद्रघृतैर्युक्तं पीतं हन्ति विषं विषम्।
श्लोक 15
ससिन्दुवारतगरं मृतसञ्जीवनं विषम्॥
श्लोक 16
शिरीषकुसुमं वक्रं विषमाखुविषापहम्॥
देवदारुनतंमांसी द्रामिलीबाकुचीविषम्।
कुष्ठं च पानलेपाभ्यां समस्तविषशाशनम्॥
श्लोक 17
मनश्शिलाज्जनालैला सिन्दुवारामराह्वयम्।
सरक्ताकुंकुमविषं ध्मानं निस्संज्ञबोधनम्॥
श्लोक 18
दाहे विषोद्भवे लेपः सक्तुक्षीरघृतैर्हितः॥
श्लोक 19
यस्तु संरोषितो भोगी धूमं वक्त्राद्विमुञ्ज्चति।
दण्डाग्रे पिशितं बध्वा बहुशस्तेन दंशयेत्॥
श्लोक 20
अशक्यमगदैरन्यैर्विषपीतं चिकित्सकः।
पाययेन्मांसचूर्णं तं ज्ञात्वा विषबलाबलम्॥
श्लोक 21
अन्येष्वपि च रोगेषु शेषोपायपरिक्षये।
विषं युञ्जीत नित्यं च रसायनगवेषिणः॥
श्लोक 22
घृतोपस्कृतदेहस्य विशुद्धस्य हिताशिनः।
सात्विकस्योदिते भानौ योज्यं शीतवसन्तयोः॥
श्लोक 23
ग्रीष्मेप्यात्ययिके व्याधौ न च वर्षासु दुर्दिने॥
श्लोक 24
न क्रोधने न पित्तार्ते न क्लीबे राजनि द्विजे।
क्षुत्तृष्णाश्रमघर्माध्वव्याध्यन्तरनिपीडिते।
गर्भिणीबालवृद्धेषु न रूक्षेषु न मर्मसु॥
श्लोक 25
अभ्यस्तेपि विषे यत्नाद्वर्जनीयान् विवर्जयेत्।
कट्वम्लतैललवणदिवास्वप्नातपानलान्।
रूक्षमन्नं विशेषेण भयं वाजीर्णतः सदा॥
श्लोक 26
दृग्विभ्रमं कर्णरुजामन्यांश्चानिलजान् गदान्।
विषं रूक्षाशिनः कुर्यान्मृत्युमेव त्वजीर्णतः॥
श्लोक 27
अलं गोमूत्रसंयुक्तमातपे शोषयेत् त्र्यहम्।
विषं बृंहणमेतद्धि विषस्यादौ प्रशस्यते॥
श्लोक 28
तत् पिबेन्मस्तुना वातज्वरे क्षीरेण पैत्तिके।
युक्तं मूत्रेण कफजे सर्वजे त्रिफलाम्भसा॥
श्लोक 29
लोध्रचन्दनषड्ग्रन्थाशर्कराघृतमाक्षिकैः।
क्षीरेण च विषं युक्तं जीर्णज्वरहरं परम्॥
श्लोक 30
निकुम्भकुम्भत्रिफलासर्पिर्मधुविषैःकृतः।
निहन्ति मोदको जीर्णज्वरमेहत्वगामयान्।
शिखिकर्किरसोपेतं विषमज्वरजिद्विषम्॥
श्लोक 31
विषं यष्ट्याह्वयं रास्नासेव्यमुत्पलकन्दकम्।
तण्डुलोदकपीतानि रक्तपित्तस्य भेषजम्॥
श्लोक 32
विषं रसाञ्जनं भार्ङ्गी वृश्चिकाली महासहा।
सवेदने सपाके च व्रणे दुष्टे प्रलेपनम्॥
श्लोक 33
सिताविषक्षीरतरुप्रवाला मधुना द्रुताः।
श्वासहिध्मापहा लीढाश्छर्दिध्न्यस्तु विषान्विताः।
क्षौद्रोशीरमधुक्षाररजनीकुटजत्वचः॥
श्लोक 34
विजयापिप्पलीमूलपिप्पलीद्वयचित्रकैः।
पुष्कराह्वशठीद्राक्षायवानीक्षारदीप्यकैः॥
श्लोक 35
सितायष्टीद्विबृहतीसैन्धवैः पालिकैः पचेत्।
सविषार्द्धपलैः प्रस्थं घृतात्तज्जीर्णभुक्पिबेत्॥
श्लोक 36
दुर्नाममेहगुल्मार्मतिमिरक्रिमिपाण्डुताः।
गलग्रहग्रहोन्मादकुष्ठानि च नियच्छति॥
श्लोक 37
कृच्छ्रघ्ना विषपथ्याग्निदन्तीद्राक्षानिशाविषाः।
शिलाजतु विषं मूत्रमुदावर्ताश्मरीहरम्॥
श्लोक 38
गोमूत्रक्षारसिन्धूत्थं विषं पाषाणभेदकम्।
वज्रवद्दारयत्येतदेकतः पीतमश्मरीम्॥
श्लोक 39
समूला पिप्पली मूत्रं विषं शूलहरं तथा।
विषद्रवन्तीमधुकद्राक्षारास्नाशठी कणाः॥
श्लोक 40
एरण्डतैलं त्रिफला गोमूत्रं चित्रको विषम्।
सर्पिषा सहितं पीतं वाताण्डत्वमपोहति॥
श्लोक 41
त्रिफला स्वर्जिकाक्षारो विषं गुल्मप्रभेदनम्।
विषवेल्लमिसिक्षीरं गुल्मप्लीहनिबर्हणम्॥
श्लोक 42
प्लीहोदरघ्नं पयसा शताह्वा क्रिमिजिद्विषम्॥
श्लोक 43
वायसीमूलनिष्क्काथपीतं कुष्ठहरं विषम्॥
श्लोक 44
वायस्याराजवृक्षत्वक्त्रायन्तीबाकुचीफलात्।
प्लीहघ्नेभकणाभ्यां च विषं क्वाथेन कुष्ठजित्॥
श्लोक 45
अवल्गुजैडगजयोर्बीजं क्षारद्वयं विषम्।
लेपः ससैन्धवः पिष्टो वारिणा कुष्ठनाशनः॥
श्लोक 46
चित्रकार्कजटाहस्तिपिप्पलीबाकुचीविषैः।
गोमूत्रपिष्टैरन्योन्योमनोह्वास्नुक्पयोविषैः॥
श्लोक 47
सचन्द्रलेखैडगजकरञ्जफलसैन्धवैः।
सव्योषस्वर्जिकाक्षारयवक्षारनिशाद्वयैः।
अगारधूमसहितैर्बस्तमूत्रेण कल्कितैः।
भल्लातकाग्निशम्याकविषैर्गोमूत्रपेषितैः।
लेपो विचर्चिकाददुशतारुःकिटिभापहः।
शम्याकपत्रत्वङ्मूलं विषं तक्रं च तद्गुणम्॥
श्लोक 48
विषभल्लातकद्वीपिगुञ्जानिम्बफलैर्जयेत्।
लेपोम्लपिष्टैः श्वित्राणि पुण्डरीकं च दारुणम्॥
श्लोक 49
वक्रकुष्ठरसद्वीपिस्पृक्कापत्रैलवालुकम्।
पिष्टं खदिरतोयेन त्रिरात्रमुषितं पिबेत्॥
श्लोक 50
श्वित्री विषेण संसृष्टं ततः स्फोटान् किलासजान्।
कण्टकेन विभिद्यानु लेपैर्लिम्पेत कौष्ठिकैः॥
श्लोक 51
अथवा करवीरार्कमूलबाकुचिकाविषैः।
बताम्बुपिष्टैः सद्वीपिद्विपपिप्पल्यरुष्करैः॥
श्लोक 52
लाक्षासुराह्वामञ्जिष्ठाकुष्ठपद्मकसारिवाः।
गुञ्जाफलं कुरबको लाङ्गली वज्रकन्दकः॥
श्लोक 53
वाराहीकन्दकास्फोता सप्ताह्वगिरिकर्णिकाः।
अर्काश्वमारयोर्मूलं नागपुष्पं नतं निशे॥
श्लोक 54
दन्ती विषं सातिविषं पिप्पली मरिचानि च।
तैस्तैलं कटुतैलं वा श्वित्रस्याभ्यञ्जनं पचेत्।
सवर्णीकरणं श्रेष्ठमास्तिकस्य वचो यथा॥
श्लोक 55
वीरा लाङ्गलिकी दन्ती विषपाषाणभेदकैः।
प्रयोज्यो मूढगर्भाणां प्रलेपो गर्भमोचनः॥
श्लोक 56
स्वरसं बीजपूरस्य वचां ब्राह्मीरसं घृतम्।
बन्ध्या पिबन्ती सविषं सुपुत्रैः परिवार्यते॥
श्लोक 57
नष्टशुक्रः पयो द्राक्षाकपिकच्छु वचा विषम्॥
श्लोक 58
विषं सर्पिः सिता क्षौद्रं तिमिरापहमञ्जनम्।
विषं चैकमजाक्षीरकल्कितं घृतधूपितम्॥
श्लोक 59
विषं धात्रीफलरसैरसकृत् परिभावितम्।
अञ्जनं शङ्खसहितं प्रगाढतिमिरप्रणुत्॥
श्लोक 60
विषमिन्द्रायुधं स्तन्ये घृष्टं काचजिदञ्जनम्।
बीजपूररसे घृष्टं विषं तद्वत्सितायुतम्।
विषं मागधिका द्वे च निशे काचघ्रमञ्जनम्॥
श्लोक 61
शुक्लार्मजिद्विषं कृष्णायुक्तं गोमूत्रभावितम्॥
श्लोक 62
समुद्रफेनस्फटिककुरुविन्दसुधाञ्जनम्।
कूर्मपृष्ठं च तुल्यानि तेभ्योर्द्धांशा मनश्शिला॥
श्लोक 63
अर्द्धहीनानि मरिचसैन्धवायोरजांसि च।
अतो यथोत्तरं दद्यादयसा च समं विषम्।
रसक्रियेयं मधुना शुक्लपिल्लार्मकाचहृत्॥
श्लोक 64
अभीक्ष्णं शीततोयेन सिञ्ज्चेन्नेत्रे विषाञ्जिते॥
श्लोक 65
रसोनकन्दमरिचविषसर्षपसैन्धवैः।
पिल्लेक्षि लिखितं पूर्वं सुरसारसपेषितैः॥
श्लोक 66
पूरयेत् सर्पिषा चानु सर्पिरेव च पाययेत्।
मधूकसारमधुकविषक्षीरजलैर्घृतम्।
पक्वं सन्तर्पणं श्रेष्ठं रात्र्यन्धत्वे चिरोत्थिते॥
श्लोक 67
नस्यं शिरोरुक्शमनं प्रत्यक्पुष्पी सिता विषम्।
अथवा घृतयष्ट्याह्वशर्करा विषसंयुताः॥
श्लोक 68
शुण्ठी पथ्या विषं पाठा द्रवन्ती पूतिनासजित्॥
श्लोक 69
कटुतैलं विषं नस्यं पलितारूंषिकापहम्॥
श्लोक 70
स्वर्जिकाक्षारसिन्धूत्थशुक्तयुक्तं विषं परम्।
कर्णयोः पूरणं तीव्रकर्णशूलनिबर्हणम्॥
श्लोक 71
प्रपौण्डरीकमञ्जिष्ठाविषसिन्धुसमुद्भवैः।
निहन्ति साधितं तैलं गण्डूषेण मुखामयान्॥
श्लोक 72
देवदारु विषं सर्पिर्गोमूत्रं कण्टकारिका।
वाचःस्खलनतां हन्ति पीतमित्याह काश्यपः॥
श्लोक 73
शत्रुप्रयुक्ताद्विषतो गराद्वा।
लूताभुजङ्गाखुगणाज्जरायाः।
अकालमृत्योर्ग्रहपाप्मतो वा।
विषाशिनो नास्ति भयं नरस्य॥
।इति अष्टचत्वारिंशोऽध्यायः।
॥इति विषतन्त्रंनाम षष्ठमङ्गं सम्पूर्णम्॥