अष्टाङ्गसंग्रहः उत्तरस्थानम् 46

श्लोक 1

अथातो मूषिकालर्कप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

लालनश्चपलः पुत्रो हसिरश्चिकिरोऽजिनः।
कषायदन्तः कुलकः कोकिलः कपिलोऽसितः॥

श्लोक 3

अरुणः शबलः श्वेतः कपोतः पलितोन्दुरुः।
चुच्छुन्दारो रसालाख्यो दशाष्टौ चेति मूषिकाः॥

श्लोक 4

यस्मिन्नङ्गे पतत्येषां शुक्रमङ्गैः स्पृशन्ति वा।
यच्छुक्रदिग्धैस्तत्रास्रे दूषिते पाण्डुतां गते॥

श्लोक 5

ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोरुचिः।
शीतज्वररोतिरुक्सादो वेपथुः पर्वभेदनम्॥

श्लोक 6

रोमहर्षः स्नुतिर्मूर्च्छा दीर्घकालानुबन्धनम्।
श्लेष्मानुविद्धबह्वाखुपोतकछर्दनं सकृत्॥

श्लोक 7

व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति॥

श्लोक 8

मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः।
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम्॥

श्लोक 9

शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम्।
चुच्छुन्दुरुसगन्धं च वर्जयेदाखुदूषितम्॥

श्लोक 10

शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः।
मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम्॥

श्लोक 11

लालावानन्धबधिरः सर्वतः सोभिधावति।
स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः॥

श्लोक 12

दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक्।
हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्छोद्भवोऽनु च॥

श्लोक 13

अनेनान्येपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः।
सृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः॥

श्लोक 14

कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः।
विदाहरागरुक्पाकशोफग्रन्थि विकुञ्चनम्॥

श्लोक 15

दंशावदरणं स्फोटाः कर्णिका मण्डलानि च।
सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे॥

श्लोक 16

दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति।
पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु॥

श्लोक 17

जलदर्शनसंस्पर्शशब्देभ्यो यश्च सन्त्रसेत्।
अदष्टमपि तं जह्याज्जलसन्त्रासरोगिणम्॥

श्लोक 18

आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत्।
दर्पणेनाथवा तीव्ररुजा स्यात् कर्णिकान्यथा॥

श्लोक 19

दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्।
शिरीषरजनीवक्रकुङ्कुमामृतवल्लिभिः॥

श्लोक 20

अगारधूममञ्जिष्ठा रजनी लवणोत्तमैः।
लेपो जयत्याखुविषं कर्णिकायाश्च पातनः॥

श्लोक 21

ततोम्लैः क्षालयित्वा तु तोयैरनु च लेपयेत्।
पालिन्दी श्वेतकटभी बिल्वमूलगुडूचिभिः।
अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेत् द्रुतम्॥

श्लोक 22

छर्दनं जालिनीकाथैः शुकाख्याङ्कोलयोरपि।
कोशवत्याः शुकाख्यायाः फलं जीमूतकस्य च।
मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्॥

श्लोक 23

वचामदनजीमूतकुष्ठं वा मूत्रपेषितम्।
पूर्वकल्पेन पातव्यं सर्वोन्दुरुविषापहम्॥

श्लोक 24

निष्पावाः कदलीमूलं बन्धुजीवफलानि च।
सुवर्चलारामठकं स्वर्जिकातिविषाद्वयम्। श्यामाद्रिकर्णिकामूलमूर्धचैंवमनत्रयम्॥

श्लोक 25

वान्तस्य शुद्धे हृदये शूलं हिध्मारुचिर्वमिः।
उष्णोद्गारानुबन्धो वा स्याच्चेत्तत्रैतदौषधम्॥

श्लोक 26

जीरकं त्र्यूषणं कुष्ठं तुङ्गाख्यं नागकेसरम्।
रजन्यौ सैन्धवं सेव्यं यष्टीमधुसुवर्चलाम्॥

श्लोक 27

मधुरं च गणं पिष्ट्वा बीजपूरकपित्थयोः।
रसेन षाडवं कुर्यान्मधुमत्स्यण्डिकान्वितम्।
गन्धवर्णरसोपेतः स पीतो विषदोषजित्॥

श्लोक 28

द्विपिप्पलीद्व्यंशुमतीक्वाथे पेया च तद्गुणा॥

श्लोक 29

विरेचने त्रिवृन्नीलीत्रिफलाकल्क इष्यते।
शिरोविरेचने सारः शिरीषस्य फलानि च॥

श्लोक 30

अञ्जने गोमयरसो व्योषसूक्ष्मरजोन्वितः।
कपित्थगोमयरसो मधुमानवलेहने॥

श्लोक 31

तण्डुलीयकमूलेन सिद्धं पाने हितं घृतम्।
द्विनिशा कटभी रक्ता यष्ट्याह्वैर्वामृतान्वितैः।
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा॥

श्लोक 32

अधोभागे विशुद्धस्य शूलं नाभ्यां भवेद्यदि।
पुरीषं वा विबध्येत गुदे स्याद्वा विकर्तिका॥

श्लोक 33

तत्र पेयां पिबेच्छीतां शर्करामधुसंयुताम्।
पिप्पली पिप्पलीमूलसारिवा कटुकाह्वयैः।
शृतैः सिद्धां सह बलासमङ्गाविश्वभेषजैः॥

श्लोक 34

नलदध्यामकव्योषलोध्रचित्रकदीप्यकम्।
कुतलक्षारतोयेन पिष्टं माक्षिकसर्पिषा॥

श्लोक 35

दध्ना वा प्राशयेत् क्षौद्रं यवक्षारपयोदधि।
फणितं तैलमाज्यं च विषघ्नं पीतमेकतः॥

श्लोक 36

सिन्दुवारं नतं शिग्रु बिल्वमूलं पुनर्नवम्।
वचा श्वदंष्ट्रा जीमूतमेषां क्वाथं समाक्षिकम्।
पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः॥

श्लोक 37

तक्रेण शरपुङ्खाया बीजं सञ्चूर्ण्य वा पिबेत्।
अङ्कोलमूलवल्को वा बस्तमूत्रेण कल्कितः।
पानलेपनयोर्युक्तः सर्वोन्दुरुविषापहः॥

श्लोक 38

पयः पयस्यया युक्तं सितया मधुकेन च॥

श्लोक 39

किराततिक्तममृतां समङ्गां ककुभत्वचम्।
बाणं पलाशं काश्मर्यं पयस्यां तण्डुलीयकम्॥

श्लोक 40

आखुविन्नां महानिम्बं सप्तपर्णं मधूलिकाम्।
कपित्थं राजवृक्षं वा पिबेदन्यतमं ज्वरी॥

श्लोक 41

स्थिरां मन्दरुजां प्रच्छेत् कर्णिकां पातयेत वा।
श्यामा लाङ्गलिका दन्ती किणिही गिरिकर्णिका॥

श्लोक 42

आखुवृक्षो महावृक्षस्त्रिवृदञ्जनकी स्नुही।
कर्णिकापातनं कल्कमेकैकं तिलकल्कवत्॥

श्लोक 43

क्षीरिप्रवालमञ्जिष्ठाबलादार्वीहयाह्वयाः।
रोपण्यः कल्कितास्तैलं घृतं वा साधितं तथा।
द्विनिशा तिलयष्ट्याह्वतगरोशीरपद्मकैः॥

श्लोक 44

सामान्येनेति निर्दिष्टा क्रियाखूनां विशेषतः॥

श्लोक 45

लालनेन वमिर्मूर्च्छा लालास्रावश्च जायते।
लिह्यात् समाक्षिकं तत्र चूर्णितं तण्डुलीयकम्॥

श्लोक 46

चपलेन वमिर्मूर्च्छा तृड्वा तत्रावलेहयेत्।
सदारुमुस्तां त्रिफलां पुत्रकेण तु पाण्डुता॥

श्लोक 47

सादोङ्गे सर्वतश्चाखुसदृशग्रन्थिसम्भवः।
शिरीषबीजं कुष्ठं च मधुना तत्र लेहयेत्॥

श्लोक 48

हसिरेणान्नविद्वेषो जृम्भणं रोमहर्षणम्।
आरग्वधदिनिर्यूहं सुवान्तं तत्र पाययेत्॥

श्लोक 49

चिकिरेण शिरोदुःखं शोफो हिध्मा वमिर्भ्रमः।
वान्तोत्र जालिनीक्वाथैः सारमङ्कोलजं पिबेत्॥

श्लोक 50

अजिनेनाङ्गकृष्णत्वं मूर्च्छा छर्दिश्च हृद्ग्रहः।
मधुना तत्र मञ्जिष्ठां लिह्यात् स्नुक्क्षीरकल्किताम्॥

श्लोक 51

निद्रा कषायदन्तेन हृच्छोषः कृशताति च।
शिरीषसारत्वग्बीजं तत्र क्षौद्रेण लेहयेत्॥

श्लोक 52

कुलकेन रुजास्रावौ राजयो दंशमण्डले।
स सिन्दुवारकौ तत्र सहौ लिह्यान्मधुप्लुतौ॥

श्लोक 53

ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः।
नीलीपुनर्नवाक्वाथे सिद्धं तत्र पिबेत् घृतम्॥

श्लोक 54

कपिलेन व्रणे कोथो ज्वरो ग्रन्थिर्भ्रमः सतृट्।
लेहयेन्मधुना श्वेतां श्वेतां चात्र पुनर्नवाम्॥

श्लोक 55

रक्तं कृष्णेन वमति विशेषाद् दुर्दिने पिबेत्।
तत्र किंशुकभस्माम्बु शिरीषफलवालकम्॥

श्लोक 56

अरुणाद्याः पृथग्दोषसन्निपातास्रसम्भवान्।
जनयन्ति क्रमाद्रोगान् सर्वे च ग्रन्थिकर्णिकाः॥

श्लोक 57

करञ्जारग्वधव्योषबृहत्यंशुमतीद्वयात्।
क्वाथे दधिपयः सर्पिः पृथक्प्रस्थोन्मितं पचेत्॥

श्लोक 58

कपित्थदाडिमवरी विशालात्रिसुगन्धिकाः।
त्रिवृतामृत्तिका वक्रगुडूचीश्चात्रकल्किताः॥

श्लोक 59

क्षिपेत्तदरुणादीनां पञ्चानां विषनाशनम्।
काकादनी काकमाची स्वरसेन शृतं घृतम्॥

श्लोक 60

क्लमश्चुच्छुन्दरेणोग्रो ग्रीवास्तम्भो विषूचिका।
यवनालर्षभक्षारं बृहत्यौ वात्र पाययेत्॥

श्लोक 61

ग्रीवास्तम्भो रसालेन वेदना दंशमण्डले।
लिह्यान्महागदं तत्र घृतमाक्षिकसंयुतम्॥

श्लोक 62

सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने।
यथायथं वा लाकेषु दोषाणां वृद्धिहेतुषु॥

श्लोक 63

तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः।
यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः॥

श्लोक 64

दंशत्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा।
प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत्।
व्रणस्योपरि निष्पीड्यः प्रत्यक्पुष्पीरसोथवा॥

श्लोक 65

तिलगुग्गुलुदूर्वाणां दाडिमस्य गुडस्य च।
कल्को मुहुर्मुहुर्लेपः श्वदंशविषजित्परम्॥

श्लोक 66

नलमूलं जले पिष्टं पानलेपनयोर्हितम्।
मातुलुङ्गच्छदैर्दंशं बध्नीयाद्दन्तचर्वितैः॥

श्लोक 67

अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्॥

श्लोक 68

पिबेत् पुनर्नवां श्वेतां धुर्धूरकफलान्विताम्॥

श्लोक 69

फलं धुर्धूरकान्मूलं काकोदुम्बरिकोद्भवम्।
शीधुना श्वविषं हन्ति पीतं वा तण्डुलाम्बुना॥

श्लोक 70

ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः।
भिनत्ति विषमालर्कं घनवृन्दमिवानिलः॥

श्लोक 71

लशुनोषणवैदेही वरा गोपित्तकल्किताः।
पाननस्याञ्जनालेपैः श्वदष्टस्यौषधं परम्॥

श्लोक 72

जलवेतसपत्रत्वङ्मूलं क्षुण्णं पचेज्जले।
स क्वाथः शीतलः पीतः परं श्वविषभेषजम्॥

श्लोक 73

तत्सिद्धं च घृतं पाननस्याभ्यञ्जनलेपनम्।
जलत्रासे समस्ते च विषे तत् गरुडोपमम्॥

श्लोक 74

यवमाषकुलत्थानां पञ्चमूलस्य चाम्भसि।
क्षीरद्विगुणिते सर्पिः साधयेच्छ्लक्ष्णकल्कितैः॥

श्लोक 75

अश्वगन्धासहाकुष्ठबृहतीरजनीद्वयैः।
विदारीनतकट्वङ्ग पयस्यासिन्दुवारकैः॥

श्लोक 76

सर्पगन्धानखाभीरुशर्करारक्तचन्दनैः।
श्वसंष्ट्रोपद्रवान् सर्वान् पानाभ्यङ्गैर्निहन्तितत्॥

श्लोक 77

हृद्विदाहे प्रसेके च विरेकवमने भृशम्।
विषदोषहरे योज्ये शुद्धे संसर्जनक्रमः॥

श्लोक 78

दद्यात् संशोधनं तीक्ष्णमवश्यं विषनाशनम्।
अशुद्धस्य निरूढेपि व्रणे कुप्यति तद्विषम्॥

श्लोक 79

सरत्रबीजौषधिभिः कुम्भैः शीताम्बुपूरितैः।
अष्टोत्तरशतं वारान् सिद्धमन्त्राभिमन्त्रितै॥

श्लोक 80

अष्टोत्तरशतोन्मानैः पुष्पमालावगुण्ठितैः।
गोचर्ममात्रके लिप्ते ज्वलिताग्नौ कुशास्तृते।
स्थण्डिले सरितस्तीरे स्नानं वास्य चतुष्पथे॥

श्लोक 81

अलर्काधिपते यक्ष सारमेयगणाधिप।
अलर्कजुष्टमेतं मे निर्विषं कुरु मा चिरात्।
स्वाहेतिमन्त्रोलर्कार्त्ते सर्वकर्मसु शस्यते॥

श्लोक 82

चतुष्पाद्भिद्विपाद्भिर्वा नखदन्तपरिक्षतम्।
शूयते पच्यते रागज्वरस्रावरुजान्वितम्॥

श्लोक 83

सोमवल्कोश्वकर्णश्च गोजिह्वा हंसपादिका।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥
॥इति षट्चत्वारिंशोऽध्यायः॥