अष्टाङ्गसंग्रहः उत्तरस्थानम् 44

श्लोक 1

अथातो लूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

विश्वामित्राय रुष्टस्य वसिष्ठस्य ललाटजाः।
स्वेदलेशाः स्मृता लूता लूने ये पतितास्तृणे॥

श्लोक 3

खाण्डवे दह्यमानानामसुराणां शरीरतः।
ये स्फुलिङ्गा विनिश्चेरुस्ते लूता इति केचन॥

श्लोक 4

अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात्।
सम्भवन्ति विषस्फोटा ये लूताः कीटलक्षणम्।
यथास्वं धारयन्तस्ते लूताः कीटाश्च संज्ञिताः॥

श्लोक 5

तत्र घोरतमा लूता भिद्यन्ते ता अपि त्रिधा।
तक्ष्णिमध्यावरत्वेन घ्नन्ति वाश्वचिकित्सिताः।
सप्ताहेन दशाहेन पक्षेण च परं क्रमात्॥

श्लोक 6

कपिलाग्निमुखी पीता पद्मा मूत्रा सितासिता।
आग्नेय्यः स्वेदजाः सप्त लूताः पित्तविकारदाः॥

श्लोक 7

पाण्डुरा रक्तपदिका भृङ्गा पिङ्गा त्रिमण्डला।
पूतिर्वीराण्डजाःसप्त सौम्याः श्लेष्मविकारदाः॥

श्लोक 8

कुमुदालविषा रक्ता श्चित्रा सन्ता निमेचका।
कसना चोद्भिदाः सप्त वायव्या वायुरोगदाः॥

श्लोक 9

काकाण्ड्येणपदी लाजा वैदेही जालिनी तथा।
मालागुणा सुवर्णा च मिश्राः सप्तोपपादिकाः॥

श्लोक 10

व्याप्नुवन्त्याशु गात्राणि ज्वलत्पावकसन्निभाः।
सन्निपातकृतोऽसाध्याः साध्याः कृच्छ्रेणचेतराः॥

श्लोक 11

ता दशन्ति सिते पक्षेऽसिते सन्धौ सदैव च॥

श्लोक 12

दंशः सामान्यतस्तासां दद्रुमण्डलसन्निभः।
सितोऽसितोऽरुणःपीतःश्यावो वा मृदुरुन्नतः॥

श्लोक 13

मध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः।
विसर्पवाञ्छोफयुतस्तप्यते बहुवेदनः॥

श्लोक 14

ज्वराशुपाकविक्लेदकोथावदरणान्वितः।
क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्॥

श्लोक 15

श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः।
अष्टाभिरुद्वमन्त्येता विषं वक्त्राद्विशेषतः॥

श्लोक 16

श्वासेन दंशः सहसा शूयते ज्वरदाहवान्।
दंष्ट्राकृतस्तूग्रतरो विवर्णः कठितः स्थिरः॥

श्लोक 17

गम्भीरशोफवस्तोदवेदनादाहसंयुतः।
दुर्गन्धी शकृता दाहकण्डूचिमिचिमान्वितः॥

श्लोक 18

पच्यते चाशु पक्वश्च पाण्डुः पीलुफलोपमः।
मूत्रेण रक्तपर्यन्तो मध्ये कृष्णो विशीर्यते॥

श्लोक 19

आवर्तसदृशः शूनः पूतिः सर्पति दह्यते।
शुक्रेण ग्रन्थिसंस्थानः कठिनस्तीव्रवेदनः॥

श्लोक 20

अल्पमूलोल्परुक्वोठो लालया कण्डुरो मृदुः।
नखेन चोषपिटकाकण्डूधूमायनान्वितः।
किंशुकोदरवर्णस्तु रजसा चञ्चुमालवान्॥

श्लोक 21

लूता नाभेर्दशन्त्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः।
तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्॥

श्लोक 22

दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः॥

श्लोक 23

सूचीव्यधवदाभाति ततोसौ प्रथमेऽहनि।
अव्यक्तवर्णः प्रचलः किञ्चित् कण्डूरुजान्वितः॥

श्लोक 24

द्वितीयेऽत्युन्नतोन्तेषु पिटकैरिव चाचितः।
व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः॥

श्लोक 25

तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः।
शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः॥

श्लोक 26

महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः॥

श्लोक 27

विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान्।
षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवित॥

श्लोक 28

विषमित्यतितीक्ष्णानामितरे विभजेदतः॥

श्लोक 29

विषं शाम्यति सर्वासामेकविंशतिरात्रतः॥

श्लोक 30

दंशः पित्तात्मको दाहतृट्स्फोटज्वरदाहवान्।
सशोफः कठिनः पाण्डुः कण्डूमान् श्लैष्मिकोल्परुक्।
वातिकः परुषः श्यावः पर्वभेदादिरुक्करः॥

श्लोक 31

सर्पज्ञानोदितैर्लिङ्गैर्द्दोषोद्रेकं च लक्षयेत्॥

श्लोक 32

त्रिदोषाः प्रायशः सर्वा लूताः पित्तकफाधिकाः॥

श्लोक 33

प्राणान्तिकीषु हृन्मोहश्वासहिध्माशिरोग्रहाः।
श्वेतासिताः पीतरक्ताः पिटकाः श्वयथूद्भवः॥

श्लोक 34

वेपुथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता।
श्यावोष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्।
पक्वजम्बूसवर्णं च दंशात् स्रवति शोणितम्॥

श्लोक 35

अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत्।
दहेत् जांबवोष्ठाद्यैर्न तु पित्तोत्तरं दहेत्॥

श्लोक 36

कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसांश्रितम्।
प्रसृतं सर्वतो दंशं न छिन्दीत दहेत् वा॥

श्लोक 37

लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः।
सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः॥

श्लोक 38

सर्वतोपहरेद्रक्तं शृङ्गाद्यैः सिरयापि वा।
स्रुते रक्ते परीषेको घृतक्षीरादिभिर्हितः॥

श्लोक 39

प्रपौण्डरीकद्द्रीबेरसारिवोशीरजीवकाः।
लोध्रचन्दनजीवन्तीमञ्जिष्ठासर्जवञ्जुलाः॥

श्लोक 40

मृणालबिसशैवालकुमुदोत्पलगैरिकाः।
न्यग्रोधोदुम्बराश्वत्थनिचुलप्लक्षवेतसाः॥

श्लोक 41

समङ्गापाटलीगुन्द्राकाकोलीशतपर्विकाः।
शिरीषधातकीमूर्वाविदारीपद्मकिंशुकाः॥

श्लोक 42

शृङ्गाटकं कोशवतीवायसीसोमराजयः।
मधुकांशुमतीमूर्वा यथालाभं समाहृताः।
शस्तः पर्युषितो लेपः सघृतः पैत्तिके वर्णे॥

श्लोक 43

श्यामाद्वयनिशामुस्तानखरास्नामहासहाः।
वासापत्तङ्गसुवहानाकुलीगिरिकर्णिकाः॥

श्लोक 44

सर्पगन्धायवफलानिर्गुण्ड्यश्मन्तकस्थिराः।
शुकाख्या महिषक्रान्ता कुष्ठेन्द्रयवकुङ्कुमम्॥

श्लोक 45

करवीरागरुनतं सुगन्धा सिन्दुवारकम्।
आस्फोटगुन्द्रा च हिता प्रलेपः श्लैष्मिके विषे॥

श्लोक 46

बिम्बीविदुलबन्धूककोविदारपलाशकाः।
सुवहारिष्टकब्राह्मीगुडूचीविश्वसैर्यकाः॥

श्लोक 47

सिद्धार्थका देवदारु विडङ्गानीन्द्रवारुणी।
शतावरीलाङ्गलिकीराजवृक्षपुनर्नवाः॥

श्लोक 48

जीवन्ती वायसी भार्ङ्गी कतकेन्द्रयवार्जुनाः।
मिसिव्याघ्रपदीसिंहपुच्छीमण्डलपर्णिकाः॥

श्लोक 49

श्वदंष्ट्रा कोलबृहती रेवती श्वेतपुष्पिका।
प्रपुन्नाटः कुरवकः प्रलेपो वातिके विषे॥

श्लोक 50

सर्वत्रैव च शस्यन्ते बोधिश्लेष्मातकाक्षकाः॥

श्लोक 51

उदीर्णदोषान् बलिनो विषे महति वाभयेन्।
काकण्डकीकोशवती लोध्रेन्द्रयवसैन्धवैः॥

श्लोक 52

पटोलपत्रमरिचकरघाटप्रियङ्गुभिः।
कृष्णाशुकनसानीपनिम्बसप्ताह्वयष्टिभिः॥

श्लोक 53

विरेचयेच्च त्रिफलात्रिवृत्त्रिकटुसैन्धवैः।
सदन्तीपूगमृद्वीका विडङ्गैरथवा पचेत्।
एभिः पलार्धिकैः प्रस्थं समब्राह्मीरसं घृतात्॥

श्लोक 54

पञ्चमूलशृतं क्षीरं तोयं वा शोधनौषधैः।
यथास्वं कल्कितैर्युक्तं पृथग्दद्याद्विरेचनम्॥

श्लोक 55

पिप्पलीपिप्पलीमूलशुण्ठीन्द्रयवसैन्धवैः।
पाठाजमोदायष्ट्याह्वमुस्तासर्षपदारुभिः॥

श्लोक 56

लघुना पञ्चमूलेन सरलेन च साधिता।
पेया संसर्जने योज्या सघृता विषनाशिनी॥

श्लोक 57

आध्मानहिध्माश्वासेषु पृष्ठग्रीवावभञ्जने।
सङ्कोचस्तम्भकम्पेषु शूलेष्वर्धावभेदके॥

श्लोक 58

वातरोगेषु चान्येषु पर्वभेदार्दितादिषु।
एरण्डविल्वसरलचिरिविल्वार्कपाटलीः॥

श्लोक 59

शिग्रुपाठा कुशवृषं विदुलं च जले पचेत्।
कनीयः पश्चमूलं च तस्मिन् मण्डं पचेत् घृतात्॥

श्लोक 60

द्विगुणे तुल्यगोक्षीरे पिष्टैर्यष्टीनिशानतैः।
सुराह्ववेल्लसरलशताह्वालोध्रगैरिकैः॥

श्लोक 61

पयस्याकुष्ठागाङ्गेयीकृष्णामदनसैन्धवैः।
बस्तौ प्रत्यागतेश्नीयात् पञ्चमूलान्वितैः रसैः॥

श्लोक 62

नावनं गौरवे शोफे लालास्रावे हनुग्रहे।
गिरिकर्णी फलसरो बन्धूकं किणिही सिता॥

श्लोक 63

षड्ग्रन्थालशुनव्योषबृहतीवेल्लसैन्धवम्।
अपामार्गफलं भार्ङ्गी नाकुली सर्पगन्धिका॥

श्लोक 64

श्यामा यवफला बीजं फणिज्जकशिरीषयोः।
वार्ताकरसपिष्टानि नस्यं विषहरं परम्॥

श्लोक 65

विरिक्तशिरसश्चास्य सर्पिर्मण्डोनु नावनम्॥

श्लोक 66

नेत्रोपरोधश्वयथुकण्डूनिद्रासमागमे।
वचामनोह्वात्रिकटुत्रिफलालोध्रगैरिकाः॥

श्लोक 67

शङ्खो नीलोत्पलं ताम्रं हेम प्रवालकम्।
जीवन्ती लशुनं कुष्ठं कतकं मार्कवं नतम्॥

श्लोक 68

प्रपैण्डरीकं मधुकं करञ्जफलसैन्धवम्।
निशे फणिज्जकं तुत्थं स्रोतोञ्जनरसाञ्जने।
मेषशृङ्गयाश्च कुसुमं पिष्टं गोवारिणाञ्जनम्॥

श्लोक 69

सुरसप्रसवव्योषविल्वमूलसुराह्वयम्।
हरिद्रा छागलीमूत्रं लूताकीटघ्नमञ्जनम्॥

श्लोक 70

शिरीषपद्मकोशीरपाटलीसिन्दुवारकम्।
क्षीरिशुङ्गनतोदीच्यसारिवाकुष्ठचन्दनम्॥

श्लोक 71

शेलुस्वरसपिष्टोयमगदो नावनेञ्जने।
पाने प्रलेपे सेके च लूतासु परमं हितः॥

श्लोक 72

पयस्या मधुमृद्वीकाश्वदंष्ट्राक्षीरमोरटाः।
गोजीविदारीयष्ट्याह्वमधुकानि च तद्गुणः॥

श्लोक 73

तथा शिरीषकुसुमं चन्द्रलेखोद्भवं फलम्।
सुराला कटभी जातिः श्वेता च गिरिकर्णिका॥

श्लोक 74

तद्वच्च युञ्ज्यात्तगरकुष्ठनागबलाबलाः॥

श्लोक 75

हरिद्रायुगलं नागदन्ती लोध्रं च शाबरम्।
शिरीषपुष्पं तगरं सहदेवा शतावरी॥

श्लोक 76

पुनर्नवा नागबला सर्पगन्धा कुटन्नटम्।
गवादनी दन्तशठसोमवल्केन्दुराजयः।
विषेषु सर्वेष्वगदः सक्षौद्रः सर्वकर्मकृत्॥

श्लोक 77

सर्पाक्षी चन्दनं वक्रं मृगाक्षी गन्धनाकुली।
एला महासुगन्धा च बस्तमूत्रेण कल्कितः।
लेपे पाने च लूतासु नानेन सदृशोगदः॥

श्लोक 78

कटभीमूलतगरसमङ्गोदवदारुभिः।
बृहतीद्वयगाङ्गेयीरोचनाचन्दनैर्घृतम्॥

श्लोक 79

सिद्धं चतुर्गुणक्षीरं पानाभ्यञ्जनयोर्हितम्।
लूताकणभकीटानां विषे परमदारुणे॥

श्लोक 80

निवृत्ते दाहशोफादौ कर्णिकां पातयेद्व्रणात्॥

श्लोक 81

कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्।
त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा॥

श्लोक 82

हरिद्रा गुग्गुलुः किण्वं वंशलेखः कपोतविड्।
तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम्।
राजक्रोशातकीमूलं किण्वो वा मथितोद्भवः॥

श्लोक 83

कर्णिकापातसमये बृंहयेत विषापहैः॥

श्लोक 84

ऋतुकाले च लूतानां यावन्तः शुक्रविन्दवः।
देहे पतन्ति तावत्यो जायन्ते कर्णिकाः समम्॥

श्लोक 85

गोदन्तदन्ती त्रिवृता हरिद्रे सैन्धवं तिलाः।
मधुकं निम्बपत्राणि घृतं च व्रणशोधनम्॥

श्लोक 86

कान्ताविडङ्गखदिरनिम्बकम्पिल्लकाम्बुदैः।
सर्जैलाधातकीलोहैः सिद्धं सर्पिर्व्रणापहम्॥

श्लोक 87

शिरीषकटभीशेलुक्षीरिवृक्षार्जुनत्वचः।
कल्कचूर्णपरीषेकैः कीटलूताव्रणापहाः॥

श्लोक 88

शताह्वालोध्रकासीसदार्वीजम्ब्वस्थिरोचनाः।
हरीतकी पूगफलं चूर्णोयं व्रणरोपणः॥

श्लोक 89

लाक्षा रजन्यौ मञ्जिष्ठा हरितालं मनश्शिला।
सर्पिर्मधु च लेपोयं त्वग्विशुद्धिकरः परम्॥

श्लोक 90

रोमसञ्जननं कुर्याद्यदुक्तं व्रणसाधने॥

श्लोक 91

स्नेहकार्यमशेषं च सर्पिषैव समाचरेत्।
विषस्य वृद्धये तैलमग्नेरिव तृणोलपम्॥
॥इति चतुश्चत्वारिंशोऽध्यायः॥