अष्टाङ्गसंग्रहः उत्तरस्थानम् 40

श्लोक 1

अथातो विषप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

पुरा खल्वमृतार्थं सुरासुरैः सलिलनिधेर्विमथ्यमानात् क्रोध इव रूपवान् सत्वं समुद्वभूव कृष्णमनलनयनमूर्ध्वप्रदीप्तकेशं दंष्ट्राकरालं भैरवारावरूपम्।
तद्दर्शनादेव यतो देवदानवाश्च विषण्णास्तस्मात्तद्विषसंज्ञामवाप॥

श्लोक 3

तत् सहसैव सर्वभूतानि निर्दग्धुकाममुपयोगविशेषैर्विषममृततां विनयमानो ब्रह्मानुनीयौषधिषु न्यस्तवान्॥

श्लोक 4

ततस्तत् स्थावरासु मूर्तिष्वधिवसनात् स्थावरमित्युच्यते॥

श्लोक 5

जङ्गमं पुनः पृथिव्या भारावतारार्थमुरगादिरूपेण विष्णुर्निर्ममे॥

श्लोक 6

तयोः स्थावरं मूलपत्रपुष्पफलत्वक्सारनिर्यासक्षीरधातुकन्दभेदाद्दशाधिष्ठानम्॥

श्लोक 7

तत्र मूलविषाणि क्लीतनकाश्वमारकगुञ्जासुगन्धकगर्गककर्करकरघाटकादीनि।
पत्रविषं कालपत्रिका लम्बा वरदकरम्भार्कादीनाम्।
पुष्पविषं वल्लीरेणुककरम्भ महाकरम्भादीनाम्।
फलं कुमुद्वतीरेणुकाकरम्भमहाकरम्भमदनकतुवरकादीनाम्।
त्वक्सारनिर्यासाः करककरघाटककरम्भमहाकरम्भनाराचकादीनाम्।
क्षीरं कुमुद्वती दन्ती स्नुह्यर्कजालिनी व्यालादीनाम्।
धातवो हरितालफेनाश्मभस्मरक्तप्रभृतयः।
कन्दजानि तु हालाहलकालकूटवत्सनाभशृङ्गीसाषर्पजालककर्दमकवैराटकमुस्तकमुष्ककसाक्तुकक्रौञ्चकवालकमहाविषपुण्डरीकगालवमूलकमर्कटकर्कटककरवीरकेन्द्रायुधसङ्कोचकलाङ्गलकतैलपेय कुशपुष्पके तु पुष्पकरोहिषाञ्जनाभकादीनि॥

श्लोक 8

तत्र मूलविषैरुपयुक्तैरुद्वेष्टनप्रलापमोहाः प्रजायन्ते।
पत्रविषैर्जृम्भोद्वेष्टनश्वासाः।
पुष्पविषैश्छर्द्याध्मानमोहाः।
फलविषैर्दाहमुष्कशोफौ।
त्वक्सारनिर्यासविषैः प्रसेकास्यदौर्गन्ध्यपारुष्यशिरोवेदनाः।
क्षीरविषैर्जिह्वागौरवं शकृत्भेदश्च।
धातुविषैस्तालुदाहमूर्च्छाहृदयपीडाः।
सर्वमेव च स्थावरं ज्वरहिध्मादन्तहर्षहनुस्तम्भगलग्रहफेनवमनारुचिश्वासमूर्च्छाः करोति विशेषेण कन्दजम्।
तद्ध्यतितीक्ष्णत्वादाशुकारितरम्।
इतरत्तु प्रायः कालान्तरप्राणहरम्॥

श्लोक 9

सर्वमपि चैतन्मौलमित्युच्यते मूलाश्रयत्वात् पत्रादीनाम्॥

श्लोक 10

जङ्गमस्य त्वाश्रयाः षोदश।
दृष्टिनिश्वासस्पर्शदंष्ट्रामुखनखास्थिमूत्रपुरीषशुक्रार्तवलालाशूकपित्तशोणितशवानि।
तानि पुनः सर्पकीटकणभाद्याश्रितानि।
तत्कृतान्यथास्वमामयान् साधनं चोत्तरत्र वक्ष्यति॥

श्लोक 11

सर्वं च प्रायशो जङ्गमं निद्रातन्द्राक्लमदाहरोमहर्षशोफपाकातिसारान् करोति॥

श्लोक 12

द्विविधमपिचैतद्विषं तीक्ष्णोष्णरूक्षविशदसूक्ष्मव्यवाय्याशुकारिविकाशिलघ्वव्यक्तरसत्वैर्दशभिर्गुणैर्युक्तमपाकि च॥

श्लोक 13

तत्र तैक्ष्ण्यौष्ण्यात् पित्तं रक्तं च प्रकोपयति।
रौक्ष्याद्वायुम्।
वैशद्यादसक्तवेगं प्रसरति।
सौक्ष्म्याद्व्यवायित्वाच्च दोषधातुमलादीन् समस्तान् शरीरावयवाननुप्रविशति।
आशुकारित्वादाशु व्यापादयति।
विकाशित्वान्मर्मच्छेदेन मतिं व्यामोहयति।
लाघवाद्दुर्निर्हरमव्यक्तरसत्वाच्छ्लेष्मप्रकोपणमन्नरसांश्च सर्वाननुवर्तते।
अत एव च प्रयत्नेनान्नानि विषतो रक्षेदित्युक्तम्।
अपाकित्वाज्जरां नो याति।
तेनाभ्यवहृतमवश्यं मारयति।
मन्त्रौषधबलेन चोपशमितमपि प्रत्ययमासाद्य पुनः प्रकृप्यतीति।
भवति चात्र॥

श्लोक 14

स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्॥

श्लोक 15

कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः।
हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्।
शोफपाण्डूदरोन्माददुर्नामादीन्करोति वा॥

श्लोक 16

अपि चैतद्विषं सर्वं तीक्ष्णाद्यैरन्वितं गुणैः।
वातपित्तोत्तरं नॄणां सद्यो हरति जीवितम्॥

श्लोक 17

विषं हि देहं सम्प्राप्य प्राग्दूषयति शोणितम्।
कफपित्तानिलांश्चानु समदोषं सहाशयान्।
ततो हृदयमास्थाय देहोच्छेदाय कल्पते॥

श्लोक 18

शरीरं दूषिते रक्ते सर्वं चिमिचिमायते।
कोठः समण्डलः स्वेदो रोमहर्षश्च जायते॥

श्लोक 19

क्षुद्रकीटा इवाङ्गेषु विसर्पन्तीति मन्यते।
विनामयति गात्राणि जृम्भते शिशिरप्रियः॥

श्लोक 20

व्यापिनस्तस्य दुष्टस्य द्रुतस्य विषतेजसा।
वातादयो वशं यान्ति बलिनोप्यबला इव॥

श्लोक 21

विषं यद्दोषभूयिष्ठं तं दोषं प्राक् प्रपद्यते।
आशये यस्य यस्यैव ततस्तदवतिष्ठते।
तज्जान् विकारान् कुरुते यान् सर्वेषूपदेक्ष्यति॥

श्लोक 22

वाताशयस्थं कुरुते तथा श्लेष्मामयानपि।
पित्तश्लेष्माशयगतं तद्वत् पित्तकफोद्भवान्॥

श्लोक 23

तत्रापि चोत्तमाङ्गस्थे सकोठं शूयते शिरः।
विशेषादक्षिकूटौष्ठनासास्यं हृष्टदन्तता।
ताल्शोषो रुजा मूर्ध्नि वक्त्रे चिमिचिमायनम्॥

श्लोक 24

अर्थेषु चक्षुरादीनामप्रवृत्तिर्हनुग्रहः।
इत्यन्यापि च विषं स्थितमङ्गेऽभिलक्षयेत्॥

श्लोक 25

व्याप्यैवं सकलं देहमुपरुध्य च वाहिनीः।
विषं विषमिव क्षिप्रं प्राणानस्य निरस्यति॥

श्लोक 26

पीतं मृतस्य हृदये जग्धदिग्धाभिविद्धयोः।
दंशे तिष्ठति भूयिष्ठं सर्वतः पिण्डितं विषम्।
नाद्यादतो विशेषेण तेषां मांसं तदाश्रयम्॥

श्लोक 27

यथास्वं भक्षिते पीडा यथास्वं च क्रियाक्रमः॥

श्लोक 28

सप्त वेगान् विषस्याहुरष्टावितिपुनर्वसुः॥

श्लोक 29

दुष्यति प्रथमे वेगे रसश्छर्द्दिप्रसेककृत्।
द्वितीयेस्रं चिमिचिमाजृम्भावेपथुकारि तत्॥

श्लोक 30

तृतीये पिशितं कण्डूकोठमण्डलशोफदम्।
दोषाश्चाश्चतुर्थे तेषु स्युर्यथायथमुपद्रवाः॥

श्लोक 31

पञ्चमे दर्शनभ्रान्तिः षष्ठे हिध्मासमुद्भवः।
सप्तमे स्कन्धभङ्गोस्य जायते मृत्युरष्टमे॥

श्लोक 32

दुष्यति प्रथमे रक्तं द्वितीये श्वयथूद्भवः।
तृतीयेङ्गे चिमिचिमा चतुर्थे ज्वरमूर्च्छना॥

श्लोक 33

पञ्चमे पाण्डुजिह्वास्य शोषः षष्ठे हृदि व्यथा।
सप्तमे मरणं वेग इति गग्नजितो मतम्॥

श्लोक 34

मूर्च्छा हृदि परं पीडा शिरोरुगपतन्त्रकः।
हिध्मा च दारुणो मर्मच्छेदो जीवितसंशयः।
सप्तेति वेगा मूर्च्छाद्या विदेहपतिना स्मृताः॥

श्लोक 35

रक्तमांसवसास्नायु तथास्थ्याद्यास्त्रयः क्रमात्।
आश्रयाः सप्त सप्तानामित्यालम्बायनोऽब्रवीत्॥

श्लोक 36

वेगान् धन्वन्तरिस्तद्वत् सर्पदष्टस्य मन्यते।
स्नाववर्जं तु तत्स्थाने दोषानिच्छति कोष्ठगान्॥

श्लोक 37

धात्वन्तरेषु याः सप्त कलाः पूर्वं प्रकीर्त्तिताः।
अतीत्य तासामेकैकां वेगं प्रकुरुते विषम्॥

श्लोक 38

तत्कालकल्पं कालेन कलामभ्येति यावता।
ऊह्यमानं समीरेण तावद्वेगान्तरं स्मृतम्॥

श्लोक 39

मुनिना येन यत्तूक्तं तत्सर्वमिह दर्शितम्॥

श्लोक 40

जीर्णं विषघ्नौषधिभिर्हतं वा दवाग्निवातातपशोषितं वा।
स्वभावतो वा न गुणैः सुयुक्तं दूषीविषाख्यां विषमभ्युपैति॥

श्लोक 41

वीर्याल्पभावादविभाव्यमेतत्।
कफावृतं वर्षगणानुबन्धि॥

श्लोक 42

तेनादिर्तो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः।
मूर्च्छन् वमन् गद्गदवाग्विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः॥

श्लोक 43

आमाशयस्थे कफवातरोगी पित्ताशस्थेऽनिलपित्तरोगी।
भवेन्नरो ध्वस्थीशरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः।
स्थितं रसादिष्वथवा विचित्रान्।
करोति धातुप्रभवान्विकारान्॥

श्लोक 44

प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः।
दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्॥

श्लोक 45

स्थावरस्योपयुक्तस्य पूर्वे वेगेऽथ जायते।
जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः॥

श्लोक 46

द्वितीये वेपथुः स्वेदो कण्ठे च वेदनाः।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्॥

श्लोक 47

तालुशोषस्तृतीये तु शूलं चामाशये भृशम्।
दुर्बले हरिते शूने जायेते चास्य लोचने॥

श्लोक 48

पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम्॥

श्लोक 49

कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे।
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना॥

श्लोक 50

षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते।
स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे॥

श्लोक 51

प्रथमे विषवेगेथ वान्तं शीताम्बुसेचितम्।
सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद्द्रुतम्॥

श्लोक 52

द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्।
तृतीयेऽगदपानं च हितं नस्यं तथाञ्जनम्॥

श्लोक 53

चतुर्थे स्नेहसंयुक्तमगदं प्रतिभोजयेत्।
पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्॥

श्लोक 54

षष्ठेऽतिसारवत् सिद्धिरवपीडस्तु सप्तमे।
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्॥

श्लोक 55

कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः।
शेलुः शिरीषः किणिही हरिद्रे क्षुद्रसाह्वया।
पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बले॥

श्लोक 56

एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकाम्।
युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः॥

श्लोक 57

तद्वन्मधूकमधुकपद्मकेसरचन्दनैः॥

श्लोक 58

अगदान् वक्ष्यते चातः सिद्धान् पूर्वर्षिनिर्मितान्।
सर्वेषु सर्वावस्थेषु ये विषेषु परं हिताः॥

श्लोक 59

चन्दनं कुङ्कुमं कुष्ठं काङ्क्षी लाक्षा प्रियङ्गवः।
मुस्तस्थौणेयशैलेयरोचनामदनप्लवम्॥

श्लोक 60

श्रोवेष्टकीवडैङ्गलाविशालालमनश्शिलाः।
सुरसप्रसवस्पृक्कारजनीद्वयवालकम्॥

श्लोक 61

हिङ्गुसिद्धार्थकाः पद्मचारिणी पद्मकेसरम्।
जात्याःपुष्पं प्रवालश्च पुष्पमर्कशिरीषयोः॥

श्लोक 62

द्विरोध्रबृहती कौन्ती मधुकं गन्धनाकुली।
मुद्गपर्णीकणाश्यामा ध्यामकं नलदं नतम्॥

श्लोक 63

सिन्दुवारकशम्याकदेवदारुमयूरकम्।
पुष्ये समाहृतैः पिष्टैर्योज्यस्तैरगदोत्तमः॥

श्लोक 64

सञ्जीवनःप्रागमृताद्विहितोऽयं स्वयम्भुवा।
पाननस्याञ्जनाघ्राणधूमालेपनधारणैः॥

श्लोक 65

जीवनो विषसुप्तानां राजद्वारे जयावहः।
धन्यो धान्यधनायुःश्रीक्षेमपुष्टिसुखप्रदः॥

श्लोक 66

गृहे स्थितो विषालक्ष्मीमन्त्रज्वरगरग्रहान्।
कृत्याकार्मणकाखोर्दव्यालजन्तुसरीसृपान्॥

श्लोक 67

स्वप्नोपघातदुःस्वप्नतोयाग्निरिपुतस्करान्।
निहन्त्यकालमरणमरकाशनिविग्रहान्॥

श्लोक 68

चन्दनं वालकं मुस्तं ध्यामकं कटुका नतम्।
दाडिमं कुङ्कुमं शुण्ठी कपित्थं वत्सकात्फलम्॥

श्लोक 69

करञ्जबीजं मरिचमुत्पलं कमलं दलम्।
नलमूलमपामार्गं करवीरकमञ्जनम्॥

श्लोक 70

लाक्षामालत्यहिच्छत्रनागपुष्पाम्लवेतसम्।
विशालारोचनाश्यामा शङ्खपुष्पीप्रियङ्गुका॥

श्लोक 71

अजाजी सारिवाकुष्ठमजमोजः कुरण्डकः।
वयस्था सिन्दुवारैला कायस्था चारटी वचा॥

श्लोक 72

कर्कटी पूतना केशी श्वेता च गिरिकर्णिका।
गोलोमी सिंहलोमी च वर्षाभूर्गजपिप्पली।
अगदो यापनाख्योयं पूर्वेण सदृशो गुणैः॥

श्लोक 73

श्रीवेष्टकं हरिद्रे द्वे कोविदारं मनःशिलाम्।
पिप्पलीं पाटलीं पद्मां श्वेतां च गिरिकर्णिकाम्।
मञ्जिष्ठां बृहतीं वक्रं यष्टी मरिचकेसरम्॥

श्लोक 74

फलीनीं किणिहीं चेति गवां पित्तेन भावयेत्।
सूर्योदयो हन्ति विषं तमः सूर्योदयो यथा॥

श्लोक 75

निम्बपत्रं गृहाद्धूमं फाणितं बृहतीफलम्।
गोपित्तयुक्तमगदः परमं मृतजीवनः॥

श्लोक 76

गोपित्तकुष्ठसुरसं मधुकद्विनिशं तथा।
विशालारजनीकुष्ठश्वपित्तव्योषतुम्बुरु॥

श्लोक 77

वचाशिरीषपञ्चाङ्गी मृतसञ्जीवनो गदः।
पञ्चाङ्गानि शिरीषस्य श्वपित्तं च वरोऽगदः॥

श्लोक 78

प्रियङ्गु तगरं लाक्षा मञ्जिष्ठा मधुकं मधु।
हरिद्राचेत्ययं श्रेष्ठः कौटिल्यदयितोऽगदः॥

श्लोक 79

विसंज्ञानां विषैर्घोरैः प्रहाअरैर्नष्टचेतसाम्।
उद्बन्धानां जलौघे च मृतानां चेतनावहः॥

श्लोक 80

शिरीषफलकाकाण्डसुरसाग्रपुनर्नवैः।
कक्ष्यावायसिसंयुक्तैरगदः पूर्ववत् गुणैः॥

श्लोक 81

कटुकालाबुमूलानि गवां पित्तेन कल्कयेत्।
ब्राह्मो धार्योयमगदः सर्वकर्मसु पूजितः॥

श्लोक 82

अगारधूमस्रिवृता गोपित्तं त्र्यूषणं वचा।
प्राजापत्योयमगदः सर्वरक्षोविषापहः॥

श्लोक 83

श्वेतापुष्करतुल्यांशैर्जीवन्त्याः कुसुमैः कृतः।
रुक्मपिष्टो मणिर्द्धार्यश्चाणक्येष्टो विषापहः॥

श्लोक 84

मांसीत्वक्पत्रसुरसमनोह्वाशीतकुङ्कुमम्।
निशाव्याघ्रन्नखं शुण्ठी दशाङ्गोऽयं विषापहः।
उत्पातगण्डपिटकादिग्धविद्धविषापहः॥

श्लोक 85

उदुम्बरत्वग्जम्ब्वस्थिमधुकोत्पलगैरिकैः।
चन्दनोशीरनलद नागकेसरपद्मकैः।
विशेषाद्विषविस्फोटविसर्पज्वरदाहहा॥

श्लोक 86

शिरीषोदुम्बरप्लक्षन्यग्रोधाश्वत्थवल्कलैः।
सघृतो दाहतृष्णास्रविषवीसर्पपित्तहा॥

श्लोक 87

गजपिप्पलिकासीसक्षारयष्टीमयूरकम्।
रक्ता नतं वचा दन्ती शिवः शिवकृतोऽगदः॥

श्लोक 88

सुराला पावकी सोमा भोगवत्यमृता नतम्।
आढकी किणिही सोमराजी चौशनसोऽगदः॥

श्लोक 89

श्लेष्मातकार्ककुसुमं तण्डुलीयो मयूरकः।
सुरसा मञ्जरी काकमाची पानेऽगदो वरः॥

श्लोक 90

दध्याज्यक्षौद्रलवणं पीतं मूलविषापहम्।
हरिद्रासैन्धवक्षौद्रघृतं संसृज्य पाययेत्।
आर्तान् मूलविषैर्घोरैर्दिग्धविद्धान् विशेषतः॥