श्लोक 1
अथातो बस्तिकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि।
अष्टौ फलान्यर्धतुलां च मांसात् छागात् पचेदप्सु चतुर्थशेषम्॥
श्लोक 3
पूतो यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्।
कल्कैर्गुडक्षौद्रघृतः सतैलैर्युक्तः सुखोष्णो लवणान्वितश्च॥
श्लोक 4
बस्तिः परं सर्वगदप्रमाथीस्वस्थे हितो जीवनबृंहणश्च।
बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र॥
श्लोक 5
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः।
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः॥
श्लोक 6
बलापटोलीलघुपञ्चमूलत्रायान्तकैरण्डयवात् सुसिद्धात्।
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत्॥
श्लोक 7
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च।
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः॥
श्लोक 8
एरण्डमूलात्त्रिपलं पलाशत्तथा पलांशं लघुपञ्चमूलम्।
रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु॥
श्लोक 9
फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्।
वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम्॥
श्लोक 10
दद्यात् सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम्।
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ॥
श्लोक 11
जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम्।
गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तांस्तांश्च रोगान् कफवातजातान्॥
श्लोक 12
चतुष्पले तैलघृतस्य भृष्टः छागाच्छतार्धो दधिदाडिमाम्लः।
रसः सपेष्यो बलवणमांसरेतोग्नितैमिर्यशिरोरुजीष्टः॥
श्लोक 13
यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः।
युक्तं ससर्पिर्मधुवातरक्तविसर्पवैस्वर्यहितो निरूहः॥
श्लोक 14
यष्ठ्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च।
सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्॥
श्लोक 15
गोपाङ्गनाचन्दनशीतपाकीद्राक्षर्धिकाश्मर्यमधूकसेव्यैः।
पयः शृतं श्रावणिमुद्गपर्णीबलास्वगुप्तामधुयष्टिकल्कैः॥
श्लोक 16
गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोविदार्याश्च रसेन युक्तम्।
तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः॥
श्लोक 17
बस्तिः प्रशस्तः ससमस्तदेहदाहे सशूलेऽवयवाश्रिते वा।
गुल्मातिसारभ्रममूत्रकृच्छ्रक्षीणे क्षतौजोबलसङ्क्षये च॥
श्लोक 18
कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः।
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः॥
श्लोक 19
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्।
क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य॥
श्लोक 20
दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च॥
श्लोक 21
पुनर्नवैरण्डवृषाश्मभेदवृश्चीवभूतीकबलापलाशान्।
द्विपञ्चमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाष्टौ॥
श्लोक 22
बिल्वं यवाङ्कोलकुलत्थधान्यफानि च स्युः प्रसृतोन्मितानि।
पयो जलद्व्याढकसाधितं तत् क्षीरावशिष्टं शुचिवस्त्रपूतम्॥
श्लोक 23
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्।
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्॥
श्लोक 24
क्षौद्रस्य तैलस्य च सर्पिषश्च नवस्य युक्तं प्रसृतित्रयेण।
दद्यान्निरूहं विधिना विधिज्ञः ससर्वसंसर्गकृतामयघ्नः॥
श्लोक 25
अर्धार्धविहितान् बस्तीनतश्चित्रान् प्रवक्ष्यते।
कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः॥
श्लोक 26
श्यामात्रिवृतयोर्मूलं तथा दन्तीद्रवन्तिजम्।
प्रकीर्या चोदकीर्या च क्षीरिणी नीलिनीफलम्॥
श्लोक 27
सप्तपाशङ्खिनीलोध्रं फलं कम्पिल्लकस्य च।
स्वकल्कसैन्धवयुताः पक्वाशयविशोधनाः॥
श्लोक 28
घातकीपुष्पतर्कारीजीवन्तीमूलवत्सकाः।
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः॥
श्लोक 29
प्रियङ्गुरर्कमूली च तरुणीजातियूथिकाः।
वटाद्याः किंशुकं लोध्रमिति सङ्ग्राहिका मताः॥
श्लोक 30
ग्राही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण च।
ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः।
मधुरक्वाथकल्केन सरसाज्येन बृंहणः॥
श्लोक 31
बदर्यैरावणीशेलुशाल्मलीधन्वनाङ्कुराः।
समाक्षिकाः क्षीरयुताः सासृजः पिच्छिलाः स्मृताः॥
श्लोक 32
कोलङ्कतककाण्डेक्षुदर्भपोटेक्षुपालिभिः।
दाहघ्नः सघृतक्षीरो द्वितीयश्चन्दनादिभिः॥
श्लोक 33
मुष्टिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः।
हितः प्रवाहणे तद्वद्वृन्तैः शाल्मलकस्य च॥
श्लोक 34
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः।
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः॥
श्लोक 35
परिस्रवे पयः सिद्धं सवृश्चीवपुनर्नवम्।
आखुकर्णिकया तद्वत्तण्डुलीयकयुक्तया॥
श्लोक 36
अश्वावरोहकः काकनासाराजकशेरुकाः।
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः।
न्यग्रोधाद्यैश्चतुर्भिश्च विधिनापरः॥
श्लोक 37
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी।
काश्मर्यबदरीमूर्वास्तथोशीरप्रियङ्गवः॥
श्लोक 38
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ।
बस्ती प्रदेयौ भिषजा शीतौ समधुशकरौ।
गोव्यजामहिषीक्षीरैर्जीवनीययुतैरपि॥
श्लोक 39
शशैणदक्षमार्जारमहिषाव्यजशोणितैः।
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते॥
श्लोक 40
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्।
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्॥
श्लोक 41
क्षीरात् द्वौ प्रसृतौ कार्यै मधुतैलघृतात्त्रयः।
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥
श्लोक 42
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्।
बिल्वादिमूलक्वाथात् द्वौ कौलत्थाद्द्वौ स वातजित्॥
श्लोक 43
पटोलनिम्बपूतीकरास्नासप्तच्छदाम्भसः।
प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्।
सपञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा॥
श्लोक 44
विडङ्गत्रिफलाशिग्रुफलमुस्ताखुकर्णिजात्।
कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्।
निरूहः कृमिहा वेल्लपिप्पलीकल्कयोजीतः॥
श्लोक 45
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्।
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्॥
श्लोक 46
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्।
प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः॥
श्लोक 47
श्वदंष्ट्राश्मभिदेरण्डक्वाथतैलसुरासवात्।
प्रसृताः पञ्च चपलाकौन्तीयष्ट्याह्वकल्कवान्।
बस्तिः कवोष्णः साहाने मूत्रकृच्छ्रे वरो मतः॥
श्लोक 48
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते।
तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः॥
श्लोक 49
तीक्ष्णत्वं मूत्रबिल्वाग्निलवणक्षारसर्षपैः।
प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम्॥
श्लोक 50
बलकालदोषरोगप्रकृतीः प्रविभज्य योजितो बस्तिः।
स्वः स्वैरौषधवर्गैः स्वान् स्वान् रोगान् निवतयति॥
श्लोक 51
उष्णार्तानां शीतान् शीतार्ताना तथा सुखोष्णांश्च।
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य युञ्जीत॥
श्लोक 52
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु।
मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः॥
श्लोक 53
न क्षीणक्षतदुर्बलमूर्छितकृशशुष्कशुद्धदेहानाम्।
दद्याद्विशोधनीयान् दोषनिबद्धायुषो य च॥