श्लोक 1
श्वास-हिध्मा यतस् तुल्य-हेत्व्-आद्याः साधनं ततः ।
तुल्यम् एव तद्-आर्तं च पूर्वं स्वेदैर् उपाचरेत् ॥ १ ॥
श्लोक 2
स्निग्धैर् लवण-तैलाक्तं तैः खेषु ग्रथितः कफः ।
सु-लीनो ऽपि विलीनो ऽस्य कोष्ठं प्राप्तः सु-निर्हरः ॥ २ ॥
श्लोक 3
स्रोतसां स्यान् मृदु-त्वं च मरुतश् चानुलोम-ता ।
स्विन्नं च भोजयेद् अन्नं स्निग्धम् आनूप-जै रसैः ॥ ३ ॥
श्लोक 4
मारुतस्यानुलोम-ता दध्य्-उत्तरेण वा दद्यात् ततो ऽस्मै वमनं मृदु ।
विशेषात् कास-वमथु-हृद्-ग्रह-स्वर-सादिने ॥ ४ ॥
श्लोक 5
पिप्पली-सैन्धव-क्षौद्र-युक्तं वाता-विरोधि यत् ।
निर्हृते सुखम् आप्नोति स कफे दुष्ट-विग्रहे ॥ ५ ॥
श्लोक 6
स्रोतःसु च विशुद्धेषु चरत्य् अ-विहतो ऽनिलः ।
ध्मानोदावर्त-तमके मातुलुङ्गाम्ल-वेतसैः ॥ ६ ॥
श्लोक 7
हिङ्गु-पीलु-विडैर् युक्तम् अन्नं स्याद् अनुलोमनम् ।
स-सैन्धवं फलाम्लं वा कोष्णं दद्याद् विरेचनम् ॥ ७ ॥
श्लोक 8
एते हि कफ-संरुद्ध-गति-प्राण-प्रकोप-जाः ।
तस्मात् तन्-मार्ग-शुद्ध्य्-अर्थम् ऊर्ध्वाधः शोधनं हितम् ॥ ८ ॥
श्लोक 9
उदीर्यते भृश-तरं मार्ग-रोधाद् वहज् जलम् ।
यथा तथानिलस् तस्य मार्गम् अस्माद् विशोधयेत् ॥ ९ ॥
श्लोक 10
अ-शान्तौ कृत-संशुद्धेर् धूमैर् लीनं मलं हरेत् ।
हरिद्रा-पत्त्रम् एरण्ड-मूलं लाक्षां मनःशिलाम् ॥ १० ॥
श्लोक 11
मूलं द्राक्षां मनःशिलाम् स-देवदार्व् अलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत् ।
तां घृताक्तां पिबेद् धूमं यवान् वा घृत-संयुतान् ॥ ११ ॥
श्लोक 12
मधूच्छिष्टं सर्ज-रसं घृतं वा गुरु वागुरु ।
चन्दनं वा तथा शृङ्गं वालान् वा स्नाव वा गवाम् ॥ १२ ॥
श्लोक 13
वालान् वा स्नायु वा गवाम् ऋक्ष-गोधा-कुरङ्गैण-चर्म-शृङ्ग-खुराणि वा ।
गुग्गुलुं वा मनोह्वां वा शाल-निर्यासम् एव वा ॥ १३ ॥
श्लोक 14
ऋश्य-गोधा-कुरङ्गैण- चर्म-शृङ्ग-खुराणि च शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम् ।
अवश्यं स्वेदनीयानाम् अ-स्वेद्यानाम् अपि क्षणम् ॥ १४ ॥
श्लोक 15
पद्मकं वा घृत-प्लुतम् स्वेदयेत् स-सिता-क्षीर-सुखोष्ण-स्नेह-सेचनैः ।
उत्कारिकोपनाहैश् च स्वेदाध्यायोक्त-भेषजैः ॥ १५ ॥
श्लोक 16
उरः कण्ठं च मृदुभिः सामे त्व् आम-विधिं चरेत् ।
अति-योगोद्धतं वातं दृष्ट्वा पवन-नाशनैः ॥ १६ ॥
श्लोक 17
स्निग्धै रसाद्यैर् नात्य्-उष्णैर् अभ्यङ्गैश् च शमं नयेत् ।
अन्-उत्क्लिष्ट-कफा-स्विन्न-दुर्-बलानां हि शोधनात् ॥ १७ ॥
श्लोक 18
वायुर् लब्धास्पदो मर्म संशोष्याशु हरेद् असून् ।
कषाय-लेह-स्नेहाद्यैस् तेषां संशमयेद् अतः ॥ १८ ॥
श्लोक 19
क्षीण-क्षतातिसारासृक्-पित्त-दाहानुबन्ध-जान् ।
मधुर-स्निग्ध-शीताद्यैर् हिध्मा-श्वासान् उपाचरेत् ॥ १९ ॥
श्लोक 20
कुलत्थ-दश-मूलानां क्वाथे स्युर् जाङ्गला रसाः ।
यूषाश् च शिग्रु-वार्ताक-कासघ्न-वृष-मूलकैः ॥ २० ॥
श्लोक 21
पल्लवैर् निम्ब-कुलक-बृहती-मातुलुङ्ग-जैः ।
व्याघ्री-दुरालभा-शृङ्गी-बिल्व-मध्य-त्रिकण्टकैः ॥ २१ ॥
श्लोक 22
सामृताग्नि-कुलत्थैश् च यूषः स्यात् क्वथितैर् जले ।
तद्-वद् रास्ना-बृहत्य्-आदि-बला-मुद्गैः स-चित्रकैः ॥ २२ ॥
श्लोक 23
यूषः स्यात् क्वथितैर् जलैः पेया च चित्रकाजाजी-शृङ्गी-सौवर्चलैः कृता ।
दश-मूलेन वा कास-श्वास-हिध्मा-रुजापहा ॥ २३ ॥
श्लोक 24
दश-मूल-शठी-रास्ना-भार्गी-बिल्वर्द्धि-पौष्करैः ।
कुलीरशृङ्गी-चपला-तामलक्य्-अमृतौषधैः ॥ २४ ॥
श्लोक 25
पिबेत् कषायं जीर्णे ऽस्मिन् पेयां तैर् एव साधिताम् ।
शालि-षष्टिक-गोधूम-यव-मुद्ग-कुलत्थ-भुक् ॥ २५ ॥
श्लोक 26
कास-हृद्-ग्रह-पार्श्वार्ति-हिध्मा-श्वास-प्रशान्तये ।
सक्तून् वार्काङ्कुर-क्षीर-भावितानां स-माक्षिकान् ॥ २६ ॥
श्लोक 27
यवानां दश-मूलादि-निःक्वाथ-लुलितान् पिबेत् ।
अन्ने च योजयेत् क्षार-हिङ्ग्व्-आज्य-विड-दाडिमान् ॥ २७ ॥
श्लोक 28
स-पौष्कर-शठी-व्योष-मातुलुङ्गाम्ल-वेतसान् ।
दश-मूलस्य वा क्वाथम् अथ-वा देवदारुणः ॥ २८ ॥
श्लोक 29
दश-मूलस्य निःक्वाथम् पिबेद् वा वारुणी-मण्डं हिध्मा-श्वासी पिपासितः ।
पिप्पली-पिप्पली-मूल-पथ्या-जन्तुघ्न-चित्रकैः ॥ २९ ॥
श्लोक 30
कल्कितैर् लेपिते रूढे निःक्षिपेद् घृत-भाजने ।
तक्रं मास-स्थितं तद् धि दीपनं श्वास-कास-जित् ॥ ३० ॥
श्लोक 31
पाठां मधुरसां दारु सरलं च निशि स्थितम् ।
सुरा-मण्डे ऽल्प-लवणं पिबेत् प्रसृत-संमितम् ॥ ३१ ॥
श्लोक 32
सरलं निशि संस्थितम् पिबेत् प्रसृति-संमितम् भार्गी-शुण्ठ्यौ सुखाम्भोभिः क्षारं वा मरिचान्वितम् ।
स्व-क्वाथ-पिष्टां लुलितां बाष्पिकां पाययेत वा ॥ ३२ ॥
श्लोक 33
स्व-रसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः ।
हिध्मा-श्वासे मधु-कणा-युक्तः पित्त-कफानुगे ॥ ३३ ॥
श्लोक 34
उत्कारिका तुगा-कृष्णा-मधूली-घृत-नागरैः ।
पित्तानुबन्धे योक्तव्या पवने त्व् अनुबन्धिनि ॥ ३४ ॥
श्लोक 35
श्वाविच्-छशामिष-कणा-घृत-शल्यक-शोणितैः ।
सुवर्चला-रस-व्योष-सर्पिर्भिः सहितं पयः ॥ ३५ ॥
श्लोक 36
अनु शाल्य्-ओदनं पेयम् वात-पित्तानुबन्धिनि ।
चतुर्-गुणाम्बु-सिद्धं वा छागं स-गुड-नागरम् ॥ ३६ ॥
श्लोक 37
पिप्पली-मूल-मधुक-गुड-गो-ऽश्व-शकृद्-रसान् ।
हिध्माभिष्यन्द-कास-घ्नाō̃ लिह्यान् मधु-घृतान्वितान् ॥ ३७ ॥
श्लोक 38
गो-गजाश्व-वराहोष्ट्र-खर-मेषाज-विड्-रसम् ।
स-मध्व् एकैक-शो लिह्याद् बहु-श्लेष्माथ-वा पिबेत् ॥ ३८ ॥
श्लोक 39
चतुष्-पाच्-चर्म-रोमास्थि-खुर-शृङ्गोद्भवां मषीम् ।
तथैव वाजिगन्धाया लिह्याच् छ्वासी कफोल्बणः ॥ ३९ ॥
श्लोक 40
शठी-पौष्कर-धात्रीर् वा पौष्करं वा कणान्वितम् ।
गैरिकाञ्जन-कृष्णा वा स्व-रसं वा कपित्थ-जम् ॥ ४० ॥
श्लोक 41
रसेन वा कपित्थस्य धात्री-सैन्धव-पिप्पलीः ।
घृत-क्षौद्रेण वा पथ्या-विडङ्गोषण-पिप्पलीः ॥ ४१ ॥
श्लोक 42
कोल-लाजामल-द्राक्षा-पिप्पली-नागराणि वा ।
गुड-तैल-निशा-द्राक्षा-कणा-रास्नोषणानि वा ॥ ४२ ॥
श्लोक 43
पिबेद् रसाम्बु-मद्याम्लैर् लेहौषध-रजांसि वा ।
जीवन्ती-मुस्त-सुरस-त्वग्-एला-द्वय-पौष्करम् ॥ ४३ ॥
श्लोक 44
चण्डा-तामलकी-लोह-भार्गी-नागर-वालकम् ।
कर्कटाख्या-शठी-कृष्णा-नागकेसर-चोरकम् ॥ ४४ ॥
श्लोक 45
उपयुक्तं यथा-कामं चूर्णं द्वि-गुण-शर्करम् ।
पार्श्व-रुग्-ज्वर-कास-घ्नं हिध्मा-श्वास-हरं परम् ॥ ४५ ॥
श्लोक 46
शठी-तामलकी-भार्गी-चण्डा-वालक-पौष्करम् ।
शर्कराष्ट-गुणं चूर्णं हिध्मा-श्वास-हरं परम् ॥ ४६ ॥
श्लोक 47
तुल्यं गुडं नागरं च भक्षयेन् नावयेत वा ।
लशुनस्य पलाण्डोर् वा मूलं गृञ्जनकस्य वा ॥ ४७ ॥
श्लोक 48
चन्दनाद् वा रसं दद्यान् नारी-क्षीरेण नावनम् ।
स्तन्येन मक्षिका-विष्ठाम् अलक्तक-रसेन वा ॥ ४८ ॥
श्लोक 49
स-सैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम् ।
कल्कितैर् मधुर-द्रव्यैस् तत् पिबेन् नावयेत वा ॥ ४९ ॥
श्लोक 50
सकृद् उष्णं सकृच् छीतं व्यत्यासात् स-सिता-मधु ।
तद्-वत् पयस् तथा सिद्धम् अधो-भागौषधैर् घृतम् ॥ ५० ॥
श्लोक 51
कणा-सौवर्चल-क्षार-वयःस्था-हिङ्गु-चोरकैः ।
स-कायस्थैर् घृतं मस्तु-दश-मूल-रसे पचेत् ॥ ५१ ॥
श्लोक 52
तत् पिबेज् जीवनीयैर् वा लिह्यात् स-मधु साधितम् ।
तेजोवत्य् अभया कुष्ठं पिप्पली कटु-रोहिणी ॥ ५२ ॥
श्लोक 53
भूतिकं पौष्करं मूलं पलाशश् चित्रकः शठी ।
पटु-द्वयं तामलकी जीवन्ती बिल्व-पेशिका ॥ ५३ ॥
श्लोक 54
वचा पत्त्रं च तालीशं कर्षांशैस् तैर् विपाचयेत् ।
हिङ्गु-पादैर् घृत-प्रस्थं पीतम् आशु निहन्ति तत् ॥ ५४ ॥
श्लोक 55
वचा पत्त्रं च तालीशात् शाखानिलार्शो-ग्रहणी-हिध्मा-हृत्-पार्श्व-वेदनाः ।
अर्धांशेन पिबेत् सर्पिः क्षारेण पटुनाथ-वा ॥ ५५ ॥
श्लोक 56
धान्वन्तरं वृष-घृतं दाधिकं हपुषादि वा ।
शीताम्बु-सेकः सहसा त्रास-विक्षेप-भी-शुचः ॥ ५६ ॥
श्लोक 57
हर्षेर्ष्योच्छ्वास-रोधाश् च हितं कीटैश् च दंशनम् ।
यत् किञ्-चित् कफ-वात-घ्नम् उष्णं वातानुलोमनम् ॥ ५७ ॥
श्लोक 58
हर्षेर्ष्योच्छ्वास-संरोधा तत् सेव्यं प्राय-शो यच् च सु-तरां मारुतापहम् ।
सर्वेषां बृंहणे ह्य् अल्पः शक्यश् च प्राय-शो भवेत् ॥ ५८ ॥
श्लोक 59
नात्य्-अर्थं शमने ऽपायो भृशो ऽ-शक्यश् च कर्षणे ।
शमनैर् बृंहणैश् चातो भूयिष्ठं तान् उपाचरेत् ॥ ५९ ॥
श्लोक
भृशो ऽ-शक्यश् च कर्शने कास-श्वास-क्षय-च्छर्दि-हिध्माश् चान्यो-ऽन्य-भेषजैः ॥ ५९ऊअब् ॥