अष्टाङ्गसंग्रहः उत्तरस्थानम्  39

श्लोक 1

अथातो गुह्यरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

उपदंशेषूत्पन्नमात्रेषु पाकपरिहारार्थं मेढ्रमध्ये सिरां विध्येत्।
उभयतश्चास्य विधिवद्दोषानपहरेद्विशेषतो विरेचनेन।
तदयोग्यस्य त्वत्युच्छ्रितानास्थापनेन॥

श्लोक 3

यथादोषं चालेपसेकादीनविरतं विदध्यात्।
एवं सद्य एव रुक्तोदशोफरागसंरम्भा निवर्तन्ते॥

श्लोक 4

पक्वेषु तु तु शस्त्रमवचारयेत्।
सघृतक्षौद्रशर्करेण तिलकल्केनालेपयेत्।
अपि च॥

श्लोक 5

जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान्।
सल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः॥

श्लोक 6

त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले।
स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम्।
गोजीविडङ्गमधुकसर्वगन्धैश्च पेषितैः॥

श्लोक 7

तुत्थगौरिकलोध्रैलामनोह्वालरसाञ्जनैः।
हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः।
लेपः क्षौद्रद्रुतैः सूक्ष्मैरुपदंशव्रणापहः॥

श्लोक 8

दार्वीत्वक्शङ्खतार्क्ष्योत्थलाक्षागोक्षीरविड्रसैः।
सक्षौद्रतैलसर्पिर्भिर्लेपः श्रेष्ठो व्रणेऽथवा।
लाक्षाद्राक्षातसीक्षौद्रैः क्षौद्रशैलेयतार्क्ष्यजैः॥

श्लोक 9

कपाले त्रिफलादग्धा सघृता रोपणी परम्॥

श्लोक 10

सामान्यं साधनमिदं वातिकं तु प्रलेपयेत्।
अपक्वं कुष्ठयष्ट्याह्वसुरदारुपुनर्नवैः॥

श्लोक 11

स्निग्धोष्णैर्लोहसरलरास्नापुण्ड्राह्वसंयुतैः।
अथवा निचुलैरण्डबीजगोधूमचिक्कसैः॥

श्लोक 12

गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः।
सचन्दनोत्पलैः शीतैर्घृताढ्यैः पित्तसम्भवम्॥

श्लोक 13

पद्मोत्पलमृणालैर्वा ससर्जार्जुनवेतसैः।
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः॥

श्लोक 14

धवसालाश्वकर्णाजकर्णत्वग्भिः कफोत्थितम्।
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्॥

श्लोक 15

रजन्यतिविषामुस्तसरलामरदारुभिः।
सपत्रपाठापत्तूरैरथवा श्लेष्मसम्भवम्॥

श्लोक 16

न च याति यथा पाकं प्रयतेत तथा भृशम्।
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः॥

श्लोक 17

उपदंशद्वये शिष्टे प्रत्याख्यायाचरेत् क्रियाम्॥

श्लोक 18

अर्शांसि यथायोगं शुद्धदेहस्य शस्त्रक्षाराग्निभिः साधयेत्।
उपदंशोक्ता चात्र रसक्रिया लेपः॥

श्लोक 19

सर्षपिकां विलिख्य कषायैरवचूर्णयेत्।
तैरेव च तैलं व्रणरोपणं कुर्यात्॥

श्लोक 20

अवमन्थे जलौकसो योजयेत्।
पक्वभिन्नं धवतिन्दुकसल्लकीपतङ्गसर्जकृतेन तैलेन रोपयेत्॥

श्लोक 21

तद्वत् कुम्भीकामुपचरेत्।
लोध्रतिन्दुकत्रिफलाकृतस्तु लेपस्तैलं च रोपणम्॥

श्लोक 22

अलजीं स्रुतरक्तां कषायैरवचूर्णयेत्।
तेष्वेव च तैलं व्रणरोपणार्थं कुर्वीत॥

श्लोक 23

उत्तमां पिटकां शस्त्रेण च्छित्वा कषायचूर्णप्रदेहैर्मधुमाद्भिरुपाचरेत्॥

श्लोक 24

पुष्करिकासंव्यूढास्पर्शहानित्वक्पाकेषु पित्तविसर्पोक्तो विधिः॥

श्लोक 25

मृदितं कोष्णेन बलातैलेन परिषेचयेत्।
मधुरद्रव्यकल्कैश्च सुखोष्णैर्घृतस्निग्धैरुपनाहयेत्॥

श्लोक 26

अष्ठीलिकां जलौकोभिर्ग्राहयेत्।
तथानुपशमे श्लेष्मग्रन्थिमिव शस्त्रेणोद्धरेत्॥

श्लोक 27

निवृत्तं सर्पिषाभ्यज्य स्वेदयेत्।
स्विन्नमुपनाहयेत्त्रिरात्रं पञ्चरात्रं वा साल्वलेन।
ततो भूयः स्वेदयित्वा घृतेनाभ्यज्य शनैः शनैश्चर्म समानयन् मणिमवपीडयेत्।
पीडयित्वा च पुनरुपनाहयेत्।
स्निग्धोष्णं चान्नपानम्॥

श्लोक 28

अवपाटिकायामप्ययं विधिः॥

श्लोक 29

निरुद्धमणौ सुवर्णादिकृतां दारुजां वा जतुसृतां नाडीमुभयतोद्वारां स्नेहाभ्यक्तां स्रोतसि प्रणिधाय सूकरशिंशुमारयोर्वसयामज्ज्ञा वा परिषेचयेत्।
चक्रतैलेन वा।
वातहरसिद्धेन वा त्रिवृतेन।
तृतीये तृतीये चाहनि नाडीं पीनतरां विदध्यात्।
एवमस्य स्रोतोद्वारं विवर्धयेत् स्निग्धं चाहारं भोजयेत्।
एवमनुपशान्तौ शस्त्रेण सेवनीं परिहृत्य दारयित्वा सद्यःक्षतवदुपाचरेत्॥

श्लोक 30

ग्रथितं नाडीस्वेदेन स्वेदयित्वा स्निग्धोष्णैरुपनाहयेत्।
शतपोनकं लिखित्वा कषायचूर्णैः सक्षौद्रैर्लेपयेत्।
विदार्यादिसिद्धेन च तैलेन रोपयेत् शर्करार्बुदे रक्तविद्रधिवत् साधनम्॥

श्लोक 31

सर्वेषु च यथास्वमन्तःशुद्धिं कषायलेपघृततैलरसक्रियाचूर्णशोधनरोपणान् विदध्यात्॥

श्लोक 32

योनिव्यापदि तु वातिक्यां लवणतैलाक्तां योनिं पिण्डनाडीकुम्भीप्रभृप्रभृतिभिः स्वेदयेत्।
ततः सुखोष्णाम्बुपरिषिक्तसर्वगात्रां जाङ्गलरसैर्भोजयेत्॥

श्लोक 33

बलाद्रोणद्वयनिर्यूहे पयस्यासालपर्णीमागधिकाशतावरीकाकनासाश्रावणीशर्कराजीवनीय-गर्भं क्षीरचतुर्गुणं घृततैलाढकं साधयेत् तत्पानात् सर्वान् वातपित्तविकारानपोहति गर्भजननं च॥

श्लोक 34

शतावरीत्रिफलागुडूचीकाश्मर्यमृद्वीकाकासमर्दकपरूषकहरिद्राद्वयस-हचरशुकनासापुनर्नवैः कार्षिकैर्घृतप्रस्थः सिद्धः पीतो वातजान् योनिरोगानपोहति गर्भजननश्च॥

श्लोक 35

सैन्धववचोपकुञ्चिकापिप्पलीवृषकयवक्षाराजमोदाजाजीसितोपलाचि-त्रकचूर्णो मदिरालुलितः सर्पिषा संयावीकृत्य भक्षितो योनिपार्श्वबास्तिवेदनार्शोगुल्महृद्रोगहरः॥

श्लोक 36

शूले वृषकरास्नागोक्षुरकशृतं पयः पिबेत्।
वृषकमातुलुङ्गमूलमदयन्तिकासैन्धवपिप्पलीकृष्णजीरककल्कं वा मद्येन।
तेनैवचार्जकमूलं बिल्वयुक्तं वा पिप्पली युक्तं वा।
सौवर्चलोपकुञ्चिकापिप्पलीर्वा मद्येनावन्तिसोमेन वा॥

श्लोक 37

दन्तीत्रिफलगुडूचीक्वाथः सुखोष्णो योनेः परिषेकः॥

श्लोक 38

कुष्ठतगरदेवदारुवार्ताकिनीसैन्धवैः साधितं तैलं पिचुना धारयेत्॥

श्लोक 39

रास्नामालतीच्छिन्नरुहामधुकबलाव्याघ्रीदेवदारुचित्रकयूथिकामूलैः कर्षांशैस्तैलप्रस्थः समूत्रो द्विगुणपयसा विपक्वः पिचुना प्रणीतोऽनिलार्तिहरः॥

श्लोक 40

बस्तिकर्म चाभीष्णं स्वेदं च प्रयोजयेद्विशेषतो वातहरैः सुकुमारबलातैलशिरीषतैलैः शतपाकसहस्र पाकैश्चानुवासनमुत्तरबस्तिं च।
एष क्रमो विशेषेण योनेर्वेदनाकार्कश्यस्तम्भस्रंसस्पर्शाहानिघ्नश्च॥

श्लोक 41

अतिचरणादिषु सर्वास्वनिलजास्वयमेव क्रमः॥

श्लोक 42

धारयेच्चातिचरणाय यवगोधूमकिण्वकुष्ठशतपुष्पाश्र्याह्वीप्रयड्गुबलाखुकर्णीकल्ककृतामु-त्कारिकाम्॥

श्लोक 43

प्राक्चरणाशुष्काविप्लुताकर्णिनीषुतैलमुत्तरबस्तिं दद्यात्॥

श्लोक 44

धारयेच्च विप्लुतायां गोमत्स्यान्यतरपित्तेनैकविंशतिकृत्वो भावितान् क्षौमनक्तकान् किण्वं वा माक्षिकयुक्तमेवमस्याः स्रोतांसि विशुध्यन्ति कण्डूक्लेदशोफाश्च निवर्तन्ते॥

श्लोक 45

कर्णिन्यां तु कुष्ठार्कपल्लवपिप्पलीसैन्धवैर्बस्तमूत्रपिष्टैर्वर्तिं कृत्वा धारयेत्।
श्लेष्महरं च सर्वं कुर्यात्॥

श्लोक 46

उदावृत्तायामानूपमांसरसाः क्षीरं स्वेदो दशमूलत्रिवृताक्वाथकल्कासिद्धश्च स्नेहः पानानुवासनोत्तरबस्तिषु।
योनिस्रंसे च महायोनिप्रभृतिष्वेष एव विधिः॥

श्लोक 47

जातघ्नीरक्तयोनिरक्तक्षयासु कुट्Aजकाश्मर्यक्वाथसिद्धं सर्पिरुत्तरबस्तौ दद्यात्।
अथवा मृगाजाविवराहरुधिराम्लदधिमधुघृतानीति।
भवति चात्र॥

श्लोक 48

स्नेहन स्वेदबस्त्यादि वातलास्वनिलापहम्।
कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च॥

श्लोक 49

श्लेष्मलासु च रूक्षोष्णं कर्म कुर्याद्यथायथम्।
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्॥

श्लोक 50

स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत् समाम्।
पाणिना नमयेत् जिह्मां संवृतां प्रथयेत् पुनः॥

श्लोक 51

प्रवेशयेन्निस्सृतां च विवृतां परिवर्तयेत्।
स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रिया मता॥

श्लोक 52

सर्वां व्यापन्नयोनिं च कर्मभिर्वमनादिभिः।
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्॥

श्लोक 53

सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते।
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्॥

श्लोक 54

हिंस्राकल्कं समीरार्तौ कोष्णमभ्यज्य धारयेत्।
पञ्चवल्कस्य पित्तार्तौ श्यामादीनां कफातुरा॥

श्लोक 55

वामिन्याप्लुतयोश्चैव स्वेदयित्वा प्रयोजयेत्।
तर्पणं स्नेहपिचुभिर्भोजनं चानिलापहम्॥

श्लोक 56

सल्लकीजिङ्गिणीजम्बूधवत्वक्पञ्चवल्कलैः।
कषायैः साधितात् स्नेहात् पर्युपप्लुतयोः पिचुम्॥