श्लोक 1
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
क्षारो हि नानौषधसमवायनिर्वृत्तेः सर्वरसाधिष्ठानं कटुकलवणरसभूयिष्ठस्तीक्ष्णोष्णो दहनः पाचनो विदारणो विलायनः शोधनो रोपणः क्रिम्याममेदोविषापहः सर्वशस्त्रानुशस्त्राणां च वरिष्ठः छेदनभेदनपाटनलेखनकरणाद्यतश्च सम्बाधावकाशजेषु दुःखावचारणीयशस्त्रेषु नासार्शोऽर्बुदादिषु शस्त्रेण चासिध्यस्तु दुष्टव्रणेषु बहुशः प्रकोपिषु प्रयुज्यते।
स द्विविधो बाह्याभ्यन्तरपरिमार्जनभेदेन॥
श्लोक 3
तत्रार्शोऽर्बुदभगन्दरग्रन्थिदुष्टव्रणनाडीचर्मकीलवर्त्ममुखरोगकुष्ठकिलासतिलकालकादिषु बहिः परिमार्जनेन।
अन्तःपरिमार्जनेन तु गुल्मगरोदराग्निसादमलसङ्गशूलानाहाश्मरीशर्करादिषु स यथास्वमेवोपदेक्ष्यते॥
श्लोक 4
न तूभयोऽपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्वरातिसारपाण्डुशिरोहृदयरोगमेहाक्षिपाकतिमिरारोचकातुरकृतवमनविरेकर्तुमतीगर्भिण्युद्वृत्तफलयोनिसर्वाङ्गशूलविषमद्यपीतेषु।
मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तरमुष्कशेफस्रोतस्स्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्त्मरोगात्।
तथा शीतोष्णवर्षदुर्दिनप्रवातेषु च॥
श्लोक 5
अथ बहिः परिमार्जनस्त्रिविधो मध्यो मृदुस्तीक्ष्णश्च।
तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्तेऽहनि प्रशस्तदेशजातं मध्यमवयसमनुपहतं महान्तं कालमुष्ककं सुरापललसुमनोऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यर्च्यैनमधिवासयेत्॥
श्लोक 6
दैवतेभ्यो नमस्तेभ्यो निवसन्तीह ये श्रिताः।
गन्तुमर्हन्त्यसङ्क्रुद्धास्त्यक्त्वेमं वासमव्ययम्॥
श्लोक 7
भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमम्।
वृक्षं न लोभान्न क्रोधाद् ब्राह्मणार्थे विशेषतः॥
श्लोक 8
इति।
अथापरेद्युस्तत्र यद्यद्भुतं वैकृतं वा किञ्चिन्न पश्येत्ततो युगमात्रमारूढे सवितरि ब्राह्मणान् वाचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रं वा पातयेत्।
एवं च पारिभद्रपलाशाश्वकर्णराजवृक्षमहावृक्षवृक्षकेन्द्रवृक्षास्फोतसप्तच्छदनक्तमालतिल्वककदलीबिभीतकाश्वमारकपूतीकचित्रकार्ककाकजङ्घापामार्गाग्निमन्थान् वसन्ते सङ्गृहीतांश्च यवान् सशूकनालांश्चतस्रश्च कोशातकीः सवान् समूलफलपत्रशाखान् खण्डशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान् निवाते पृथङ् निचयीकृत्य मुष्ककनिचये च सुधाशर्कराः प्रक्षिप्य तिलकुन्तलैरादीपयेत्।
दग्ध्वा च शान्तेऽग्नौ पृथक् सुधाशर्कराभस्म कृत्वेतरत् सर्वक्षारद्रोणमधिकमुष्ककं सलिलपलसहस्रेण गवादिमूत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिस्रावयेत्।
यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यन्दं गृहीत्वा भस्म विवर्जयेत्।
ततः स्नेहपाकविधिना पाचयेत्।
पच्यमाने च तस्मिंस्ताः सुधाभस्मशर्कराः क्षीरबकं शङ्खनाभिचायसे पात्रेऽग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्य तेनैव च सुश्लक्ष्णं पिष्ट्वा प्रतीवापं दद्यात्।
ततश्च सुतरां दर्व्यावघट्टयन् विपचेत् यावच्च सबाष्पैर्बुद्बुदैः समुत्तिष्ठेत् सान्द्रतया च दर्वीप्रलेपी स्यात्तदैनमवतार्यायोघटे यवरशौ सुगुप्तं स्थापयेत्।
एष मध्यमः क्षारः॥
श्लोक 9
मृदौ शर्करादीन्निर्वाप्यापनयेन्न तु पिष्ट्वा क्षिपेत्।
तीक्ष्णे तु दन्तीचित्रकलाङ्गलिकापूतीकप्रवालतालपत्रीबिडस्वर्जिकाकनकक्षीरीहिङ्गुवचातिविषाः श्लक्ष्णचूर्णीकृता दग्धाश्च शङ्खशुक्तीः पूर्ववत् प्रतिवापं दद्यात्।
तांश्च व्याधिबलतः सप्तरात्रादूर्ध्वं प्रयुञ्जीत।
क्षीणबले तु बलाधानार्थं पुनः क्षारजलमावपेत्।
तत्रनातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीघ्रः पिच्छिलः शिखरी सुखनिर्वाप्योऽल्परुगनभिष्यन्दी चेति दश क्षारस्य गुणाः।
दशैव च दोषाः।
तद्यथा।
अत्युष्णोऽतिशीतोऽतितीक्ष्णोऽतिमृदुरतितनुरतिघनोऽतिपिच्छिलोविसर्पी हीनौषधो हीनपाकश्चेति॥
श्लोक 10
तत्र क्षारकर्मण्युपहारेत् पिचुवर्तिशलाकादर्व्यञ्जलिकाघृतमधुशुक्ततुषोदकमस्तुक्षीरोदकशीतप्रदेहशयनासनादीनि।
अथ क्षारार्हस्योपविष्टस्य संविष्टस्य वाप्तपरिचारकगृहीतस्य व्याधिं छित्वावलिख्य प्रच्छाय वा पिचुप्लोतान्यतरावगुण्ठितया शलाकया क्षारं पातयेत्।
ततो मात्राशतमुपेक्षेत।
वर्त्मरोगे तु निर्भुज्य वर्त्मनी पिचुना मधूच्छिष्टेन वा कृष्णभागं प्रच्छाद्य पद्मपत्रतनुः क्षारलेपः।
घ्राणजेषु त्वर्शोऽर्बुदेष्वादित्याभिमुखस्योन्नमय्य नासिकामुपेक्ष्याश्च पञ्चाशन्मात्राः।
तद्वच्छ्रोत्रजेषु।
गुदार्शस्सु पाणिना यन्त्रद्वारं पिधाय धारयेन्मात्राशतमेव।
ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत्सर्पिर्मधुभ्यां शुक्ततुषोदकमस्तुक्षीरादिभिश्च।
ततः परं शीतमधुरैः सघृतैः प्रदिह्यात्।
अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च।
स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लबीजमधुयष्टिकायुक्तैस्तिलैरालेपयेत्सुवर्णक्षीरीयुतैर्वा त्रिवृद्विडङ्गसारवद्भिर्वा।
मालतीवृषाङ्कोलनिम्बास्फोतपटोलीकरवीरपत्रक्वाथेन व्रणप्रक्षालनम्।
एषामेव च कल्कक्वाथे सिद्धं सर्पिस्तैलं वा रोपणम्।
नागपुष्पमञ्जिष्ठाचन्दनतिलपर्णिकासु वा।
यथाव्याधिदोषं च व्रणमुपक्रमेत्।
तिलाः सयष्टिमधुका रोपणे चास्य पूजिताः॥
श्लोक 11
तत्र पक्वजाम्बवसङ्काशमवसन्नमीषद्यथास्वविकारोपशान्तौ च सम्यग्दग्धं भवति।
तद्विपर्ययेण तोदकण्डूजाड्यादिभिश्चदुर्दग्धम्।
तत्र पुनः पातयेत्।
ऊषादाहरागशोफज्वरपाकविसर्पशिरोरोगवातपित्तकोपैरतिदग्धम्।
अपि च।
नेत्रेऽतियोगाद्वर्त्मनिर्भेदेनेन्द्रियभ्रंशः।
घ्राणे नासावंशतरुणास्थिदरणं सङ्कोचो गन्धाज्ञानं च।
तद्वच्छोत्रादिष्वपि च यथास्वं व्यापत्।
गुदे विण्मूत्ररोधोऽतीसारः पुंस्त्वोपघातो गुदविदरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्रावाः।
शकृन्मूत्रवातविधारणाशक्तिर्वा।
तमतिप्रवृत्तमाशु पूर्वोक्तैरेव निर्वापणैः पुनःपुनर्निर्वापयेत्।
अतश्च दाह्यमतिप्रमाणं न सकृदेव दहेदिति।
भवति चात्र॥
श्लोक 12
अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः।
यात्याशु स्वादुतां तमादम्लैर्निर्वापयेत्तराम्॥
श्लोक 13
ज्वरातिसारतृण्मोहमूर्छाहृद्वेदनार्तिभिः॥
कक्षं दहत्यग्निरिव शरीरं क्षारविभ्रमः॥
श्लोक 14
पाययेतातियोगेऽतस्तं शीघ्रं सघृतं दधि।
सगुडं वा दधिसरं तैलं वा ससितोपलम्॥
श्लोक 15
धात्रीफलकपित्थाम्लदाडिमस्वरसे घृतम्।
द्विगुणे साधितं पानसेकैः क्षारातिरुग्धरम्॥
श्लोक 16
दाडिमामलकाम्रातकपित्थकरमर्दकान्।
आम्राच्च मातुलुङ्गाच्च रसं मृद्वग्निना पचेत्॥
श्लोक 17
ततोऽतिवृत्तक्षाराय दद्यान्मात्रां यथाबलम्।
क्षारो निवर्तते तेन प्रसादं त्वक् च गच्छति॥
श्लोक 18
शोणितातिप्रवृत्तौ तु बाह्यान्तः शिशिरो विधिः॥
इति एकोनचत्वारिंशोऽध्यायः॥