श्लोक 1
अथात ऋतुचर्यां व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
कालो हि नाम भगवाननादिनिधनो यथोपचितकर्मानुसारी।
यदनुरोधादादित्यादयः खादयश्च महाभूतविशेषास्तथा तथा विपरिणमन्तो जन्मवतां जन्ममरणस्यर्तुरसवीर्यदोपदेहबलव्यापत्सं पदां च कारणत्वं पत्ययतां प्रतिपद्यन्ते॥
श्लोक 3
स मात्राकाष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्वयनवर्षभेदेन द्वादशधा विभज्यते॥
श्लोक 4
तत्राक्षिनिमेषो मान्त्रा। ताः पञ्चदश काष्ठा तास्त्रिंशत् कला। ताः सदशभागा विंशतिर्नाडिका। नाडिकाद्वयं मुहूर्तश्च। ते तुल्यरात्रिन्दिवे राशिभागे चत्वारः पादोना यामः। तैश्चतुर्भिरहो रात्रिश्च। पञ्चदशाहोरात्राः पक्षः। पक्षद्वयं मासः स शुक्लान्तः। तैर्मार्गशीर्षादिभिर्द्विसंख्यैः क्रमाद्धेमन्तशिशिरवसन्तग्रीष्मवर्षशरदाख्याः षडृतवो भवन्ति। तेषु शिशिरादयस्त्रयो रवेरुदगयनमादानञ्च शेषा दक्षिणायनं विसर्गश्च। तावादानविसर्गौ वर्षम्॥
श्लोक 5
तयोरादानमाग्नेयम्। तस्मिन् खलु कालस्वभावमार्गपरिगृहीतोऽत्यर्थोप्णगभस्तिजालमण्डलोऽर्कस्तत्संपर्काद्वायवश्च तीव्ररूक्षाः सोमजं गुणमुपशोषयन्तो जगतः स्नेहमाददाना ऋतुक्रमेणो पजनितरौक्ष्या रूक्षान् रसांस्तिक्तकषायकटुकानभिप्रबलयन्तो नृणां दौर्बल्यमावहन्ति॥
श्लोक 6
वसर्गस्तु सौम्यः। तस्मिन्नपि कालमार्गमेघवातवर्षाभिहतप्रभावे दक्षिणायनगेऽर्के शशिनि चाव्याहतबले शिशिराभिर्भाभिः शश्वदाप्यायमाने माहेन्द्रसलिल प्रशान्त सन्तापे जगत्यरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं बलं चोपचीयते नृणामिति॥
श्लोक 7
भवति चात्र हेमन्ते शिशिरे चाग्र्यं विसर्गादानयोर्बलम्। शरद्वसन्तयोर्मध्यं हीनं वर्षानिदाघयोः॥
श्लोक 8
धूमधूम्ररजोमन्दास्तुषाराविलमण्डलाः।
दिगादित्या मरुच्छैत्यादुत्तरो रोमहर्षणः॥
श्लोक 9
लोध्रप्रियङ्गुपुन्नागलवल्यः कुसुमोज्वलाः।
दृप्ता गजाजमहिषवाजिवायससूकराः॥
श्लोक 10
हिमानीपटलच्छन्ना लीनमीनविहङ्गमाः।
नद्यः सबाष्पाः सोष्माणः कूपापश्च हिमागमे॥
श्लोक 11
देहोष्माणो विशन्तोऽन्तः शीते शीतानिलाहताः।
जठरे पिण्डितोष्माणं प्रबलं कुर्वतेऽनलम्॥
श्लोक 12
विसर्गे बलिनां प्रायः स्वभावादिगुरुक्षमम्।
बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये॥
श्लोक 13
अनिन्धनोऽन्यथा सीदेदत्युदीर्णतयाऽथवा।
धातूनपि पचेदस्य ततस्तेषां क्षयान्मरुत्॥
श्लोक 14
तेजः सहचरः कुप्येच्छीतः शीते विशेषतः।
अतो हिमे भजेत्स्निग्धान् स्वाद्वम्ललवणान्रसान्॥
श्लोक 15
बिलेशयौदकानूपप्रसहानां भृतानि च।
मांसानि गुडपिष्टोत्थमद्यान्यभिनवानि च॥
श्लोक 16
माषेक्षुक्षीरविकृतिवसातैलनवौदनान्।
व्यायामोद्वर्तनाभ्यङ्गस्वेदधूमाञ्जनातपान्॥
श्लोक 17
सुखोदकं शौचविधौ भूमिगर्भगृहाणि च।
साङ्गारयानां शय्यां च कुथकम्बलसंस्कृताम्॥
श्लोक 18
कुङ्कुमेनानुलिप्ताङ्गो गुरुणाऽगरुणाऽपि वा।
लघूष्णैः प्रावृतः स्वप्यात् काले धूपाधिवासितः॥
श्लोक 19
पीनाङ्गनाङ्गसंसङ्गनिवारितहिमानिलः।
शिशिरे शीतमधिकं मेघमाउतवर्षजम्॥
श्लोक 20
रौक्ष्यं च+आदानजं तस्मात् कार्यः पूर्वोऽधिकं विधिः।
वसन्ते दक्षिणो वायुराताम्रकिरणो रविः॥
श्लोक 21
नवप्रवालत्वक्पत्राः पादपाः ककुभोऽमलाः।
किंशुकाशोकचूतादिवनराजिविराजिताः॥
श्लोक 22
कोकिलालिकुलालापकलकोलाहलाकुलाः।
शिशिरे सञ्चितः श्लेष्मा दिनकृद्भाभिरीरितः॥
श्लोक 23
तदा प्रबाधमानोऽग्निं रोगान् प्रकुरुते बहून्।
अतोऽस्मिंस्तीक्ष्णवमनधूमगण्डूषनावनम्॥
श्लोक 24
व्यायामोद्वर्त्तनक्षौद्रयवगोधूमजाङ्गलान्।
सेवेत सुहृदुद्यानयुवतीश्च मनोरमाः॥
श्लोक 25
स्नातः स्वलङ्कृतः स्रग्वी चन्दनागरुरूषितः।
विचित्रामत्रविन्यस्तान् सहकारोत्पलाङ्कितान्॥
श्लोक 26
निगदांश्च+आसवारिष्टशीधुमार्द्वीकमाधवान्।
क्वथितं मुस्तशुण्ठ्यम्बु साराम्भः क्षौद्रवारि वा॥
श्लोक 27
गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्।
ग्रीष्मेऽतसीपुष्पनिभस्तीक्ष्णांशुर्दावदीपिताः॥
श्लोक 28
दिशो ज्वलन्ति भूमिश्च मारुतो नैऋतः सुखः।
पवनातपसंस्वेदैर्जन्तवो ज्वरिता इव॥
श्लोक 29
तापार्ततुङ्गमातङ्गमहिषैः कलुषीकृताः।
दिवाकरकराङ्गारनिकरक्षपिताम्भसः॥
श्लोक 30
प्रवृद्धरोधसो नद्यः च्छायाहीना महीरुहाः।
विशीर्णजीर्णपर्णाश्च शुष्कवल्कलताङ्किताः॥
श्लोक 31
आदत्ते जगतस्तेजस्तद+आदित्यो भृशं यतः।
व्यायामातपकट्वम्ललवणोष्णं त्यजेदतः॥
श्लोक 32
मद्यं न सेव्यं स्वल्पं वा सेव्यं सुबहुवारि वा।
अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्॥
श्लोक 33
नवमृद्भाजनस्थानि हृद्यानि सुरभीणि च।
पानकानि समन्थानि सिताढ्यानि हिमानि च॥
श्लोक 34
स्वादु शीतं द्रवं चान्नं जाङ्गलान्मृगपक्षिणः।
शालिक्षीरघृतद्राक्षानालिकेराम्बुशर्कराः॥
श्लोक 35
तालवृन्तानिलान् हारान् स्रजः सकमलोत्पलाः।
तन्वीर्मृणालवलयाः कान्ताश्चन्दनरूषिताः॥
श्लोक 36
सरांसि वापिः सरितः काननानि हिमानि च।
सुरभीणि निषेवेत वासांसि सुलघूनि च॥
श्लोक 37
निष्पतद्यन्त्रसलिले स्वप्याद्धारागृहे दिवा।
रात्रौ च+आकाशतलके सुगन्धिकुसुमास्तृते॥
श्लोक 38
कर्पूरचन्दनार्द्राङ्गो विरलानङ्गसङ्गमः।
वर्षासु वारुणो वायुः सर्वसस्यसमुद्गमः॥
श्लोक 39
भिन्नेन्द्रनीलनीलाभ्रवृन्दमन्दाविलं नभः।
दीर्घिकानववार्यौघमग्नसोपानपङ्क्तयः॥
श्लोक 40
वारिधाराभृशाघातविकासितसरोरुहाः।
सरितः सागराकारा भूरव्यक्तजलस्थला॥
श्लोक 41
मन्द्रस्तनितजीमूतशिखिदर्दुरनादिता।
इन्द्रगोपधनुःखण्डविद्युदुद्योतदीपिता॥
श्लोक 42
परितः श्यामलतृणा सिलिन्ध्रकुटजोज्वला।
तदादानाबले देहे मन्देऽग्नौ बाधिते पुनः॥
श्लोक 43
वृष्टिभूबाष्पतोयाम्लपाकदुष्टैश्चलादिभिः।
बस्तिकर्म निषेवेत कृतसंशोधनक्रमः॥
श्लोक 44
पुराणाशालिगोधूमयवान् यूषरसैः कृतैः।
निगदं मदिरारिष्टमार्द्वीकं स्वल्पमम्बु वा॥
श्लोक 45
दिव्यं क्वथितकूपोत्थं चौण्डं सारसमेव वा।
वृष्टिवाताकुलेत्वन्हि भोजनं क्लेदवातजित्॥
श्लोक 46
परिशुष्कं लघुस्निग्धमुष्पाम्ललवणं भजेत्।
प्रायोऽन्नपानं सक्षौद्रं संस्कृतं च घनोदये॥
श्लोक 47
असरीसृपभूबाष्पशीतमारुतशीकरम्।
साग्नियानं च भवनं निर्दंशमशकोन्दुरम्॥
श्लोक 48
प्रघर्षोद्वर्तनस्नानधूमगन्धागरुप्रियः।
यायात् करेणुमुख्याभिश्चित्रस्रग्वस्त्रभूषितः॥
श्लोक 49
नदीजलोदमन्थाहः स्वप्नातिद्रवमैथुनम्।
तुषारपादचरणव्यायामार्ककरांस्त्यजेत्॥
श्लोक 50
शरदि व्योम शुभ्राभ्रं किञ्चित् पङ्काङ्किता मही।
प्रकाशकाशसप्ताह्वकुमुदा शालिशालिनी॥
श्लोक 51
विक्षिप्ततीक्ष्णकिरणो मेघौघविगमाद्रविः।
बभ्रुवर्णोऽतिविमलाः क्रौञ्चमालाकुला दिशः॥
श्लोक 52
कमलान्तरसंलीनमीनहंसांसघट्टनैः।
तरङ्गभङ्गानि सरांसि विमलानि च॥
श्लोक 53
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः।
तप्तानां सञ्चितं पूर्वं तदा पित्तं प्रकुप्यति॥
श्लोक 54
शस्तं तिक्तहविःपानं विरेकोऽस्रस्रुतिः सदा।
शीतं लघ्वन्नपानं च कषायस्वादुतिक्तकम्॥
श्लोक 55
शालिषष्टिकगोधूमयवमुद्गसितामधु।
पटोलामलकं द्राक्षा जाङ्गलं क्षुद्वतां भृशम्॥
श्लोक 56
दिवा दिवाकरकरैर्निशाकरकरौर्नीशि।
सन्तप्तं ह्लादितं तोयमगस्त्येनाविषीकृतम्॥
श्लोक 57
निर्मलं शुचि कालेन पक्वं पानेऽमृतोपमम्।
हंसौघपक्षविक्षेपभ्रमत्भ्रमरपङ्क्तिषु॥
श्लोक 58
सुसरोरुहसेव्यासु सरसीषु प्लवेत च।
लघुशुद्धाम्बरः स्रग्वी शीतोशीरविलेपनः॥
श्लोक 59
सेवेत चन्द्रकिरणान् प्रदोषे सौधमाश्रितः।
तृप्तिदध्यातपक्षारवसातैलपुरोनिलान्॥
श्लोक 60
तीक्ष्णमद्यदिवास्वप्नतुषारांश्च विवर्जयेत्।
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ॥
श्लोक 61
र्त्वोरन्तादिसप्ताहावृतुसन्धिरिति स्मृतः।
तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्॥
श्लोक 62
असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्।
र्तुष्वेवंविधेष्वेष विधिः स्वास्थ्ये च देहिनां॥
श्लोक 63
निर्दिश्यतेऽन्यरूपेषु विरुद्धाज्ञानिको विधिः।
मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयम्॥
श्लोक 64
यथोत्तरंभजेच्चर्यां तत्र तस्य बलादिति॥
इति चतुर्थोऽध्यायः