श्लोक 1
अथातः क्षुद्ररोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अजगल्लिकामपक्वां जलौकोभिर्ग्राहयेत्।
यवक्षारशुक्तिसौराष्ट्रीकल्कैश्च लेपयेत्॥
श्लोक 3
यवप्रख्यादीन् पाषाणगर्दभान्तान् स्वेदयित्वा सुरदारुकुष्ठमनश्शिलालैर्लेपयेत्॥
श्लोक 4
पक्वांस्तु सहाजगल्लिकया व्रणवदुपाचरेत्।
श्लोक 5
मुखदूषिकां लोध्रतुवरिकाभ्यां वा प्रदिह्यात्।
वटपत्रनारिकेलशुक्तिभ्यां वा सैन्धववचाक्षिभेषजसिद्धार्थकैर्वा।
एवमशान्तौ छर्दयेत्।
ललाटे च सिरां विध्येत्॥
श्लोक 6
पद्मकण्टकेषु निम्बाम्बुवान्तं निम्बोदकसिद्धं सर्पिः सक्षौद्रं पाययेत्।
निम्बारग्वधकषायेण चोद्वर्तनम्॥
श्लोक 7
विवृतादीन् जालगर्दभान्तनिरिवेल्लिकां च पित्तविसर्पवच्चिकित्सेत्॥
श्लोक 8
विशेषतो राजिकामपाकशर्करामूर्वाकण्टकशर्कराभिः क्षीरपिष्ट्अभिर्लेपयेत्।
अभीक्ष्णं च मृजाशीलनम्।
जालगर्दभे धात्रीफलान्युपयुञ्जीत॥
श्लोक 9
अग्निरोहिणीमपि प्रत्याख्याय पित्तविसर्पदुपाचरेत् पक्वां तु मधुरवर्गसिद्धेन सर्पिषां रोपयेत्॥
श्लोक 10
विदारिकां जलवासिनीभिर्ग्राहयित्वा बिल्वमूलनगवृत्तिकवर्षाभ्वजकर्णपलाशकल्केन प्रलिम्पेत्।
अनुपशाम्यन्तीं त्वभ्यज्य स्वेदयित्वा विम्लापयेत्।
पक्वां शस्त्रेण विदार्य निम्बतिलपटोलकल्केन प्रच्छाद्य बध्नीयात्।
क्षीरिवृक्षकदरखदिरकषायो व्रणप्रक्षालनम्।
शुद्धां मधुरकषायसंस्कृतेन तैलेन रोपयेत्॥
श्लोक 11
शर्करार्बुदं मेदोर्बुदवदुपाचरेत्॥
श्लोक 12
बल्मीकं हस्तस्य पादस्य चोपरिष्टान्मर्मणि वा जातं प्रवृद्धमतिबहुच्छिद्रावृतं सशोफं च वर्जयेत्॥
श्लोक 13
अतोन्यथा तु प्राक् कृतशुद्धेः शोणितमपहरेत्।
सक्तुपलललवणगुडूच्यारेवतश्यामादन्तीकुलत्थिकामूर्लेलैपयेत्॥
श्लोक 14
पक्वे तु सर्वां गतिं दुष्टमांसानि च शस्त्रेण सम्यक्शोधयित्वाग्निना क्षारेण वा दहेत्॥
श्लोक 15
सुशुद्धे तु व्रणे भल्लातकमनश्शिलालैलाकालानुसार्यगरुचन्दनैर्निम्बतैलं रोपणार्थं श्रपयेत्॥
श्लोक 16
कदरं शस्त्रेणोत्कृत्य स्नेहेन दहेत्॥
श्लोक 17
रुद्धगुदे निरुद्धमणिवच्चिकित्सा॥
श्लोक 18
चिप्पं शोणितावसेकसंशोधनैरुपाचरेत्।
व्यपगतोष्माणञ्चैनमुष्णाम्बुना परिषिच्य यथायोगं शस्त्रेण परिकर्त्यापनयेत्॥
श्लोक 19
ततो रसाञ्जनरोचनानेपालीतेजोह्वाकल्कैरम्लपिष्टैः शोधयित्वा कालेयकागरुहरिद्रारसाञ्जनसिद्धेनतैलेन रोपयेत्।
मधुरकषायसिद्धेन वा।
अल्पावशिष्टं च सर्जरसचूर्णेन पूरयेत्॥
श्लोक 20
कुनखमपि प्रदुष्टमेवमेवोपक्रमेत्॥
श्लोक 21
अलसेत्वम्लकाञ्जिकावसिक्तौ चरणौ निम्बतिलपटोलीकासीसरोचनाकल्केनाकल्केनालेपयेत्।
निदिग्धिकारससिद्धेन सर्षपतैलेनाभ्यज्य रोचनाकासीसमनश्शिलाचूर्णैः प्रतिसारयेत्॥
श्लोक 22
तिलकालकान् मषांश्च सूर्यकान्तेनाग्निना वा दहेत् क्षारेण वा।
चर्मकलिं जतुमणिं च तद्वच्छस्त्रेणोत्कृत्य॥
श्लोक 23
लाञ्च्छनव्यङ्गनीलिकासु यथासन्नां सिरां विध्येत्।
क्षीरीवृक्षवल्ककल्कैश्च क्षीरपिष्टैर्लेपयेत्।
बलातिबलामधुकहरिद्राभिर्वा।
मधुकागरुपयस्याकालीयकैर्वा।
तरुणकपित्थतिन्दुकरजनीभिर्वा।
अम्लिकामूलेन वा।
सूकरदंष्ट्रया वा मधुघृतयुक्तया॥
श्लोक 24
विशेषेण व्यङ्गेष्वसृक्स्रावपूर्वमर्जुनपरिपोटैर्लेपः।
क्षौद्रेण वा पिष्टा मञ्जिष्ठा।
अजाक्षीरेणवार्द्रदाडिमत्वक्।
तेनैव वा बालामलकं गोमूत्रेण सप्ताहं स्थितम्।
दधिमण्डेन वा कालेयकलोध्रोत्पलकिञ्जल्कम्।
नवनीतेन वा श्वेताश्वखुरजमषी॥
श्लोक 25
तत्रापि वातजेषु देवदारुदुरालभाबृहतीमञ्जिष्ठामूर्वापामार्गत्रायन्तीत्रायमाणाशुकनसाबलाविदारीयवबदरकुलत्थबिल्वोत्पलशतावरीदर्भमूलक्वाथे शृङ्गीविडङ्गगर्भं घृतं विपक्वमधोभक्तं पानमभ्यङ्गं नावनं च सायं योजयेत्॥
श्लोक 26
प्रलेपं च न्यग्रोधदेवदारुहरीतकीपूतीकरञ्जमदनफलचूर्णैर्घृतयुक्तैः।
बदरमज्जाकोद्रवलाजचूर्णेन वा सघृतेन।
श्वेतचमरास्थितालपत्रीस्तन्यमधुघृतैर्वा॥
श्लोक 27
पैत्तेषु बलामधुकमागधिकाक्षीरकाकोलीस्वगुप्ताफलकाकमाचीतुगाह्वाभिः सपयः सर्पिः सिद्धं पूर्ववत् प्रयोजयेत्॥
श्लोक 28
मृद्वीकाश्वेतपाकीखर्जूरपरूषकसौवीरबदरद्विमेदापुनर्नवकशेरुकाप्रवालविद्रुममृणालैर्वा सक्षीरैः॥
श्लोक 29
उपस्निग्धं चैनमिक्षुरसेनोभयतो विरेचयेत्॥
श्लोक 30
कृतरुधिरावसेचनानेतांश्च व्यङ्गान् मधुकसारिवाबलाचन्दनलोध्रोत्पलैर्घृतयुक्तैरालेपयेत्।
प्रपौण्डरीकमधुकपद्मकनीलोत्पलसारिवाकदलीमूलप्रवालसुवर्णगैरिकैर्वा।
शीतमधुरमन्नपानं प्रवातमहःस्वप्नं सौमनस्यं च सेवेत॥
श्लोक 31
कफजेषु दशमूलदेवदारुहरीतकीश्वदंष्ट्रामलकीक्वाथे मुस्तकुष्ठहरिद्रामरतरुकल्कैस्तद्वत् साधितं सर्पिस्तद्वदेवोपयुञ्जीत॥
श्लोक 32
तुत्थरोचनालोध्रप्रियङ्गुकालेयकैः समधुघृतैर्लेपः।
देवदारुसरलबलाशिग्रुमूलैर्वा।
मनश्शिलातुत्थरसाञ्जनैर्वा।
मृदुना वा क्षारेण दशमात्राः प्रलेपः॥
श्लोक 33
रक्तजेषु क्षीरसर्पिःस्निग्धस्य सिरां विस्रावयेत्।
वमनविरेचने च पित्तवत् कुर्यात्।
आलेपश्चास्य चन्दनमधुककल्केन घृतवता।
सर्जरसनीलोत्पलशङ्खवेतसकदलीमूलमूर्वामधुककल्केन वा॥
श्लोक 34
प्रसुप्तौ वातकुष्ठोक्तक्रमोऽन्ते चाग्निना दाहः॥
श्लोक 35
उत्कोठे पित्तश्लेष्महरो विधिः सक्षारलवणं च तैलमभ्यङ्गः।
कोठे कुष्ठचिकित्सितमीक्षेत॥
॥इति सप्तत्रिंशोऽध्यायः॥