श्लोक 1
अथातः शल्याहरणविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
त्रिविधा हि गतिः शल्यानामूर्ध्वमधस्तिर्यक् च।
सा पुनः प्रत्येकमृजुवक्रभेदेन द्विविधा॥
श्लोक 3
तत्र ध्यामं पिटकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुद्गतं मृदुमांसं च व्रणं सशल्यं विद्यात्॥
श्लोक 4
विशेषतस्तु त्वग्गते शल्ये विवर्णः शोफो भवत्यायतः कठिनश्च।
मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषः पाकश्च॥
श्लोक 5
पेश्यन्तरस्थे शोफवर्ज्यं मांसप्राप्तवत्।
सिरागते सिराध्मानं शूलं च।
स्नावगते स्नावजालावक्षेपणं संरम्भश्चोग्ररुक्॥
श्लोक 6
स्रोतोगते स्रोतसां स्वकर्मगुणहानिः।
धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गपीडा हृल्लासश्च।
अस्थिगते विविधा वेदनाः शोफश्च॥
श्लोक 7
सन्धिगतेऽस्थिवच्चेष्टोपरोधश्च।
अस्थिसन्धिगतेऽस्थिपूर्णता सङ्घर्षो बलवांश्च॥
श्लोक 8
कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनानि च व्रणमुखाद्भवन्ति।
मर्मगते मर्मविद्धवत्॥
श्लोक 9
यथायथं चोपदिष्टैः परिस्रावैस्त्वगादिषु शल्यमुपलक्षयेत्।
सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यविस्पष्टानि भवन्ति॥
श्लोक 10
शुद्धदेहानामनुलोमसन्निविष्टान्युपरुह्यन्ते।
दोषप्रकोपव्यवायव्यायामाभिघातेभ्यश्च प्रचलितानि पुनराबाधयन्ति॥
श्लोक 11
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयचूर्णमर्दितायां त्वचि यत्र संरम्भो वेदना वा भवति।
यत्र वा स्त्यानं सर्पिर्निहितमाशु विलीयते।
प्रलेपो वा शुष्यति।
तत्र शल्यं जानीयात्।
मांसप्रनष्टे स्नेहादिभिः क्रियाभिरातुरमुपपादयेत्।
कर्शितस्य च शिथिलीभूतमनवबद्धं क्षुभ्यमानं यत्र यत्र संरम्भं वेदनां वा जनयति तत्र शल्यम्॥
श्लोक 12
एवं कोष्ठास्त्निपेशीविवरेष्वपि॥
श्लोक 13
सिरास्रोतोधमनीस्नावप्रणष्टे खण्डचक्रमश्वयुक्तं रथमारोप्यातुरं विषमेऽध्वनि शीघ्रं नयेत्।
ततः संरम्भादिभिर्जानीयात्॥
श्लोक 14
सन्धिप्रणष्टे स्नेहस्वेदोपपन्नं सन्धिं प्रसारणाकुञ्चनबन्धनपीडनैरुपाचरन् पूर्ववदवगच्छेत्।
अस्थिप्रणष्टे स्निग्धस्विन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपचरंस्तद्वदुपलक्षयेत्॥
श्लोक 15
मर्मप्रणष्टे त्वनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति॥
श्लोक 16
सामान्यलक्षणं तूच्छ्रितहस्तिस्कन्धाश्वमाद्रुरोहणद्रुतयानलङ्घनप्लवनव्यायामैर्जम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्मलशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति।
यत्र वा स्वल्पेऽप्यायासे स्वापो गौरवं घट्टनं शोफो वा स्यात्तत्र शल्यमादिशेत्॥
श्लोक 17
समासतश्चतुर्विधं शल्यं भवति।
वृत्तद्वित्रिचतुरस्रभेदेन।
तददृश्यमानं वृत्तसंस्थानादनुमिमीत॥
श्लोक 18
सर्वशल्यानां महतामाहरणे द्वावेवोपायौ प्रतिलोमोऽनुलोमश्च॥
श्लोक 19
तत्र प्रतिलोममर्वाचीनमानयेदनुलोमं पराचीनम्।
तिर्यग्गतं यतः सुखाहार्यं भवति।
ततः छित्वापहरेत्॥
श्लोक 20
प्रतिलोममनुत्तुण्डितं छेदनीयं पृथुमुखं च शल्यं निर्घातयेत्।
तथा कक्ष्यावङ्क्षणोरःपरशुकान्तरपतितानि॥
श्लोक 21
नैव चाहरेद्विशल्यघ्नं मर्मप्रणष्टं वाशोफवेदनं पाकविरहितम्॥
श्लोक 22
अथ हस्तप्राप्यं शल्यं हस्तेनाहरेत्।
तदशक्यं यथायथं यन्त्रेण।
तथाप्यशक्यं शस्त्रेण विशस्य ततो निर्लोहितं व्रणं कृत्वाग्निघृतमधुप्रभृतिभिः स्वेदयित्वावदह्य तर्पयित्वा सर्पिर्मधुभ्यां बध्वाचारिकमादिशेत्।
सिरास्नावलग्नं शलाकाग्रेणाभिमोच्याहरेत्।
हृदयेऽभिवर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्याहरेत्।
यथामार्गं दुराहरमन्यतोऽप्येवमाहरेत्॥
श्लोक 23
अस्थिविवरप्रणष्टमस्थिविदष्टं वावगृह्य पद्भ्यां पुरुषं यन्त्रेणापकर्षेत्।
अशक्यमेवं वा बलवद्भिः सुगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रतिभुज्य वा धनुर्गुणैरेकतो बध्वान्यतश्च पञ्चाङ्ग्या सुसंयतस्याश्वस्य वक्त्रकटके बध्नीयात्।
अथैनमेवं कशया ताडयेद्यथोन्नमयञ्छिरो वेगेन।
शल्यमुद्धरति॥
श्लोक 24
दृढां वा वृक्षशाखामवनम्य तम्यां पूर्ववद् बध्वोद्धरेत्॥
श्लोक 25
दुर्बलवारङ्गं तु कुशाभिर्बध्वा।
श्वयथुग्रस्तवारङ्गमुत्पीड्य श्वयथुम्॥
श्लोक 26
अदेशोत्तुण्डितमश्ममुद्गरप्रहारेण विचाल्य यथामार्गमेव॥
श्लोक 27
कर्णवत्तु यन्त्रेण विमृदितकर्णं कृत्वा।
नाडीयन्त्रेण व बहुमुखेन यथास्वमुपसङ्गृह्य शलाकायन्त्रेणान्येन वा पूर्ववदाहरेत्।
अनुलोममकर्णमनल्पव्रणमुखमयस्कान्तेन।
पक्वाशयगतं विरेचनेन॥
श्लोक 28
वातविण्मूत्रगर्भसङ्गं प्रवाहणेन दुष्टवातविषस्तन्यादीन्यास्यविषाणचूषणेन॥
श्लोक 29
कण्ठस्रोतोगते तु शल्ये बिसं सक्तं सूत्रं कण्ठे प्रवेशयेत्।
अथ तद्गृहीतं विज्ञाय शल्यं सममेव सूत्रं बिसं चाक्षिपेत्।
बिसाभावे मृणालेऽप्ययमेव विधिः।
जातुषे तु कण्ठसक्ते कण्ठे नाडीं प्रवेशयेत्तदा चाग्नितप्तां सूक्ष्ममुखीं शलाकामथ तां गृहीतशल्यां शीताभिरद्भिः परिषिच्य स्थिरीभूतामाहरेत्।
अजातुषेऽप्येवमेव प्रतप्तां जतुमधूच्छिष्टान्यतरप्रदिग्धां शलाकाम्।
मत्स्यकण्टकमन्यद्वा तादृगस्थिशल्यं कण्ठलग्नं सूत्रेण सूत्रप्लोतेन वा वेष्टितयांगुल्यापहरेत्।
अथवा केशोण्डुकं दृढदीर्घसूत्रबद्धं द्रवोपहितं पाययेद्वामयेच्च।
वमतश्च शल्यैकदेशसक्तं सूत्रं सहसैवाक्षिपेत्।
मृदुना वा दन्तधावनकूर्च्चेनापहरेत्।
परतो वा प्रणुदेत्।
वालोण्डुके विलग्ने तद्वत् कण्टकम्॥
श्लोक 30
क्षतकण्ठश्च त्रिफलाचूर्णं मधुघृतसितोपेतमनुकण्ठयन् लिह्यात्॥
श्लोक 31
अपां पूर्णं पुरुषमवाक्चिरसमवपीडयेद्धुनुयाद्वामयेच्च भस्मराशौ वा निखन्यादामुखात्।
अन्यथा ह्युन्मार्गगामिभिरद्भिराध्मानकासश्वासपीनसेन्द्रियोपघातज्वरादयः श्लेष्मविकारा मृत्युश्च।
तत्र यथास्वं कफे प्रतिकुर्यात्।
ग्रासशल्यमम्बुना प्रवेशयेत्।
स्कन्धे वा मुष्टिनाभिहन्यात्।
श्लोक 32
तथा निर्भुज्य वर्त्म वर्त्मगतमपनीय चोष्णाम्बुबाष्पस्वेदं समधुमधुकक्वाथेन सर्पिषा च परिषेकं कुर्यात्।
स्वयमपि शल्यमश्रुक्षवथुकासोद्गारमूत्रपुरीषानिलैर्नयनादिभ्योऽङ्गावयवेभ्यः पतति॥
श्लोक 33
कीटे कर्णस्रोतःप्रविष्टे तोदो गौरवं भरभरायमाणं च भवति स्पन्दमाने चाप्यधिकं वेदना।
तत्र सलवणेनाम्बुना मधुकयुक्तेन मद्येन वा सुखोष्णेन पूरणम्।
निर्गते च कीटे तदुत्सर्जनम्।
तत्रैव तु मृते पाककोथक्लेदा भवन्ति।
तेषु कर्णस्रावोक्तं कुर्यात्।
प्रतीनाहोक्तं च।
तोयपूर्णं कर्णं हस्तोन्मथितेन तैलाम्बुना पूरयेत्।
पार्श्वावनतं वा कृत्वा हस्तेनाहन्यान्नाड्या वा चूषयेत्।
भवन्ति चात्र श्लोकाः॥
श्लोक 34
जाउषं हेमरूप्यादिधातुजं च चिरस्थितम्।
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते॥
श्लोक 35
विषाणवेणुदार्वस्थिदन्तवालोपलानि तु।
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च॥
श्लोक 36
विषाणवेण्वयस्तालदारुशल्यं चिरादपि।
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी॥
श्लोक 37
शल्ये मांसावगाढे चेत् स देशो न विदह्यते।
ततस्तं मर्दनस्वेदशुद्धिकर्शनबृंहणैः॥
श्लोक 38
तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः।
पाचयित्वा हरेच्छल्यं पाटनैषणपीडनैः॥
श्लोक 39
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्।
तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाहरेत्॥
श्लोक 40
व्रणे प्रशान्ते प्रान्तेषु नातिस्पर्शासहिष्णुषु।
अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत्॥
श्लोक 41
काय एव परं शल्यं निजदोषमलाविलः।
शल्ये शल्यं शराद्यं तु विशेषात्तेन चिन्त्यते॥
इति सप्तत्रिंशोऽध्यायः॥