अष्टाङ्गसंग्रहः उत्तरस्थानम् 36

श्लोक 1

अथातः क्षुद्ररोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

स्निग्धाः सवर्णा ग्रथिता नीरुजा मुद्गसन्निभाः।
पिटकाः कफवाताभ्यां बालानामजगल्लिका॥

श्लोक 3

यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना।
अवक्त्रा त्वलजी वृत्ताः स्तोकपूया घनोन्नताः।
ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः॥

श्लोक 4

कर्णस्योर्ध्वं समन्ताद्वा पिटका कठिनोग्ररुक्।
शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः।
हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः॥

श्लोक 5

शाल्मलीकण्टकाकाराः पिटकाः सरुजो घनाः।
मेदोगर्भा मुखे शूनां ताभ्यां च मुखदूषिका॥

श्लोक 6

ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः।
चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः॥

श्लोक 7

पित्तेन पिटका वृत्ता पक्वोदुम्बरसन्निभा।
महादाहज्वरकरी विवृता विवृतानना॥

श्लोक 8

गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः।
मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटका घनाः॥

श्लोक 9

ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः॥

श्लोक 10

या पद्मकर्णिकाकारा पिटका पिटकाचिता।
सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी॥

श्लोक 11

मण्डला विपुलोत्सन्ना सरागपिटकाचिता॥

श्लोक 12

कक्ष्येति कक्षासन्नेषु प्रायो देशेषु सानिलात्।
पित्तात् भवन्ति पिटकाः सूक्ष्मा लाजोपमा घनाः।
तादृशी महतीत्वेका गन्धनामेति कीर्तिता॥

श्लोक 13

घर्मस्वेदपरीतेङ्गे पिटकाः सरुजो घनाः।
राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः॥

श्लोक 14

दोषैः पित्तोल्बणैर्मन्दैर्विसर्पति विसर्पवत्।
शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः॥

श्लोक 15

मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः।
कक्ष्याभागेषु जायन्ते येग्न्याभाः साग्निरोहिणी।
पञ्चाहात् सप्तरात्राद्वा पक्षाद्वा हन्ति जीवितम्॥

श्लोक 16

त्रिलिङ्गा पिटका वृत्ता जत्रूर्ध्वमिरिवेल्लिका॥

श्लोक 17

विदारीकन्दकठिना विदारी कक्षवङ्क्षणे॥

श्लोक 18

मेदोनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः।
भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्वणोनिलः॥

श्लोक 19

मांमं विशोष्य ग्रन्थितां शर्करामुपपादयेत्।
दुर्गन्धिं रुधिरं क्लिन्नं नानावर्णं ततो मलाः।
तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्॥

श्लोक 20

पाणिपादतले सन्धौ जत्रूर्ध्वंवोपचीयते।
वल्मीकवच्छनैर्ग्रन्थिस्तद्वत्बह्वणुभिर्मुखैः।
रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोसौ समस्तजः॥

श्लोक 21

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः।
ग्रन्थिःकीलवदुत्सन्नो जायते कदरं तु तत्॥

श्लोक 22

वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम्।
अणूकरोति बाह्यान्तर्मार्गमस्य ततः शकृत्।
कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः॥

श्लोक 23

कुर्यात् पित्तानिलं पाकं नखमांसे सरुग्ज्वरम्।
चिप्पमक्षतरोगं च विद्यादुपनखं च तम्॥

श्लोक 24

कृष्णोभिघाताद्रूक्षश्च खरश्च कुनखो नखः।
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः।
अङ्गुल्योऽलसमित्याहुः तिलामांस्तिलकालकान्॥

श्लोक 25

कृष्णानवेदनांस्त्वक्स्थान् मषांस्तानेव चोन्नतान्।
मषेभ्यस्तून्नततरान् चर्मकीलान् सितासितान्।
तथाविधो जतुमणिः सरुजो लोहितस्तु सः॥

श्लोक 26

कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम्॥

श्लोक 27

शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु।
श्यामलं मण्डलं व्यङ्गं वक्त्रादन्यत्र नीलिका॥

श्लोक 28

परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्।
पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात्।
रक्ताद्रक्तान्तमाताम्रं सेषं चिमिचिमायते॥

श्लोक 29

वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति।
ततस्त्वग्जायते पाण्डुः क्रमेण च विचेतना।
अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः॥

श्लोक 30

असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः।
मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च।
उत्कोठः सोनुबन्धस्तु कोठ इत्यभिधीयते॥

श्लोक 31

प्रोक्ताः षड्त्रिंशदित्येते क्षुद्ररोगा विभागशः।
यान् विज्ञाय न सम्मुह्येच्चिकित्सायां चिकित्सकः॥
इति षट्त्रिंशोऽध्यायः॥