श्लोक 1
अथातः सिराव्यधविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
बहवो हि रक्तावसेचनोपायाः प्रागभिहितास्तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषु सिराव्यधः प्रधानम्।
अमुना हि ते समूलाः शोषमायान्ति केदारसेतुभेदेन शाल्यादय इव।
तथा च॥
श्लोक 3
सिराव्यधश्चिकित्सार्धं संपूर्णं वा चिकित्सितम्।
शल्यतन्त्रे स्मृतो यद्वद्बस्तिः कायचिकित्सिते॥
श्लोक 4
यथा रक्तमधिष्ठानं विकाराणां विकारिणाम्।
अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः॥
श्लोक 5
तत्राम्बु शारीरमाहारसारभूतं रसाख्यमविकृतमविकृतेन तेजसा रञ्जितमिन्द्रगोपाकारं च शशशोणितगुञ्जाफलालक्तपद्मसुवर्णवर्णं धौतं च विरज्यमानं मधुरमीषल्लवणं स्निग्धमसंहतमशीतोष्णं गुरु पित्तैकचयप्रकोपोपशमं सौम्याग्रेयं प्रकृत्या रक्तमाहुः।
तथा दोषम्।
दूष्यमिति केचित्।
उभयात्मकमन्ये॥
श्लोक 6
तच्चैवंविधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं बलवर्णसुखायुषां योनिः।
इतरथा पुनः शरत्कालस्वभावादेव वा प्रदुष्टमभिष्यन्दाधिमन्थशुक्लार्मतिमिररक्तराजीशिरस्तोदभेददाहकण्डूकर्णरोगमुखपाकपूतिघ्राणास्योपदेहत्वगुल्मप्लीहविद्रधिवीसर्पज्वररक्तपित्तकुष्ठपिटकाश्लीपदोपदंशशङ्खशोफवातशोणितरक्तमेहक्षुद्ररोगाग्निस्वरनाशाङ्गगौरवसादारोचकाम्लोद्गारलवणास्यताक्रोधमोहस्वेदमदमूर्छायसन्यासकम्पतन्द्रादीनाम्।
ये च शीतोष्णस्निग्धरूक्षाद्यैः सर्वदोषप्रतिपक्षैः सम्यगप्युपक्रान्ताः साध्या अपि न सिध्यन्ति।
ते च रक्तप्रकोपजाः तस्मात्तेष्वत्युद्रिक्तरक्तविस्रावणाय यथास्वं सिरां विध्येत्॥
श्लोक 7
न तु स्नेहपीतकृतपञ्चकर्मान्यतमगर्भिणीसूतिकाजीर्णकामलाक्लीबोनषोडशातीतसप्ततिवर्षाभिघातातिस्रुतरक्तादुष्टरक्तास्निग्धातिस्निग्धास्विन्नाक्षेपकपक्षाघातातिसारच्छर्दिश्वासकासोदररक्तपित्तार्शःपाण्डुरोगसर्वाङ्गशोफपीडितानाम्।
न चाव्यधनीयाश्चायन्त्रितानुत्थिताः सिराः न तिर्यङ्न चातिशीतोष्णवर्षवाताभ्रेषु।
तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि सिरा न स्रवन्त्यतिस्रवन्ति वा सम्यक्स्निग्धस्विन्नस्य पुनर्द्रवीभूता दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवन्ते।
न त्वेष निषेधो विषसंसृष्टोपसर्गात्ययिकव्याधिषु।
प्रतिरोगं तु व्यधं प्रति विभागः॥
श्लोक 8
शिरोनेत्ररोगेषु लालाट्यामुपनास्यामपाङ्ग्यां वा कर्णरोगेषु परितः कर्णौ।
नासारोगेषु नासाग्रे।
प्रतिश्याये तु नासाललाटस्थाः।
मुखरोगेषु जिह्वौष्ठहनुतालुगाः।
जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खमूर्धगाः।
अपस्मारे हनुसन्धिमध्यगाः।
उन्मादेतूरोऽपाङ्गललाटगाः।
विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरस्थाः।
चतुर्थके स्कन्धाधोगतामन्यतरपार्श्वाश्रयाम्।
तृतीयकेऽंसयोरन्तरे त्रिकसन्धिमध्यगताम्।
प्रवाहिकायां शूलिन्यां श्रोण्याः समन्तात् द्व्यङ्गुले।
निर्वृत्तोपदंशशुक्रव्यापत्सु मेढ्रे।
गलगण्डः ऊर्मूलसंश्रिताम्।
गृद्ध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले।
अपच्यामिन्द्रबस्तेरधस्तात् द्व्यङ्गुले।
क्रोष्टुकणीर्षे सक्थिवातरुजासु च गुल्फस्योपरिष्टाच्चतुरङ्गुले।
श्लीपदेषु यथास्वं वक्ष्यते।
दाहहर्षचिप्पवातशोणितवातकण्टकविदारिकापाददारीप्रभृतिषु पादरोगेषु क्षिप्रमर्मण उपरिष्टात् द्व्यङ्गुले।
एतेनेतरसक्थिबाहू व्याख्यातौ।
विशेषतस्तु वामभागाभ्यन्तरतो बाहुमध्ये प्लीहोदरे।
एवमेव दक्षिणे बाहौ यकृदाख्ये।
तथा कासश्वासयोरप्यादिशन्ति।
गृध्रस्यामिव विश्वाच्याम्।
बाहुशोषापबाहुकयोरप्येके।
अदृश्यमानासु त्वेतास्वतिवृद्धस्य व्याधेरन्यव्याध्युक्तानामपि यथासन्नं व्यधः॥
श्लोक 9
प्रागेव चोपकल्पयेच्छयनासनोदकुम्भवस्त्रपट्टादि।
तथा यथालाभं च तगरैलाशीतशिवकुष्ठपाठाविडङ्गभद्रदारुत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालचूर्णमसृक्स्रावणाय।
असृक् स्थापनाय च लोद्ध्रमधुकप्रियङ्गुपत्तङ्गगैरिकरसाञ्जनशाल्मलीशङ्खयवगोधूममाषचूर्णम्।
वट्Aअश्वत्थाश्वकर्णपलाशबिभीतकसर्जार्जुनधन्वनधातकीसालसारारिमेदतिन्दुकत्वगङ्कुरनिर्यासश्रीवेष्टकमृत्कपालमृणालाञ्जनचूर्णम्।
क्षौममषीलाक्षासमुद्रफेनचूर्णं वा।
तथान्यच्चातिस्रुतरक्तव्यापत्प्रतीकारोपकरणम्।
सज्जोपकरणो हि विद्यो न मोहमाप्नेति॥
श्लोक 10
अथ कृतस्वस्त्ययनमातुरं व्याधिबलसात्म्याद्यवेक्ष्य स्निग्धं जाङ्गलरसं यवागूं वा पाययित्वा मुहूर्तमात्रमाश्वासितं पूर्वाह्णेऽपराह्वे वाङ्गारतापोष्णबाष्पान्यतरेण स्विन्नं जानूच्छ्रिते मृदावासने जानुनिहितकूर्परं समस्थितपादं प्रत्यादित्यमुपवेशयेत्।
केशान्ते च प्लोतचर्मवल्कलपट्टान्यतमेन बध्नीयात्।
ततश्चायतेन वस्त्राङ्गुष्ठगर्भेण मुष्टिद्वयेनातुरो यथास्वं मन्ये निपीडयेद्दन्तैश्च दन्तान्।
गण्डौ चाध्मापयेत्।
पुरुषश्चैनं पृष्ठत ऊर्ध्वस्थः वस्त्रकृकाटिकान्तरन्यस्तयन्वस्त्रं प्राणानबाधमानो यन्त्रयेदित्येषोऽन्तर्मुखवर्ज्यानां सिराणां व्यधने यन्त्रविधिः।
ततश्चास्य वैद्योऽङ्गुष्ठविष्टब्धया मध्यमयाङ्गुल्या सिरां ताडयेत्।
उत्थिताञ्च स्पन्दमानां स्पर्शदां वाभिलक्ष्य वामहस्तेन कुठारिकामूर्ध्वदण्डां कृत्वा सिरामध्येन्यस्य लक्षयित्वा च तथैव च मध्यमयाङ्गुल्या ताडयेदङ्गुष्ठोदरेण वा पीडयेत्।
गूडबहलत्वक्प्रतिच्छन्नायामङ्गुष्ठपीडनादुन्नमनमुपलक्षयेत्।
उत्कसनेन क्रोधसंरम्भेण चापूर्यन्ते सिराः।
अङ्गुष्ठेन तु नासाग्रमुन्नमय्य व्रीहिमुखेनोपनासिकां विध्येत्॥
श्लोक 11
उन्नमितविदष्टाग्रजिह्वस्याधो जिह्वायाः।
विवृतास्यस्य तालुनि दन्तमूले च।
ग्रीवासिरासु स्तनयोरुपरि यन्त्रयेत्।
उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरसः।
बाहुभ्यामवलम्बमानस्य पार्श्वयोः।
उन्नतमेढ्रस्य मेढ्रे।
श्रोणिपृष्ठस्कन्धेषून्नमितपृष्ठस्यावाक्शिरस उपविष्टस्य।
विश्वाचीगृध्रस्योरनाकुञ्चिते कूर्परे जानुनि च सुखोपविष्टस्य गूढाङ्गुष्ठबद्धमुष्टेर्व्यधनीयप्रदेशस्योपरि चतुरङ्गुले प्लोताद्यन्यतमेन च बध्वा हस्तसिराम्।
एवमेकपादं सुसंस्थितं स्थापयित्वान्यपादमीषत्सङ्कुचितं तस्योपरि निधाय जानुसन्धेरधोहस्ताभ्यामागुल्फं निपीड्य पूर्ववद्बध्वा पादसिरां विध्येत्।
तत्र तत्र च तैस्तैरुपायैर्विकल्प्य यन्त्रयेत्॥
श्लोक 12
तत्र मांसलेष्ववकाशेषु यवमात्रं व्रीहिमुखेन।
अतोऽन्यथार्धयवमात्रं व्रीहिमात्रं वा।
अस्थ्नामुपरिकुठारिकयार्धयवमात्रम्।
सर्वत्र चानुत्तानावगाढमृज्वसङ्कीर्णं मर्माद्यनुपघातिसिरामध्ये शस्त्रमाशु पातयेत्॥
श्लोक 13
एकप्रहाराभिहता धारया या स्रवेदसृक्।
मुहूर्तरुद्धा तिष्ठेच्च सम्यग्विद्धेति तां विदुः॥
श्लोक 14
अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः।
सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते॥
श्लोक 15
सम्यग्विद्धानामपि च सिराणामवहनकारणानि मूर्छा भयं यन्त्रशैथिल्यमतिगाढत्वमत्याशितता क्षामत्वं कुण्ठशस्त्रव्यधो मूत्रितोच्चारितत्वं दुःस्विन्नता कफावृतव्रणद्वारता चेति।
अथाप्रवृत्तिकारणं यथास्वमुपलक्ष्य प्रतिकुर्यात्।
तगरादिचूर्णेन च तैललवणप्रगाढेन सिरामुखमवचूर्णयेत्।
पृष्ठमध्ये चातुरं पीडयेत्।
एवं साधु वहति।
सम्यक् प्रवृत्ते कफानिलोपशमनरक्ताविच्छेदनार्थष्मुणलवणतैलबिन्दुभिः सिरामुखं सिञ्चेत्॥
श्लोक 16
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका।
सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत्॥
श्लोक 17
यस्य तु स्रवति रक्ते मूर्छा जायते तस्य विमुच्य यन्त्रं शीतसलिलार्द्रपाणिस्पर्शेन व्यजनवायुना श्रोत्रसुखेन वचसा च समाश्वासयन्नुपशमय्य मूर्छां पुनः स्रावयेत्।
पुनर्मूर्छत्यपरेद्युस्त्र्यहेऽपि वा।
परं तु रुधिरावसेचनप्रमाणं प्रस्थः।
अतोऽन्यथा व्याधिदेहर्तुबलमपेक्षेत॥
श्लोक 18
तत्र फेनिलमरुणं श्यावमच्छं रूक्षमस्कन्दि कषायानुरसं लोहगन्धि वेगस्रावि शीतं च रक्तं वातात्।
गृहधूमाञ्जनोदककृष्णं पीतं हरितं विस्रं मत्स्यगन्धि कटुत्वान्मक्षिकानिष्टमौष्ण्यादस्कन्दि सचन्द्रकं गोमूत्राभं च पित्तात्।
कोविदारपुष्पगैरिकोदकापाण्डु शीतं स्निग्धं स्कन्दि घनं पिच्छिलं तन्तुमद् व्रणद्वारावसादि लवणरसं वसागन्धि च कफात्।
द्वन्द्वसङ्कीर्णं संसर्गात्।
कंसनीलमाविलं दुर्गन्धं च सन्निपातात्।
शुद्धमुक्तं प्राक्।
ततः स्रुतरक्तस्य व्यधमनुलोममङ्गुष्ठेनोपरुध्य शनैश्शनैर्यन्त्रमपनीयाश्वासयेत्।
सतैलं च प्लोतं सिरामुखे दत्वा बध्नीयात्।
संवेशयेच्चैनम्॥
श्लोक 19
अतिष्ठति तु रक्ते सिरामुखं सन्धातुं पूर्वोक्तैश्चूर्णैरवचूर्ण्याङ्गुल्यग्रेण पीडयेत्।
शाल्मल्युपोदकापिच्छां वा व्रणमुखे दत्वा गाढं बध्नीयात्।
मधूच्छिष्टप्रलिप्तं वा पट्टम्।
शीताम्बुनावसिञ्चेत्।
शीतमधुरकषायान्नपानसेकप्रदेहप्रवातवेश्मभिर्वा स्कन्दनायोपचरेत्।
पद्मकादिक्वाथं शर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्य सिरां विध्वा रुधिरमामं घृतभृष्टं वा पानं दद्यात्।
तेनैव वा दर्भपादमृदितेनानुवासयेत्।
स्निग्धैश्च यूषरसैर्भोजयेत्।
व्यधादनन्तरं वा पुनस्तामेव सिरां विध्येत्।
सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात्।
सङ्कोचयितुं वा सिरामुखं तप्तशलाकया दहेत्।
न च क्षणमप्युपेक्षेत।
क्षीणरक्तस्य हि वायुर्मर्माण्युपसङ्गृह्य मूर्छासंज्ञानाशाशिरःकम्पभ्रममन्यास्तम्भापतानकहनुभ्रंशहिध्मापाण्डुत्वबाधिर्यधातुक्षयाक्षेपकादीन् करोति।
मरणं वा॥
श्लोक 20
प्राणः प्राणभृतां रक्तं तत्क्षयात् क्षीयतेऽनलः।
वर्धनं चानिलस्तस्माद्युक्त्या बृंहणमाचरेत्॥
श्लोक 21
अशुद्धं तु रक्तमपराह्णेऽन्येद्युर्वा पुनः स्रावयेत्।
ततोऽपि शेषं सर्वथा वाप्यविस्राव्यरक्तस्य शीतसेकप्रदेहविरेकोपवासस्निग्धमधुरान्नपानैः प्रसादयेत्।
मासमात्रं वा स्नेहादिभिरुपचर्य पुनर्विध्येत्।
दुर्व्यधातिव्यधकुटिततिर्यग्व्यधादेर्व्यधदोषाद्व्यापदो याः स्युस्ता यथास्वं साधयेदिति।
भवति चात्र॥
श्लोक 22
उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्।
दोषाः प्रदुष्टा रुधिरं प्रपन्नास्तावद्धिताहारविहारभाक् स्यात्॥
श्लोक 23
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्।
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः॥
श्लोक 24
प्रसन्नवर्णेन्द्रियमिन्द्रिथार्थानिच्छन्तमव्याहतपक्तृवेगम्।
सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति॥
इति षट्त्रिंशोऽध्यायः।