श्लोक 1
अथातो ग्रन्थ्यादिप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
सर्वेष्वेव पूर्वं ग्रन्थिषु बृहतीद्वयपिप्पलीचित्रकसाधितेन पुराणसपिंषा स्निग्धं वामयेत्।
विरेचयेच्च।
कृतसंसर्जनस्यचोत्तमाङ्गगतेषु ग्रन्थिषु लाक्षाद्विरजनीविडङ्गशुण्ठीपूतीदारुभिः शिरो विरेचयेत् धूमकवलगण्डूषांश्च स सेवेत॥
श्लोक 3
अङ्कोलमधुकमातुलुङ्गहिंस्रापूतीदारुबिल्वमूलसरलकुष्ठवचावरुण-त्वक्कालातिविषाजगन्धाभिर्लेपः।
श्यामासुरदारु समङ्गाकोशातकीपुनर्नवसर्षपैर्वा॥
श्लोक 4
सशोफरुक्स्तम्भे चोपनाहो यवसक्तुमधुककुष्ठशतपुष्पोदवदारुभिर्घृतयुक्तैः।
गोजाविखरोष्ट्राश्वहस्तिमूषीकमांसैर्वा वेशवारीकृतैर्वसातैलवद्भिः॥
श्लोक 5
पलाशवृन्ताग्निमन्थत्वक्कल्केन मांसपिण्डैर्वा।
बहुशः स्विन्नमङ्गुष्ठेन वेणुपर्वणा वा शनैश्शनैः पुनः पुनर्विमर्दयेत्। यथायथं च शोफवत् क्रियां प्रयुञ्जीत॥
श्लोक 6
अथ वातजे ग्रन्थौ दशमूलसिद्धं महास्नेहं पिबेत्।
अमृतानिम्बबीजभार्ङ्गीस्योनाकबाणतालपत्रीकृष्णगन्धागरुभिः क्षीरपिष्टैः सुखोष्णैर्लेपः।
विविधाश्च वातव्याधिविहिताः स्नेहस्वेदोपनाहाः।
तथानुपशमे सिराव्यधः॥
श्लोक 7
पक्वं तु विदार्य निरस्तपूयं कृत्वार्कादिवर्गाम्भसा प्रक्षाल्य तिलकल्केन सचित्रकसैन्धवेनालेपयेत्।
तैलं च रोपणं रास्नासरलोशीरविडङ्गमधुकक्षीरसंस्कृतं कुर्यात्॥
श्लोक 8
पित्तजे रक्तजे च जलौकसो न्यग्रोधादिः प्रदेहपरिषेकयोः पद्मकादिः पाने च द्राक्षेक्षुरसयुक्ता हरीतकी विरेकः।
पक्वे पाटिते च पित्तव्रणोक्तो विधिः॥
श्लोक 9
कफजमन्तश्शुद्धस्य भृशं स्वेदयेद्विम्लापयेच्च काकादनीविकङ्कतकाकनन्दिकारग्वधेङ्गुदमूलमदनफलभार्ङ्गीकरञ्जैर्लेपयेत्।
नागरविडङ्गैलावालुकचव्यपलाशवृन्तचित्रकैर्वा।
भल्लातसैन्धवाजगन्धासर्षषैर्वा॥
श्लोक 10
एवमप्यपच्यमानममर्मस्थं विदार्य स्थितरक्तं निश्शेषमग्निना दहेत्।
सशेषो हि पुनरापूर्यते।
ततो निर्वापितं क्षारक्षौद्रगुडोत्तरैरालेपैस्संशुद्धं रोपयेत्॥
श्लोक 11
मांसव्रणग्रन्थींश्चैवमेव यापयेत्।
मेदोजेप्ययमेव विधिः अपि च मेदोग्रन्थिं तिलकल्कदिग्धं द्विगुणपटान्तरितं तप्तेन फालेन दर्व्या वा जतुलिप्तया बहुशः प्रमृज्यात्।
शस्त्रं चावचार्य पूर्ववन्मेदो दहेत्।
सुपक्वं वा विपाट्य मूत्रप्रक्षालितं क्षौद्रसैन्धवसुवर्चिकाकाञ्चनक्षीरीहरितालमिश्रैः क्षीरबकप्रगाढैस्तिलैरालेपयेत्॥
श्लोक 12
गुञ्जाद्विकरञ्जतापसवृक्षवंशावलेखमूत्रसिद्धं तैलमभ्यङ्गः।
सम्यक्शुद्धं चैनं रोपयेत्॥
श्लोक 13
सिराग्रन्थौ त्वभिनवे तैलं साहचरं पिबेत् उपनाहञ्च वातहरैर्बस्तिकर्म च कुर्यात्।
सिराव्यधञ्च॥
श्लोक 14
वातार्बुदमैरण्डप्रियालनारिकेलमज्जोर्वारुकार्कोरुबीजोत्कारिकयोपनाहयेत्।
आनूपामिषवेशवारैर्वा।
नाडीस्वेदञ्च कुर्यात् बहुशश्चात्रशृङ्गेण रुधिरमवसेचयेत्।
वातहरवर्गक्काथपयोम्लसिद्धं त्रिवृतं पिबेत्॥
श्लोक 15
पित्तोत्थे मृदून् स्वेदोपनाहान् कायविरेचनञ्च प्रयोजयेत्।
शाककाकोदुम्बरिकापत्रघृष्टे च प्रियङ्गुपतङ्गसर्जरसार्जुनलोध्रमधुमधुकैर्लेपः।
श्यामाग्रिकर्णिकाञ्जनक्लीतनकनखद्राक्षासप्तलान्यतमरससाधितं सर्पिः पीतं पित्तार्बुदश्लीपदोदरघ्नम्॥
श्लोक 16
श्लेष्मजे तूर्ध्वमधश्च हृतदोषस्य स्रुतरक्तस्य च वमनविरेचनद्रव्यैः प्रलेपः।
काकादनीशुकबर्हाग्निजिह्वामूलदक्षकपोतगृध्रपुरीषकाशमूलैर्वा पलाशक्षीरपिष्टैः।
पिण्याककुलत्थनिष्पावैर्मांसप्रगाढैर्दधिपिष्टैर्लेपयेत्।
लेपास्वादलोभेन च निलीयमाना मक्षिकाः स मुपेक्षेत।
तद्विमुक्तैः कृमिभिरितरैर्वा भक्ष्यमाणञ्च।
ततः कृमिभक्षितावशेषं शाकादिपत्रैर्विलिख्याग्निनाप्रतिसारयत्।
अल्पमूलं वा त्रपुतास्रायःसीसपट्टकवेष्टितम्।
पुनः पुनश्च क्षारान् कालापेक्षया योजयेत्।
जात्यास्फोतकरवीरपल्लवांश्च व्रणशोधनाय कल्कादौ।
तैलञ्चात्र पाठाविडङ्गभार्ङ्गी त्रिफलाकषायसिद्धमभ्यञ्जनम्॥
श्लोक 17
मेदोर्बुदं स्विन्नभिन्नं सुशोधितमेदस्कमुपशान्तरक्तस्रावं सद्यःस्सीव्येत्।
ततो गृहधूमलोध्रमनश्शिलाहरिद्रापतङ्गचूर्णैर्मधुमाद्भिः प्रतिसारयेत्।
करञ्जतैलञ्चाभ्यञ्जनार्थे नियुञ्जीत।
सर्वार्बुदानि च यदृच्छया पर्यागतानि सुपरिशोधितानि रोपयेत्।
अपि च॥
श्लोक 18
सशेषदोषाणि तु योर्बुदानि करोति तस्याशु पुनर्भवन्ति।
तस्मादशेषोद्धरणं प्रशस्तं क्षारेण शस्त्रेण तथाग्निना वा॥
श्लोक 19
श्लीपदे तु वातात्मके स्नेहस्वेदोपनाहान् प्रयुज्य गुल्फस्योपरिष्टाद्व्यङ्गुले सिरां विध्येत्।
एरण्डतैलञ्च गोमूत्रेण मासं पिबेत्।
जीर्णे नागरक्वथितेन पयसा पुराणधान्यान्यश्नीयात्।
त्रिवृतञ्च पाययेत्।
बस्तिश्च प्रयुञ्जीत।
एवमप्यशाम्यत्याग्निना दहेत्॥
श्लोक 20
पैत्तिके मृदुरुपनाहो गुल्फस्याधः सिरामोक्षः पित्तार्बुदोक्ताः स्नेहविरेकाः पित्तघ्नाश्च लेपाः॥
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत्।
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत्।
यथाबलं वा हरीतकी वर्धमानाः॥
श्लोक 21
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत्।
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत्।
यथाबलं वा हरीतकी वर्धमानाः॥
श्लोक 22
आदारीकाकजंघाकाकादनीशुकनासाकदम्बपुष्पबृहतीद्वयमन्तर्धूमं दग्ध्वा गोमूत्रेण बहुशः परिस्रावयेत् ततस्तत् क्षारोदकं क्षारकल्पेन विपचेत्।
दद्याच्चात्र परतीवापं फल्गुशुकाख्या मदनफलरसं एष क्षारो मधुराहारेणाभ्यस्तः श्लीपदापचीग्रहणीदोषारोचकान् सर्वविषाणि च नियच्छति॥
श्लोक 23
तैलं वा पिबेद्विडङ्गार्कमरिचचित्रकशुण्ठीदेवदार्वेलावालुकलवणपञ्चकैस्सिद्धम्।
आलेपयेच्च नागरामृताविडङ्गकटुकाभद्रदारुभिर्मूत्रपिष्टैरूरुस्तम्भोक्तैश्च भेषजैर्यवान्नं च शीलयेत्॥
श्लोक 24
मण्डमालायां कुम्भनिकुम्भद्रवन्तीजीमूतककोशातकीफलविपक्वं घृतमुभयानुलोमनं पिबेत्।
शार्ङ्गेष्टामूलं वा तक्रपिष्टम्।
वमनार्थं सुखोदकेन वा जातीबर्हिष्ठनिर्गुण्डीजीमूतकोत्तुण्डकीमूलत्वक्चूर्णम्।
सिरा चास्य विध्येत्॥
श्लोक 25
सशेषदोषं तु कौष्ठिकं नवकं पाययेत्।
रसाञ्जनं गोमूत्रतण्डुलोदकान्यतरेण।
तदेव च नावयेत्।
मधूकसारं वा शिग्रुफलानि वा निम्बकरञ्जकरवीरसिद्धं वा तैलं वैरेचनिकञ्च धूमं पिबेत्॥
श्लोक 26
अपक्वांश्च गण्डान्नाकुलीसैन्धवनागरैर्लेपयेत्।
गुञ्जाकरवीरार्कश्यामासिद्धार्थकैरजामूत्रयुक्तैर्दशकृत्वा विपक्वं तैलं लवणपञ्चकपिप्पलीमरिचचूर्णो पेतमभ्यङ्गात्सर्वावस्थानपच्यर्शोर्बुदनाडीदुष्टव्रणवल्मीकानपोहति॥
श्लोक 27
सौवर्चलसैन्धवौद्भिददन्तीभल्लातकचित्रककल्केन सिद्धं तैलमभ्यङ्गोऽपच्याम्।
तण्डूलीयकस्वरसेन वा सनिर्गुण्डीरसं वा तैलं साधितमभ्यङ्गपाननावनैर्गण्डमालानाडीव्रणकुष्ठानिलार्तिहरम्॥
श्लोक 28
काकादनीनलिकाग्निजिह्वावन्ध्याकर्कोटकीविशालापाठोत्तुण्डकीजीमूतकोशातकीबीजैरर्द्धपलांशौर्विषकर्षयुक्तैर्निर्गुण्डीस्वरसोपेतं करञ्जतैलप्रस्थं विपचेत्तत्पूर्ववदेवप्रयुक्तं परमपचीघ्नम्॥
श्लोक 29
अमर्मजांश्च गण्डानपक्वानेवोद्भृत्याग्निना क्षारेण वा प्रसाधयेत्।
सर्षपवृक्षादनी क्वाथैर्व्रणक्षालनम्।
तिलकुन्तलक्ष्Aअरपिष्टस्तिलकल्कः सुखोष्णो लेपः।
काककृकलासगोधाहिनिर्मोककूर्माणामन्यतमस्यान्तर्धूमदग्धस्य मषीङ्गुदतैलप्लुताभ्यङ्गः।
मांसीसर्जरसकार्पासीफलसैन्धवैः स्तन्यपिष्टैस्तैलं विपक्वमभ्यङ्गो व्रणकाठिन्यघ्नः सर्पाजगरवसे तैलं च समं त्रयमेतदपचीघ्नम्।
श्लीपदोक्तानि च तैलानि प्रयोजयेत्॥
श्लोक 30
एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्रबस्तेरधः ऊर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा मत्स्याण्डजालनिभं मेदोपनीयाग्निना दहेत्।
अनेनेतरपार्श्वजाव्याख्याता।
एवमुभयपार्श्वजायामुब्भयतः।
यवमुद्गप्रायं च गण्डमालासु भोजनम्॥
श्लोक 31
नाडीमनिलजामुपनाह्य पूयगतिमस्या निश्शेषमोषित्वावदारयेच्छस्त्रेण।
ततस्तिलापामार्गफलकल्केन ससैन्धवेन पूरयित्वा बध्नीयात्॥
श्लोक 32
पित्तजां सघृतक्षीरया पद्मकादिकृतयोऽल्कारिकयोऽपनाहिताम्।
विदारितां च तिलनागदन्तीमञ्जिष्ठाकल्केन पूरयेत् श्यामात्रिभण्डीत्रिफलातिल्वकहरिद्राद्वयकल्कक्षीरसंस्कृतं सर्पिरभ्यङ्गः।
परं नाडीनिबर्हणम्॥
श्लोक 33
श्लेष्मजां सक्तुकुलत्थकिण्वसर्षपैरुपनाह्य विदार्य च निम्बतिलसैन्धवसौराष्ट्रीनिकुम्भैर्लेपयेत्।
दन्तीचित्रकस्वर्जिकासैन्धवतालीसनलदपूतीकापामार्गफलैस्तैलं समूत्रं पाचितमभ्यङ्गः॥
श्लोक 34
शल्यहेतुकीं पाटयित्वा सर्वशः शल्यं विशोध्य मधुघृततिलकल्कप्रतिच्छन्नां बध्नीयात्।
बिल्वकपित्थकुम्भीखर्जूरवनस्पतिशलाटुक्वाथे प्रियङ्गुमुस्तोरुपूगशकुनसुगन्धिकालोध्रमोचरसधातकीपुष्पगर्भं तैलं प्रसाधितं साधयत्याशु शल्यजां गतिम्॥
श्लोक 35
अशस्त्रकृत्यां नाड्यां भेदिन्यैषिण्यान्ते समुद्भिद्य क्षाराक्तं सूत्रं प्रवेशयेत्।
तदसन्निधानेत्वितरयैषिण्या च तेनानवदीर्णायां तदनुस्यूतमन्यदन्यत् क्षारसूत्रं सञ्चारयेदा गतिभेदादयमनपायोऽभ्युपायः।
सूक्ष्मानेकगतिषु भगन्दरेषु मूलेषु च छिद्रितेषु ग्रन्थ्यर्बुदेष्विति।
भवति चात्र॥
श्लोक 36
व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम्।
या वर्त्यो यानि तैलानि तन्नाडीष्वपि कल्पयेत्॥
श्लोक 37
विभीतकाम्रास्थिवटप्रवाल हरेणुकाशाल्मलिबीजयुक्ता।
वराहविष्ठा च मषी सुदग्धा तैलप्लुता सर्वगतीर्निहन्ति॥
श्लोक 38
धत्तूरकं मदनकोद्रवजञ्च बीजं कोशातकी शुकनसा मृगभोजनी च।
अङ्कोलजञ्च कुसुमं परिकल्प्य चूर्णं लाक्षोदकापहृतदोषगतौ प्रयोज्यम्॥
श्लोक 39
मिश्रितं तेन तैलञ्च परमं गतिरोपणम्।
सौवहेषु च कन्देषु कृतं वज्राह्वयेषु च॥
श्लोक 40
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च।
तैलं समार्कवरसैर्विनिहन्ति कृच्छ्रां नाडीं कफानिलकृतामपचीव्रणांश्च॥