श्लोक 1
अथातो जलौकोविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
नृपाढ्यभीरुसुकुमारबालस्थविरनारीणामसृग्विस्रावणाय जलौकसो योजयेत्॥
श्लोक 3
तास्तु द्विविधाः सविषा निर्विषाश्च।
तत्र दुष्टाम्बुसर्पमण्डूकमत्स्यादिशवकोथमूत्रपुरीषजा रक्तश्वेतातिकृष्णतनुस्थूलचपलपिच्छिलाः स्थूलमध्यरोमशाः शक्रायुधवद्विचित्रोर्ध्वराजीचिता वा सविषाः।
तद्दंशाद्दाहशोफपाककण्डूपिटकाविसर्पज्वरमूर्छश्वित्रोत्पत्तिः।
तत्र विषपित्तरक्तहरां क्रियां कुर्वीत।
पद्मोत्पलसौगन्धिकादिसुगन्धिविमलविपुलसलिलशैवालजाः शैवालश्यावा नीलोर्ध्वराजयो वृत्ताश्च निर्विषाः॥
श्लोक 4
सर्वासां च परं प्रमाणमष्टादशाङ्गुलानि।
तत्र चतुष्पञ्चषडङ्गुला नृषु योजयेत्।
गजवाजिष्वपराः।
तासु सुकुमारास्तनुत्वचोऽल्पशिरस्का बृहदधरकायाश्च स्त्रियः।
विपरीताः पुमांसोऽर्धचन्द्राकृतिपुरोवृत्ताश्च।
तत्र बहुदोषेषु चिरोत्थितेषु चामयेषु पुमांसो योजयितव्याः।
स्त्रियो विपरीतेषु।
जलौकसस्त्वार्द्रचर्माह्युपायैर्गृहीत्वा सुरभिपङ्कगर्भे नवे घटे स्थापयेत्।
शृङ्गाटककशेरुकशालूकशैवालमृणालवल्लूरमृत्स्नापुष्करबीजचूर्णं स्वादुशीतं स्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात्।
लालादिकोथपरिहारार्थमेवं च त्र्यहात् त्र्यहादूर्ध्वं पूर्वमन्नपानमपनीयान्यद्दद्यात्।
पञ्चाहाच्च तद्विध एव घटान्तरे ताः सञ्चारयेत्।
तासां तु दुष्टशोणितासम्यग्वमनात् प्रततपातनाच्च मूर्च्छा भवति।
तासामम्भोभिः पूर्णभाजनस्थानामचेष्टयाहारानभिलाषेण च ज्ञात्वा ता विवर्जयेत्।
इतरास्तु हरिद्रासर्षपकल्काम्भसि मुक्तपुरीषा अवन्तिसोमे तक्रे वा पुनराश्वासिता जले सुखोपविष्टस्य संविष्टस्य वा मृद्गोमयचूर्णाभ्यामनुसुखं विरूक्ष्य दंशदेशं योजयेत्।
अलगन्तीषु क्षीरघृतनवनीतरुधिरान्यतमबिन्दून् न्यसेत् प्रच्छेद्वा।
अश्वखुरवच्च वक्त्रं निवेश्योन्नतस्कन्धा दशन्ति।
यदा च शिशुवच्छ्वसन्त्यो शिरःस्पन्दोर्मिवेगैः पिबन्ति तदार्द्रवाससावच्छादयेत्।
सेचयेच्चाम्भसाल्पाल्पम्।
यथा च हंसः क्षीरोदकात् क्षीरमादत्ते।
तद्वदुत्क्लिष्टे रक्ते जलौकाः प्राग् दुष्टमसृक्।
यदा च तद्दंशे तोदः कण्डूर्वा तदा शुद्धरक्तरक्षणार्थमपनयेत्।
लौल्याच्च दंशममुञ्चन्त्याः क्षौद्रं लवणचूर्णं वा मुखे दद्यात्॥
श्लोक 5
पतितां तु तण्डुलकण्डनोपदिग्धगात्रां तैललवणाभ्यक्तमुखीं आपुच्छादामुखमनुलोमं शनैः पीडयन् सम्यग्वामयेत्।
ततः पूर्ववत् सन्निदध्यात्।
सप्तरात्रं च ताः पुनर्न पातयेत्।
अशुद्धे तु रक्ते मधुना गुडेन वा दंशात् किञ्चिदवघट्टयन् स्रावयेत्।
स्रुतरक्तस्य च सद्यो दंशं शीताभिरद्भिः प्रक्षाल्य सर्पिःपिचुनावगुण्ठयेत्।
स्थितरक्तं चोत्क्लिष्टशोणितशेषप्रसादनाय कषायमधुरशिशिरैः सघृतैः प्रदेहैः प्रदिह्यात्॥
श्लोक 6
तत्र योगादीन् सिराव्यधवदुपलक्षयेत्।
प्रतिकुर्वीत च।
दुष्टरक्तापगमात् श्वयथुशैथिल्यं दाहरागशूलोपशमश्च।
रक्तपित्तेन दुष्टमलाबुघटिकाभ्यां न निर्हरेदग्निसंयोगाद्वातकफाभ्यां च दुष्टं निर्हरेत्।
तथा कफेन न शृङ्गेण स्कन्नत्वात्।
वातपित्ताभ्यां तु दुष्टं निर्हरेत्।
अथ प्रच्छाद्याङ्गं तनुवस्त्रपटलावनद्धप्रान्तेन शृङ्गेणाचूषेत्।
तथा प्रदीप्तापिचुगर्भाभ्यामलाबुघटिकाभ्यामिति।
भवन्ति चात्र श्लोकाः॥
श्लोक 7
गात्रं बध्वोपरिदृढं रज्ज्वा पट्टेन वा समम्।
स्नायुसन्ध्यस्थिमर्माणि त्यजन्प्रच्छानमाचरेत्॥
श्लोक 8
अधोदेशप्रविसृतैः पदैरुपरिगामिभिः।
न गाढघनतिर्यग्भिर्न पदे पदमाच्रेत्॥
श्लोक 9
प्रच्छानेनैकदेशस्थं सुप्तं शृङ्गादिभिर्हरेत्।
ग्रथितं तु जलौकोभिरसृग्व्यापि सिराव्यधैः॥
श्लोक 10
प्रच्छानं पिण्डिते वास्यादवगाढे जलौकसः।
त्वक्स्थेऽलाबुघटीशृङ्गं सिरैव व्यापकेऽसृजि।
वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात्॥
श्लोक 11
स्रुतासृजः प्रदेहाद्यः शीतैः स्याद्वायुकोपतः।
सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्॥
इति पञ्चत्रिंशोऽध्यायः।