श्लोक 1
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगामलाः।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात् स्मृतः॥
श्लोक 3
दोषासृङ्मांसमेदोस्थिसिराव्रणभवा नव।
तत्रवातादायामतोदभेदान्वितोऽसितः॥
श्लोक 4
स्थानात् स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्।
मृदुर्बस्तिरिवानद्धो विभिन्नोच्छं स्रवत्यसृक्॥
श्लोक 5
पित्तात् सदाहपीताभो रक्तो वा पच्यते द्रुतम्।
भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः।
शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेत् घनम्॥
श्लोक 6
दोषैर्दुष्टेसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु।
सिरामांसं च संश्रित्य सस्वापः पैत्तलक्षणः॥
श्लोक 7
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्।
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्॥
श्लोक 8
प्रवृद्धं सेदुरैर्मेदो नीतं मांसेऽथ वा त्वचि।
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम्॥
श्लोक 9
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्।
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्॥
श्लोक 10
आस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत्।
सोस्थिग्रन्थिः पदातेस्तु सहसाम्भोवगाहनात्॥
श्लोक 11
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्।
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च।
निस्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः॥
श्लोक 12
अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः।
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथ वा॥
श्लोक 13
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्।
कुर्यात् सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः॥
श्लोक 14
साध्या दोषास्रमेदोजा न तु स्थूलखराश्चलाः।
मर्मकण्ठोदरस्थाश्च महत्तुग्रन्थितोर्बुदम्॥
श्लोक 15
तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्।
प्रायो मेदःकफाढ्यत्वात् स्थिरत्वाच्च न पच्यते॥
श्लोक 16
सिरास्थं शोणितं दोषः सङ्कोच्यानुप्रपीड्य च।
पाचयेच्च तदानद्धं सास्रावं मांसपिण्डितम्॥
श्लोक 17
मांसाङ्क्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः।
अजस्रं दुष्टरुधिरं भूरि तच्छोणितर्बुदम्॥
श्लोक 18
तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत्॥
श्लोक 19
प्रस्थिता वङ्क्षणोर्वादिमधःकायं कफोल्बणाः।
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते।
शनैः शनैर्घनं शोफं श्लीपदं तं प्रचक्षते॥
श्लोक 20
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्।
रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम्॥
श्लोक 21
कफात् गुरुस्निग्धमरुक्चितं मांसाङ्कुरैर्बृहत्॥
श्लोक 22
तत्त्यजे द्वत्सरातीतं सुमहत्सपरिस्रुति॥
श्लोक 23
पाणिनासौष्ठकर्णेषु वदन्त्यन्ये तु पादवत्।
श्लीपदं जायते तच्च देशेऽनूपे भृशं भ्रमात्॥
श्लोक 24
मेदस्थाः कण्ठमन्याक्षकक्षवङ्क्षणगा मलाः।
सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्॥
श्लोक 25
अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते।
पच्यन्तेल्परुजस्तेन्ये स्रवन्त्यन्येतिकण्डुराः।
नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः॥
श्लोक 26
गण्डमालापची चेयं दूर्वेव क्षयवृद्धिभाक्।
तां त्यजेत् सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्॥
श्लोक 27
अभेदात् पक्वशोफस्य व्रणे चापथ्यसेविनः।
अनुप्रविश्य मांसादीन् दूरं पूयोभिधावति॥
श्लोक 28
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः।
नाड्येकानृजुरन्येषां सैवानेकगतिर्गतिः॥
श्लोक 29
सा दोषैःपृथगेकस्थैः शल्यहेतुश्च पञ्चमी॥
श्लोक 30
वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा।
स्रवत्यभ्यधिकं रात्रौ पित्तात्तृङ्ज्वरदाहकृत्।
पीतोष्णपूतिपूयस्रुग्दिवा चाति निषिञ्चति॥
श्लोक 31
घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्।
निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत्॥
श्लोक 32
अन्तःस्थितं शल्यमनाहृतं तु करोति नाडीं वहते च सास्य।
फेनानुविद्धं तनुमल्पमुष्णं सास्र च पूयं सरुजं च नित्यम्॥
॥इति चतुर्त्रिंशोऽध्यायः॥