श्लोक 1
अथातो यन्त्रशस्त्रविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
मनःशरीराबाधकराणि शल्यानि।
तेषां नानाविधानां शल्यानां नानादेशनिविष्टानामाहरणेऽभ्युपायो यन्त्राण्यर्शोभगन्दरादिषु शस्त्रक्षाराग्न्यवचारणे शेषाङ्गरक्षणे च।
तथा बस्तिप्रणयनादौ शृङ्गालाबुघटिकादयो जाम्बवौष्ठादीनि।
अन्यान्यपि चानेकरूपाण्यनेककर्माणि स्वस्थातुरोपकरणानि।
अतः कर्मवशात्तेषामियत्तावधारणमशक्यम्॥
श्लोक 3
अन्ये पुनरेकोत्तरं यन्त्रशतमित्याचक्षते।
इह पुनः समासतः षोढा निर्दिश्यन्ते।
तद्यथा स्वस्तिकसन्दंशतालनाडीशलाकाख्यान्यनुयन्त्राणि च॥
श्लोक 4
तत्र स्वस्तिकयन्त्राणि कङ्कसिंहगृध्रकुररादिविविधव्यालमुखान्याकारानुगताभिधानानि प्रायशो लौहान्यष्टादशाङ्गुलानि।
मसूराकारप्रान्तैः कण्ठे कीलैरवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाण्यस्थिविनष्टशल्योद्धरणार्थानि।
तेषां सिंहव्याघ्रभुजङ्गमकरादिमुखानि दृश्यवारङ्गेषु शल्येषु प्रयोजयेत्।
इतरेषु तु यथायोगं व्रणाकारानुरोधेन कङ्ककाककुररादिमुखानि॥
श्लोक 5
सनिबन्धनो निर्निबन्धनश्च षोडशाङ्गुलौ सन्दंशौ द्वौ भवतः।
तौ त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते।
तथान्यः सन्दंशः षडङ्गुलोऽर्धाङ्गुलविस्तृतो वक्रद्विबाहुरङ्गुष्ठाङ्गुलिप्रान्तसमागमाकृतिः सूक्ष्मशल्याक्षिपक्ष्मव्रणाधिमांसाहरणे॥
श्लोक 6
तद्वच्च मुचुटी।
सा तु सूक्ष्मदन्तर्जुर्द्विभुजा मूले रुचकनद्धा वलयपीडनात् छिन्नार्मशेषगम्भीरव्रणाधिमांसाहरणे॥
श्लोक 7
तालयन्त्रे अपि द्वे द्वादशाङ्गुले मत्स्यगलतालकवदेकतालकद्वितालके कर्णनाडीशल्याहरणार्थे॥
श्लोक 8
नाडीयन्त्राणि सुषिराण्यनेकप्रकाराण्यनेकप्रयोजनान्येनकतोमुखान्येकतोमुखानि च भवन्ति।
स्रोतोगतशल्यदर्शनार्थमाहरणार्थं क्रियासौकर्यार्थमाचूषणार्थं चेति।
तानि स्रोतोद्वारपरिणाहानि तथायोगप्रदीर्घाणि च कुर्यात्॥
श्लोक 9
कण्ठशल्यदर्शनार्थं नाडीं दशाङ्गुलायतां पञ्चाङ्गुलपरिणाहां द्विकर्णस्य तु वारङ्गस्य सङ्ग्रहार्थं त्रिच्छिद्रमुखां नाडीं तत्प्रमाणतः कुर्यात्।
तथा चतुष्कर्णस्य पञ्चच्छिद्रमुखाम्।
शल्यनिर्घातिनीं तु पद्मकर्णिकाकारशीर्षां द्वादशाङ्गुलां त्र्यङ्गुलसुषिराम्॥
श्लोक 10
आर्शोयन्त्रं त्रिविधम्।
ताम्रायोहैमं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं हस्ततलायतमेकं पञ्चाङ्गुलानि परिणाहेन पुंसां षङ्गुलानि स्त्रीणाम्।
द्विच्छिद्रं दर्शनार्थमेकच्छिद्रं कर्मणि।
तथा हि सुखेन दर्शनं शस्त्रक्षाराग्न्यनतिक्रमश्च।
छिद्रं तु त्र्यङ्गुलायतमङ्गुष्ठोदरविस्तारम्। यदङ्गुलमवशिष्टं तस्याधोऽर्धाङ्गुलमुपरि तथार्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकम्।
तृतीयं तु तादृशमेव शम्याख्यं पार्श्वच्छिद्ररहितं पीडनार्थम्।
भगन्दरे तु छिद्रादूर्ध्वमोष्ठमपनीय कुर्वीत।
तद्वच्च घ्राणार्शोऽर्बुदयन्त्रं नाड्याकारं द्व्यङ्गुलायतमेकच्छिद्रं प्रदेशिनीपरीणाहम्॥
श्लोक 11
तथाङ्गुलीत्राणकमङ्गुलीप्रवेशितं किञ्चित्स्थूलवृत्तौष्ठमूर्ध्वाधश्छिद्रं गोस्तनाकृति चतुरङ्गुलं दान्तं शार्ङ्गं वार्क्षं वा।
तद्दृढेन सूत्रेण मणिबन्धप्रतिबद्धमास्यविस्रावणे योज्यम्॥
श्लोक 12
योनिव्रणदर्शने यन्त्रं षोडशाङ्गुलम्।
मध्ये सुषिरं चतुर्भित्तं चतुश्शलाकं सञ्चारिण्यामुद्रयोर्ध्वं निबद्धमुत्पलमुकुलवक्त्रं मूले शलाकाक्रमणादूर्ध्वविकासि च।
नाडीव्रणप्रक्षालनाभ्यञ्जनयन्त्रे षडङ्गुले बस्तियन्त्राकारे मुखतोऽकर्णिके मूलमुखयोरङ्गुष्ठकलायप्रवेशस्रोतसी।
दकोदरे नाडीमुभयतोद्वारां पिच्छनाडीं वा युञ्ज्यात्।
स्नेहबस्त्युत्तरबस्तिप्रधमनधूममूत्रवृद्धिनिरुद्धमणिप्रभृतिषु यथास्वमेव यन्त्राण्युक्तानि॥
श्लोक 13
शृङ्गं तु ह्रस्वमध्यदीर्घमष्टादशद्वादशाङ्गुलायतं त्र्यङ्गुलप्रवेशमुखमग्रे सर्षपोपलच्छिद्रं तनुचर्मनद्धं चूचुकाकारमुखं च।
तद्वातविषरक्ताम्बुदुष्टस्तन्यचूषणार्थम्।
श्लेष्मरक्ताचूषणार्थस्त्वलाबुः।
स द्वादशाङ्गुलदीर्घोऽष्टादशाङ्गुलपरिणाहस्त्रिचतुरङ्गुलवृत्तसमुच्छ्रितमुखः परिवेष्टितदीप्तकुशबल्वजपिचुगर्भश्च प्रयोज्यः।
तद्वदेव च मानकर्माभ्यां घटी।
सा तु गुल्मोन्नमनविलयनार्थं च॥
श्लोक 14
शलाकायन्त्राण्यपि नानाकृतीनि नानार्थानि यथायोगं दैर्घ्यपरिणाहानि च भवन्ति।
तेषामेषणकर्मणी द्वे गण्डूपदमुखे।
स्रोतोगतशल्याहरणार्थेऽष्टाङ्गुलनवाङ्गुले द्वे मसूरदलमुखे।
षट् शङ्कवः।
तेषां व्यूहनक्रियौ द्वादशषोडशाङ्गुलौ द्वावहिफणामुखौ।
तथा चालनार्थे दशद्वादशाङ्गुलौ शरपुङ्खमुखौ।
आहरणार्थे बडिशमुखौ।
तथा गर्भशङ्कुः शङ्कुतुल्योऽष्टादशाङ्गुलः प्रणताग्रो मूडगर्भाहरणे।
तथा सर्पफणावदेवाग्रवक्रं तदाख्यमश्मर्याहरणार्थम्।
तथा दन्तनिर्घातनं चतुरङ्गुलं शरपुङ्खमुखं स्थूलवृत्तप्रान्तम्॥
श्लोक 15
षट् कार्पासकृतोष्णीषाणि विविधव्रणक्लेदक्षारप्रमार्जनक्रियासु।
तेषामपि दूरासन्नघ्राणव्रणोपयोगिनी षट् सप्ताङ्गुले द्वे।
पायौ दशद्वादशाङ्गुले।
कर्णशोधनं स्रुवमुखमश्वत्थपत्राग्रम्।
तथा क्षाराग्निकर्मार्थे जाम्बवोष्ठानि द्वादशाष्टाङ्गुलानि क्रमाद्व्यङ्गुलाङ्गुलार्द्धाङ्गुलफलानि॥
श्लोक 16
शलाकाश्च स्थूलसूक्ष्मदीर्घह्रस्वमध्याः।
आन्त्रवृद्धौ त्वर्धेन्दुवक्रा मध्योर्ध्वनिर्गतशलाकाः।
दहने नासार्शोऽर्बुदयोः कोलास्थिदलमात्रमुखा वेल्लितौष्ठा।
क्षारविषौषधप्रणिधानाय च दर्व्यस्तिस्रोऽष्टाङ्गुला दर्व्याकाराः कनिष्ठिकानामिकामध्यमाङ्गुलिनखपरिमाणनिम्नमुखास्तथाञ्जलिसंस्थानाः।
उत्तरबस्त्यञ्जनादिषु यथायथमेवोपदिष्टानि॥
श्लोक 17
अनुयन्त्राण्ययस्कान्तरज्जुचर्मान्त्रवस्त्राश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तमुखशाखानखबालाश्वकालपाकहर्षभयानि॥
श्लोक 18
एतानि देहे सर्वस्मिन् देहस्यावयवेऽपि वा।
सन्धौ कोष्ठधमन्यां च यथायोगं प्रयोजयेत्॥
श्लोक 19
यन्त्रकर्माणि तु निर्घातनपूरणबन्धनव्यूहनपरिवर्तनचालनविवरणपीडनमार्गशोधनविकर्षणाहरणव्यथनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणौजूकरणप्रक्षालनप्रधमनाञ्जनप्रमार्जनानि बाहुल्येनचतुर्विंशतिर्भवन्ति॥
श्लोक 20
विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्।
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च॥
श्लोक 21
शस्त्राणि तु षड्विंशतिर्भवन्ति।
तद्यथा दन्तलेखनमण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्तरीसर्पवक्त्रकरपत्रकुशापत्राटीमुखान्तर्मुखशरारीमुखत्रिकूर्चकुठारिकाव्रीहिमुखशलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकूर्चखजैषिणीबडिशनखशस्त्राणि चेति।
प्रायश्च तानि षडङ्गुलानि सुध्मातावर्तितायोघटितान्युत्पलपत्रनीलानि सुग्रहाणि सुरूपाणि सुधाराणि सुसमाहितमुखाग्राण्यकरालानि प्रत्येकं च प्रायो द्वित्राणि स्वप्रमाणार्धचतुर्थभागफलानि।
तानि व्याधिदेशवशात् प्रयुञ्जीत।
तेषां नामभिरेवाकृतयः प्रायेण यन्त्रवद्व्याख्याताः॥
श्लोक 22
तत्र त्रयमाद्यं लेखने।
वृद्धिपत्रादीनि त्रीणि पाटने।
चत्वारि भेदने।
मण्डलाग्रादीन्यष्टौ छेदने।
कुशपत्रादीनि पञ्च प्रच्छाने।
कुठारिकादीनि षट् व्यधने।
तेषामाराव्रीहिमुखे भेदने छेदने च।
सूच्यः सीवने।
सूचीकूर्चः कुट्टने।
खजो मथने।
एषिण्येषणे भेदने च।
बडिशो ग्रहणे।
नखशस्त्रमुद्धरणे।
छेद्यभेद्यलेख्यप्रच्छानेषु च।
इति द्वादशाविधे शस्त्रकर्मण्युपयोगः॥
श्लोक 23
विशेषतस्तु दन्तलेखनं सुप्रबन्धवच्चतुरस्रमेकधारं दन्तशर्करालेखने।
मण्डलाग्रं प्रदेशिन्यन्तर्नखविस्तृतफलं तल्लेखनच्छेदनयोर्वर्त्मरोगोत्सन्नदन्तमांसदुर्निविष्टव्रणगलशुण्डिकादिषु प्रयोज्यम्॥
श्लोक 24
वृद्धिपत्रं क्षुराकारं तत्तून्नते गम्भीरे वा श्वयथावृजुसूच्यग्रमिष्टम्।
विपरीते तु पृष्ठतोऽवनतधारम्॥
श्लोक 25
अङ्गुलिशस्त्रकं मुद्रिकानिर्गतमुखं वृद्धिपत्रमण्डलाग्राध्यर्धधारान्यतमतुल्यार्धाङ्गुलायतधारं प्रदेशिनीप्रथमपर्वप्रमाणार्पणवृत्तमुद्रिकं दृढसूत्रप्रतिबन्धं कण्ठरोगेषु प्रयुज्यते॥
श्लोक 26
कर्तरी त्रिभागपाशा व्रणस्नायुकेशसूत्रच्छेदनार्था।
सर्पवक्त्रं वक्रमर्धाङ्गुलफलं घ्राणकर्णार्शोऽर्बुदच्छेदनार्थम्।
करपत्रं दशाङ्गुलं द्व्यङ्गुलविस्तारं सूक्ष्मदन्तं खरधारं सुत्सरुनिबद्धमस्थिच्छेदनार्थम्।
कुशपत्राटीमुखे द्व्यङ्गुलफले।
अन्तर्मुखमर्धचन्द्राकारमध्यर्धाङ्गुलफलम्॥
श्लोक 27
कुठारिका पृथुदण्डा गोदन्ताकारा अर्धाङ्गुलफलास्थ्याश्रितसिराव्यधार्था।
व्रीहिमुखमध्यर्धाङ्गुलफलं मांसलप्रदेशसिराव्यधार्थं वर्ध्मोदरगुल्मविद्रध्यादिव्यधनभेदनार्थं च।
शलाकोभयतोमुखी कुरबकमुकुलाग्रा ताम्रमयी लिङ्गनाशव्यधनार्था॥
श्लोक 28
आरा चतुरस्रार्धाङ्गुलवृत्तमुखा तावत्प्रवेशा बहलकर्णपालीव्यथार्था पक्वामशोफसन्देहभेदनार्था च।
कर्णव्यधनं त्र्यङ्गुलायतमङ्गुलसुषिरं घनं यूथिकामुकुलाग्रम्॥
श्लोक 29
सूच्यस्तिस्रो वृत्ता निगूढदृढपाशाः।
तत्र मांसलेष्ववकाशेषु त्र्यङ्गुला त्र्यस्रा।
सन्ध्यस्थिव्रणेष्वल्पमांसेषु च द्व्यङ्गुला वृत्ता पक्वामाशययोर्मर्मसु च सार्धद्व्यङ्गुला धनुर्वक्रा व्रीहिमुखा च॥
श्लोक 30
सूचीकूर्चो वृत्तैकमूलोऽग्रे सुनिबद्धसप्ताष्टसूचिकः कुष्टश्वित्रव्यङ्गेन्द्रलुप्तसुप्तादिषु।
खजस्त्वर्धाङ्गुलायताष्टकण्टकमुखस्ताम्रो लौहो वा नासाभ्यन्तरगतशोणितमोक्षणार्थः।
एषण्या द्वे सुश्लक्ष्णस्पर्शे तयोरेकाष्टाङ्गुला गतिकोथशल्यस्राववत्सु व्रणेषु सुषिरान्वेषणे।
अन्या सूचीसंस्थाना क्षाराक्तसूत्रप्रतिबद्धा नाडीनां भगन्दरगतीनां च भेदने।
बडिशोऽत्यवनतमुखः सूचीतीक्ष्णाग्रो ग्रहणे गलशुण्डिकार्मादेः।
नखशस्त्रमष्टाङ्गुलमेकतोऽश्वकर्णमुखमन्यतो वत्सदन्तमुखं सूक्ष्मशल्योद् वृतौ॥
श्लोक 31
अणुशस्त्राणि तु जलौकःक्षाराग्निसूर्यकान्तकाचस्फटिककुरुचिन्दनखशाकशोफालिकादिखरपत्रसमुद्रफेनशुष्कगोमयादीनि।
स्वबुद्ध्या च विकल्प्य विविधानि यन्त्रशस्त्राणि तत्कर्माणि चोपकल्पयेत्।
हस्त एव चात्र प्रधानतमस्तदधीनत्वाद्यन्त्रशस्त्राणाम्॥
श्लोक 32
तत्र दीर्घह्रस्वस्थूलतनुवक्रविषमग्राह्यग्राहिशिथिलता इत्यष्टौ यन्त्रदोषाः।
अत्राद्याः पञ्च कुण्ठखण्डखरधाराश्चेत्यष्टावेव शस्त्रदोषाः।
अन्यत्र करपत्रात्॥
श्लोक 33
तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेषु उदकेन मांसच्छेदनेषु।
तैलेन पाटनभेदनेषु सिराव्यधस्नायुच्छेदनेषु च प्रयुञ्जीत॥
श्लोक 34
धारा पुनः छेदनानां मासूरी लेखनानामर्धमासूरी।
व्यधनानां विस्रावणानां च कैशिकी॥
श्लोक 35
तेषां छेदनभेदनलेखनानि वृन्तसाधारणे भागे प्रदेशिनीमध्यमाङ्गुष्ठैः सुसमाहितो गृह्णीयात्।
वृन्ताग्रे विस्रावणानि प्रदेशिन्यङ्गुष्ठाङ्गुलीभ्याम्।
हस्ततलप्रच्छादितवृन्ताग्रं व्रीहिमुखं मुखे।
मूलेष्वाहरणार्थानि।
पाशस्योपरि मध्ये लघुसन्दंशं कर्तरीं च।
शेषाण्यपि यथायोगं क्रियासौकर्येण॥
श्लोक 36
निशातनी तु तेषां सुश्लक्ष्णा शिला माषमुद्गप्रभा।
धारासंस्थापनं च शाल्मलीफलकम्॥
श्लोक 37
न चाधिगतशास्त्रोप्यकृतयोग्यः सुबहुशो वाप्यदृष्टकर्मा शस्त्रकर्माणि प्रवर्त्तेत।
सिरास्नायुमर्मादिव्याप्तत्वाद्देहस्य।
तस्मात् सरोमचर्मपुष्पफलालाबुत्रपुसोदकपङ्कपूर्णदृतिबस्तिवर्ध्ममांसपेशिकोत्पलनालादिषु यथार्हमाहरणादियोग्यां कुर्यात्।
तथा घटपार्श्वस्रोतस्यम्भोभिः पूर्णेन नेत्रेण बस्तिपीड्Aनयोग्याम् मृदुमांसखण्डेष्वग्निक्षारावचरणयोग्याम्।
पुस्तमयपुरुषाङ्गप्रत्यङ्गेषु बन्धनयोग्याम्।
अपि च॥
श्लोक 38
युक्तकारी भिषग् बुभूषुः पुरुषं संपूर्णगात्रमविषहतमदीर्घव्याधिपीडितं निष्कृष्टदृष्टान्त्रमावहन्त्यामापगायां मुञ्जबल्बजवेष्टितं पञ्जरस्थमप्रकाशे देशे कोथयेत्।
तं सम्यक्प्रकुथितं चोद्घृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैश्शनैरवघृष्य त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गसिरास्नाय्वादीनवयवानाचार्योपदर्शितेनागमेन चक्षुषा च लक्षयेत्॥
श्लोक 39
इति शास्त्रेण यद्दृष्टं दृष्टं प्रत्यक्षतश्च यत्।
समागतं तदुभयं भूयो ज्ञानं विवर्धयेत्॥
श्लोक 40
स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः।
क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः॥
श्लोक 41
विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः।
शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः॥
इति चतुस्त्रिंशोऽध्यायः।