अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 33

श्लोक 1

स्त्री-व्यवाय-निवृत्तस्य सहसा भजतो ऽथ-वा ।
दोषाध्युषित-संकीर्ण-मलिनाणु-रजः-पथाम् ॥ १ ॥

श्लोक 2

स्त्रीं व्यवाय-निवृत्तस्य अन्य-योनिम् अन्-इच्छन्तीम् अ-गम्यां नव-सूतिकाम् ।
दूषितं स्पृशतस् तोयं रतान्तेष्व् अपि नैव वा ॥ २ ॥

श्लोक 3

विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः ।
मुष्टि-दन्त-नखोत्पीडा-विष-वच्-छूक-पातनैः ॥ ३ ॥

श्लोक 4

विष-वल्-लूक-पातनैः वेग-निग्रह-दीर्घाति-खर-स्पर्श-विघट्टनैः ।
दोषा दुष्टा गता गुह्यं त्रयो-विंशतिम् आमयान् ॥ ४ ॥

श्लोक 5

खर-स्पर्शादि-घट्टनैः -खर-शष्पादि-घट्टनैः जनयन्त्य् उपदंशादीन् उपदंशो ऽत्र पञ्च-धा ।
पृथग् दोषैः स-रुधिरैः समस्तैश् चात्र मारुतात् ॥ ५ ॥

श्लोक 6

जनयन्त्य् अवदंशादीन् अवदंशो ऽत्र पञ्च-धा मेढ्रे शोफो रुजश् चित्राः स्तम्भस् त्वक्-परिपोटनम् ।
पक्वोदुम्बर-संकाशः पित्तेन श्वयथुर् ज्वरः ॥ ६ ॥

श्लोक 7

मेढ्र-शोफो रुजश् चित्राः श्लेष्मणा कठिनः स्निग्धः कण्डू-माञ् छीतलो गुरुः ।
शोणितेनासित-स्फोट-संभवो ऽस्र-स्रुतिर् ज्वरः ॥ ७ ॥

श्लोक 8

सर्व-जे सर्व-लिङ्ग-त्वं श्वयथुर् मुष्कयोर् अपि ।
तीव्रा रुग् आशु-पचनं दरणं कृमि-संभवः ॥ ८ ॥

श्लोक 9

दारणं कृमि-संभवः याप्यो रक्तोद्भवस् तेषां मृत्यवे संनिपात-जः ।
जायन्ते कुपितैर् दोषैर् गुह्यासृक्-पिशिताश्रयैः ॥ ९ ॥

श्लोक 10

अन्तर् बहिर् वा मेढ्रस्य कण्डूला मांस-कीलकाः ।
पिच्छिलास्र-स्रवा योनौ तद्-वच् च च्छत्त्र-संनिभाः ॥ १० ॥

श्लोक 11

ते ऽर्शांस्य् उपेक्षया घ्नन्ति मेढ्र-पुंस्-त्वं भगार्तवं ।
गुह्यस्य बहिर् अन्तर् वा पिटिकाः कफ-रक्त-जाः ॥ ११ ॥

श्लोक 12

मेढ्र-पुंस्-त्व-भगार्तवं मेढ्रं पुंसो भगार्तवं सर्षपा-मान-संस्थाना घनाः सर्षपिकाः स्मृताः ।
पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश् च याः ॥ १२ ॥

श्लोक 13

सो ऽवमन्थः कफासृग्भ्यां वेदना-रोम-हर्ष-वान् ।
कुम्भीका रक्त-पित्तोत्था जाम्बवास्थि-निभाशु-जा ॥ १३ ॥

श्लोक 14

जाम्बवास्थि-निभा-शुभा अलजीं मेह-वद् विद्याद् उत्तमां पित्त-रक्त-जाम् ।
पिटिकां माष-मुद्गाभां पिटिका पिटिकाचिता ॥ १४ ॥

श्लोक 15

उत्तमां रक्त-पित्त-जाम् कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा ।
पाणिभ्यां भृश-संव्यूढे संव्यूढ-पिटिका भवेत् ॥ १५ ॥

श्लोक 16

मृदितं मृदितं वस्त्र-संरब्धं वात-कोपतः ।
विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता ॥ १६ ॥

श्लोक 17

मृदितं मृदितं यत् तु मृदितं मृदितं वस्तु संरब्धं वात-कोपतः विमर्दनादि-दुष्टेन वायुना चर्म मेढ्र-जम् ।
निवर्तते स-रुग्-दाहं क्व-चित् पाकं च गच्छति ॥ १७ ॥

श्लोक 18

क्व-चित् पाकं न गच्छति पिण्डितं ग्रन्थितं चर्म तत् प्रलम्बम् अधो मणेः ।
निवृत्त-संज्ञं स-कफं कण्डू-काठिन्य-वत् तु तत् ॥ १८ ॥

श्लोक 19

पिण्डितं ग्रन्थितं तच् च विप्रलम्बम् अधो मणेः प्रविलम्बम् अधो मणेः दुर्-ऊढं स्फुटितं चर्म निर्दिष्टम् अवपाटिका ।
वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ॥ १९ ॥

श्लोक 20

दुः-सहं स्फुटितं चर्म मणौ सक्तं रुणद्धि तत् स्रोतो मूत्रं ततो ऽभ्येति मन्द-धारम् अ-वेदनम् ।
मणेर् विकाश-रोधश् च स निरुद्ध-मणिर् गदः ॥ २० ॥

श्लोक 21

लिङ्गं शूकैर् इवापूर्णं ग्रथिताख्यं कफोद्भवम् ।
शूक-दूषित-रक्तोत्था स्पर्श-हानिस् तद्-आह्वया ॥ २१ ॥

श्लोक 22

छिद्रैर् अणु-मुखैर् यत् तु मेहनं सर्वतश् चितम् ।
वात-शोणित-कोपेन तं विद्याच् छत-पोनकम् ॥ २२ ॥

श्लोक 23

पित्तासृग्भ्यां त्वचः पाकस् त्वक्-पाको ज्वर-दाह-वान् ।
मांस्-पाकः सर्व-जः सर्व-वेदनो मांस-शातनः ॥ २३ ॥

श्लोक 24

स-रागैर् असितैः स्फोटैः पिटिकाभिश् च पीडितम् ।
मेहनं वेदना चोग्रा तं विद्याद् असृग्-अर्बुदम् ॥ २४ ॥

श्लोक 25

मांसार्बुदं प्राग् उदितं विद्रधिश् च त्रि-दोष-जः ।
कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ॥ २५ ॥

श्लोक 26

पक्वानि संनिपातेन तान् विद्यात् तिल-कालकान् ।
मांसोत्थम् अर्बुदं पाकं विद्रधिं तिल-कालकान् ॥ २६ ॥

श्लोक 27

चतुरो वर्जयेद् एषां शेषाञ् छीघ्रम् उपाचरेत् ।
विंशतिर् व्यापदो योनेर् जायन्ते दुष्ट-भोजनात् ॥ २७ ॥

श्लोक 28

विषम-स्थाङ्ग-शयन-भृश-मैथुन-सेवनैः ।
दुष्टार्तवाद् अपद्रवैर् बीज-दोषेण दैवतः ॥ २८ ॥

श्लोक 29

दुष्टार्तवाद् उपद्रवैर् योनौ क्रुद्धो ऽनिलः कुर्याद् रुक्-तोदायाम-सुप्त-ताः ।
पिपीलिका-सृप्तिम् इव स्तम्भं कर्कश-तां स्वनम् ॥ २९ ॥

श्लोक 30

पिपीलिका-गतिम् इव फेनिलारुण-कृष्णाल्प-तनु-रूक्षार्तव-स्रुतिम् ।
स्रंसं वङ्क्षण-पार्श्वादौ व्यथां गुल्मं क्रमेण च ॥ ३० ॥

श्लोक 31

ऊरु-वङ्क्षण-पार्श्वादौ भृशं वङ्क्षण-पार्श्वादौ तांस् तांश् च स्वान् गदान् व्यापद् वातिकी नाम सा स्मृता ।
सैवाति-चरणा शोफ-संयुक्ताति-व्यवायतः ॥ ३१ ॥

श्लोक 32

तांस् तांश् च स्व-गदान् व्यापद् तांस् तान् स्वांस् स्वान् गदान् व्यापद् मैथुनाद् अति-बालायाः पृष्ठ-जङ्घोरु-वङ्क्षणम् ।
रुजन् संदूषयेद् योनिं वायुः प्राक्-चरणेति सा ॥ ३२ ॥

श्लोक 33

वेगोदावर्तनाद् योनिं प्रपीडयति मारुतः ।
सा फेनिलं रजः कृच्छ्राद् उदावृत्तं विमुञ्चति ॥ ३३ ॥

श्लोक 34

वेगेनावर्तनाद् योनिं उदावर्तं विमुञ्चति उदावर्त्य विमुञ्चति इयं व्यापद् उदावृत्ता जात-घ्नी तु यदानिलः ।
जातं जातं सुतं हन्ति रौक्ष्याद् दुष्टार्तवोद्भवम् ॥ ३४ ॥

श्लोक 35

इयं व्यापद् उदावर्ता अत्य्-आशिताया विषमं स्थितायाः सु-रते मरुत् ।
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ॥ ३५ ॥

श्लोक 36

सास्थि-मांसं मुखं तीव्र-रुजम् अन्तर्-मुखीति सा ।
वातलाहार-सेविन्यां जनन्यां कुपितो ऽनिलः ॥ ३६ ॥

श्लोक 37

रुजं वक्र-मुखीति सा स्त्रियो योनिम् अणु-द्वारां कुर्यात् सूची-मुखीति सा ।
वेग-रोधाद् ऋतौ वायुर् दुष्टो विण्-मूत्र-संग्रहम् ॥ ३७ ॥

श्लोक 38

करोति योनेः शोषं च शुष्काख्या साति-वेदना ।
षड्-अहात् सप्त-रात्राद् वा शुक्रं गर्भाशयान् मरुत् ॥ ३८ ॥

श्लोक 39

वमेत् स-रुङ् नी-रुजो वा यस्याः सा वामिनी मता ।
योनौ वातोपतप्तायां स्त्री-गर्भे बीज-दोषतः ॥ ३९ ॥

श्लोक 40

वमेत् स-रुङ् नी-रुजो वा ह्य् यस्यां सा वामिनी मता अस्यां सा वामिनी मता नृ-द्वेषिण्य् अ-स्तनी च स्यात् षण्ढ-संज्ञान्-उपक्रमा ।
दुष्टो विष्टभ्य योन्य्-आस्यं गर्भ-कोष्ठं च मारुतः ॥ ४० ॥

श्लोक 41

कुरुते विवृतां स्रस्तां वातिकीम् इव दुःखिताम् ।
उत्सन्न-मांसां ताम् आहुर् महा-योनिं महा-रुजाम् ॥ ४१ ॥

श्लोक 42

यथा-स्वैर् दूषणैर् दुष्टं पित्तं योनिम् उपाश्रितम् ।
करोति दाह-पाकोषा-पूति-गन्धि-ज्वरान्विताम् ॥ ४२ ॥

श्लोक 43

पूति-गन्ध-ज्वरान्विताम् -पूति-गन्धां ज्वरान्विताम् भृशोष्ण-भूरि-कुणप-नील-पीतासितार्तवाम् ।
सा व्यापत् पैत्तिकी रक्त-योन्य्-आख्यासृग्-अति-स्रुतेः ॥ ४३ ॥

श्लोक 44

कफो ऽभिष्यन्दिभिः क्रुद्धः कुर्याद् योनिम् अ-वेदनाम् ।
शीतलां कण्डुलां पाण्डु-पिच्छिलां तद्-विध-स्रुतिम् ॥ ४४ ॥

श्लोक 45

सा व्यापच् छ्लैष्मिकी वात-पित्ताभ्यां क्षीयते रजः ।
स-दाह-कार्श्य-वैवर्ण्यं यस्याः सा लोहित-क्षया ॥ ४५ ॥

श्लोक 46

यस्यां सा लोहित-क्षया पित्तलाया नृ-संवासे क्षवथूद्गार-धारणात् ।
पित्त-युक्तेन मरुता योनिर् भवति दूषिता ॥ ४६ ॥

श्लोक 47

शूना स्पर्शा-सहा सार्तिर् नील-पीतास्र-वाहिनी ।
वस्ति-कुक्षि-गुरु-त्वातीसारा-रोचक-कारिणी ॥ ४७ ॥

श्लोक 48

श्रोणि-वङ्क्षण-रुक्-तोद-ज्वर-कृत् सा परिप्लुता ।
वात-श्लेष्मामय-व्याप्ता श्वेत-पिच्छिल-वाहिनी ॥ ४८ ॥

श्लोक 49

उपप्लुता स्मृता योनिर् विप्लुताख्या त्व् अ-धावनात् ।
संजात-जन्तुः कण्डूला कण्ड्वा चाति-रति-प्रिया ॥ ४९ ॥

श्लोक 50

अ-काल-वाहनाद् वायुः श्लेष्म-रक्त-विमूर्छितः ।
कर्णिकां जनयेद् योनौ रजो-मार्ग-निरोधिनीम् ॥ ५० ॥

श्लोक 51

सा कर्णिनी त्रिभिर् दोषैर् योनि-गर्भाशयाश्रितैः ।
यथा-स्वोपद्रव-करैर् व्यापत् सा सांनिपातिकी ॥ ५१ ॥

श्लोक 52

इति योनि-गदा नारी यैः शुक्रं न प्रतीच्छति ।
ततो गर्भं न गृह्णाति रोगांश् चाप्नोति दारुणान् ॥ ५२ ॥

श्लोक 

असृग्-दरार्शो-गुल्मादीन् आबाधांश् चानिलादिभिः ॥ ५२ऊअब् ॥
̆ब्व् आबाधाश् चानिलादिभिः