श्लोक 1
अथातो भगन्दरप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
हस्त्यश्वपृष्ठगमनकठिनोत्कटकासनैः।
अर्शोनिदानाभिहितैरपरैश्च निषेवितैः॥
श्लोक 3
अनिष्टदिष्टपाकेन सद्यो वा साधुगर्हणैः।
प्रायेण पिटकापूर्वो योङ्गुले द्व्यङ्गुलेपि॥
श्लोक 4
पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत्।
बस्तिमूत्राशयाभ्याशगतत्वात् स्यन्दनात्मकः॥
श्लोक 5
भगबस्तिगुदान्तेषु दीर्यमाणेषु भूरिभिः।
वातं मूत्रं शकृच्छुक्रं खैः सूक्ष्मैर्वहति क्रमात्॥
श्लोक 6
दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः॥
श्लोक 7
अपक्वं पिटकामाहुः पाकप्राप्तं भगन्दरम्॥
श्लोक 8
गूढमूलां ससंरम्भां रूदाढ्यां रूढकोपिनीम्।
भगन्दरकरीं विद्यात् पिटकां नत्वतोन्यथा॥
श्लोक 9
तत्र श्यावारुणा तोदभेदस्फुरणरुक्वरी।
पिटका मारुतात्
श्लोक 10
पित्तादुष्ट्रग्रीवावदुच्छ्रिता।
रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता॥
श्लोक 11
स्थिरा स्निग्धा महामूला पाण्डुःकण्डूमती कफात्॥
श्लोक 12
श्यावाताम्रा सदाहोषा घोररुग्वातपित्तजा॥
श्लोक 13
पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात्॥
श्लोक 14
पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा।
शूलारोचकतृङ्दाहज्वरच्छार्दिरुपद्रुता॥
श्लोक 15
व्रणतां यान्ति ताः पक्वाः प्रमादात् तत्र वातजा।
चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत् क्रमात्।
अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम्॥
श्लोक 16
शतपोनकसंज्ञोऽयं उष्ट्रग्रीवस्तु पित्तजः॥
श्लोक 17
बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः॥
श्लोक 18
वातपित्तात् परिक्षेपी परिक्षिप्य गुदं गतिः।
जायते परितस्तत्र प्राकारं परिखेव च॥
श्लोक 19
ऋजुर्वातकफादृज्व्या गुदो गत्यावदीर्यते॥
श्लोक 20
कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः।
अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत्॥
श्लोक 21
स शीघ्रं पक्वभिन्नोस्य क्लेदयन् मूलमर्शसः।
स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः॥
श्लोक 22
सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः।
गतयो दारयन्त्यस्मिन् रुग्वेगैर्दारुणैर्गुदम्॥
श्लोक 23
अस्थिलेशोऽभ्यवहृतो मांसगृध्या यदा गुदम्।
क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं च ततो गतिः॥
श्लोक 24
स्यात्तदा पूयदीर्णायां मांसकोथेन तत्र च।
जायन्ते कृमयस्तेऽस्य खादन्तः परितो गुदम्।
विदारयन्ति न चिरादुन्मार्गी क्षतजश्च सः॥
श्लोक 25
तेषु रुग्दाहकण्ड्वादीन् विद्याद्व्रणविभक्तितः॥
श्लोक 26
षट् कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत्।
प्रवाहिणीं बलीं प्राप्तं सेवनीं वा समाश्रितम्॥
श्लोक 27
अथ भगन्दारिणमपक्वपिटकं पाकपरिहाराथमपतर्पणेन व्रणप्रतिषेधविहितेन शीघ्रमुपाचरेत्॥
श्लोक 28
पक्वपिटकं पुनरुपस्निग्धमर्कादिक्वाथशुद्धं स्वभ्यक्तमवगाहस्विन्नं भुक्तवन्तं शयनस्थमर्शसमिव यन्त्रयित्वा पराचीनमर्वाचीनं बहिर्मुखमन्तर्मुखं वा भगन्दरं सम्यगीक्षेत॥
श्लोक 29
ततोऽन्तर्मुखे यन्त्रं प्राणिधाय प्रवाहणप्रविष्टं भगन्दरमभिसमीक्ष्य सम्यगेषित्वा शस्त्रेण पाटयेत्।
बहिर्मुखेत्वेषाणीं प्रणिधाय साशयमुद्धरेच्छस्त्रेणानन्तरं चोऽभयमप्यग्निना क्षारेण चोपत्रमेत उष्ठग्रीवं तु क्षारेणैव॥
श्लोक 30
ततो निर्वापणशोधनरोपणैर्यथाकालं साधयोदिति सामान्यो विधिः॥
श्लोक 31
अथ शतपोनके नाडीरेकान्तरिताः पाटयित्वा रोपयेत्।
रूढासु चेतराश्चिकित्सेत्।
अन्यथा तु विवृत्तं व्रणं गुदस्रोतोविदारणाद्वातविण्मूत्राण्यनुप्रपद्यन्ते।
ततश्चोन्मार्गगो वायुराध्मानाटोपपायुशूलादीनुपजनयति।
तत्र स्नेहाभ्यक्तगुदस्य स्निग्धान् पिण्डनाडीकुम्भीस्वेदान् प्रयुञ्जीतावगाहं वा।
स्विन्नं च वच हिंगुकुष्ठव्योषलवणपञ्चकाजमोदान् सर्पिर्मद्याकाञ्जिककुलत्थयूषान्यतमेन पाययेत्।
व्रणं चास्य मधुकतैलेनोष्णेन सिञ्चेत्।
गुदं च बलातैलादिभिर्वातघ्नैः।
अनेन विधिना वाय्वादयः स्वमार्गमापतन्ति।
तत्कृताश्च विकारा निवर्तन्ते॥
श्लोक 32
एवमेव च परिक्षेपिण्यामपि क्रमात् गतिं नाडीविहितेन क्षारसूत्रेण द्विशस्त्रिशोवावदारयेत्।
सकृदेवह्यवदरणादसाध्यता याप्यता वा स्यात्॥
श्लोक 33
अर्शोभगन्दरे पूर्वमर्शांसि च्छिन्द्यात् ततो गत्यनुसारेण भगन्दरम्॥
श्लोक 34
उन्मार्गिणं तु प्रत्याख्यायोपाचरेत्।
अनिस्सृतं च शल्यमाहरेत्।
तथा कृमिघ्नं क्रममालेपाभ्यवहारयोः कुर्वीत।
वेदनायां तु पूर्वोक्ताः स्वेदाः।
वचादिपाचनं च।
साल्वलप्रदिग्धं वा व्रणं कदलीमृगलोपाकाजिनकौशेयाविकैरुपनाहयेदिति।
भवति चात्र॥
श्लोक 35
भगन्दरे बहुच्छिद्रे छेदानालोच्य योजयेत्।
गोतीर्थं सर्वतोमद्रमर्धलाङ्गललाङ्गलौ॥
श्लोक 36
पार्श्वागतेनशस्त्रेण छेदो गोतीर्थको मतः।
सर्वतः सर्वतोभद्रः पार्श्वच्छेदोर्धलाङ्गलः॥
श्लोक 37
पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत्।
आस्रावमार्गान् निश्शेषं नैवं विकुरुते पुनः॥
श्लोक 38
यतेत् कोष्ठशुध्यै च भिषक् तस्यान्तरान्तरा॥
श्लोक 39
आर्द्रकस्य रसे सिद्धं कल्के वा पाययेत् घृतम्।
भगन्दरे मारुतजे पक्वापक्वे विरेचयेत्॥
श्लोक 40
ज्योतिष्मतीलाङ्गलिकाश्यामादन्तीत्रिवृत्तिलाः।
कुष्ठं शतह्वा गोलोमी तिल्वको गिरिकर्णिका।
हेमक्षीरी च वर्गोयं लेपाद्यैर्व्रणशोधनः॥
श्लोक 41
तिलकुम्भवरादन्ती तुत्थसिन्धूत्थमाक्षिकम्।
सकृष्णरोचनाकुष्ठं शोधनं मांसकृत् पुनः॥
श्लोक 42
मञ्जिष्ठासैन्धवक्षौद्रनागदन्तीत्रिवृत्तिलाः।
रसाञ्जनद्विरजनीतेजोह्वानिम्बपल्लवाः॥
श्लोक 43
निकुम्भकुम्भरक्ताह्वकल्को नाडीव्रणापहः॥
श्लोक 44
सुधाशेलुत्रिवृत्पाठामलयूहयमारकैः।
ज्योतिष्मतीलाङ्गलिका स्वर्जिकार्कवचाग्निकैः।
विष्यन्दनाख्यं विपचेत्तैलं शोधनरोपणम्॥
श्लोक 45
त्रिवृद्दन्तीहरिद्रार्कमूललोहाश्वमारकैः। विडङ्गसारत्रिफलास्नुगर्कक्षीरमाक्षिकैः।
तैलं समदनैः सिद्धं भगन्दरनिर्वहणम्॥
श्लोक 46
सैन्धवार्कत्रिवृत्पाठासमङ्गपूतिकाग्निकैः।
समातुलुङ्गच्छदनैस्तैलंशोधनरोपणम्॥
श्लोक 47
मधुतैलयुता विडङ्गसारत्रिफलामागधिकोषणाश्च लीढा कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणाभवन्ति॥
श्लोक 48
अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलका निगुग्गुलुः।
क्रमवृद्धमिदं मधुप्लुतं पिटकास्थौल्यभगन्दरान् जयेत्॥
श्लोक 49
गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक् स्यात्।
त्वक्त्रुटिकर्षयुतं मधुलीढं कुष्ठभगन्दरगुल्मगतिघ्नम्॥
श्लोक 50
शृङ्गवेररजोयुक्तं तदेव च सुभावितम्।
क्वाथेन दशमूलस्य विशेषाद्वातरोगजित्॥
श्लोक 51
उत्तमा खदिरसारजं रजः शीलयन्नसनवारिभावितम्।
हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटकाभगन्दरान्॥
श्लोक 52
भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि।
व्रणाधिकारात् परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात्॥
श्लोक 53
अश्वपृष्ठगमनं चलरोधं मद्यमैथुनमजीर्णमसात्म्यम्।
साहसानि विविधानि च रुढे वत्सरं परिहरेदधिकं वा॥
॥इति त्रयस्त्रिंशोऽध्यायः॥