अष्टाङ्गसंग्रहः सूत्रस्थानम् त्रयत्रिंशोऽध्यायः

श्लोक 1

अथातस्तर्पणपुटपाकविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

यन्नयनं परिताम्यति परिसुष्कं रूक्षं स्तब्धं जिह्मं निम्नमाविलमवनद्धं शीर्णपक्ष्म तथा कृच्छ्रोन्मीलसिरोत्पातसिराहर्षर्जुनशुष्कतिमिराभिष्यन्दाधिमन्थान्यतोवातवातपर्ययशुष्काल्पशोफादिरोगातुरमपगतरागाश्रुदूषिकावेदनं तत्र तर्पणं योजयेत्।
न त्वशान्तोपद्रवेऽक्ष्णि नातिशीतोष्णवर्षदुर्दिने न नस्यानर्हेषु च।
तद्वत् पुटपाकमपि॥

श्लोक 3

अथ दिवसस्याष्टमे भागे गते शेषे वा निवातातपरयोधूमे कृतनीलपीतान्यतरयवनिके वेश्मनि जीर्णभक्तस्य सुखशयनगतस्य उत्तानस्य मृदितमाषपिष्टकल्केन नेत्रकोशाद् बहिर्द्व्यङ्गुलोच्छ्रायाधारौ परिमण्डलावसम्बादौ समावपरिस्राविणौ कृत्वा तत्रोष्णोदकप्रविलीनं निमीलिते नेत्रे यथास्वौषधविपक्वं क्षीरं सर्पिः सर्पिर्मण्डं वावसेचयेत्।
यावन्निमग्नान्यक्षिपक्ष्माणि भ्रूरोमाणि च।
ततः शनैरस्योन्मेषमाचरतो मात्रां गणयेत्।
वर्त्मजेषु विकारेषु शतं सन्धिजेषु त्रीणि शुक्लजेषु पञ्च कृष्णजेषु सप्त दृष्टिजेष्वष्टौ सहस्रमधिमन्थेषु।
प्रतिदोषं तु वाते सहस्रं पित्ते षट् शतानि कफे पञ्च स्वस्थकर्मणि च॥

श्लोक 4

ततोऽस्यापाङ्गदेशे शलाकया द्वारं कृत्वा स्नेहं भाजने स्रावयेत्।
आधारौ चापनीय यवकल्केनाक्षिकोशौ प्रमृज्य स्नेहेरितकफोपशान्तये यथार्हं धूमं पाययेत्।
सुखोदकप्रक्षालितमुखं चैनं यथाव्याधि भोजयेत्।
आतपाकाशभास्वद्दर्शनानि च परिहरेत्॥

श्लोक 5

अनेन विधिना प्रत्यहं वायावेकान्तरं रक्तपित्तयोद्र्व्यन्तरं कफे स्वस्थे च।
यथादोषोत्कर्षं संसर्गसन्निपातयोः।
एवमेकाहं त्र्यहं पञ्चाहं वा कुर्यादातृप्तेर्वा।
तृप्तातृप्तातितृप्तलिङ्गानि तु क्रमात् स्वास्थ्यवातकफविकारैरादिशेत्॥

श्लोक 6

यदा तु सम्यग्योगप्राप्तं तर्पणं भवति तदा तद्विधेष्वेव रोगेषु पुटपाकं विदध्यात्।
स त्रिविधः।
स्नेहनो लेखनः प्रसादनश्च॥

श्लोक 7

तत्र स्नेहनमानूपसाधारणमांसमेदोमज्जवसाभिः तथा स्वादुद्रव्यैश्च क्षीरपिष्टै रूक्षेऽक्ष्णि प्रयोजयेत्॥

श्लोक 8

लेखनं जाङ्गलमृगपक्षिमांसयकृद्भिर्मुक्ताप्रवालशङ्खताम्रायस्समुद्रफेनकासीसस्रोतोजसैन्धवादिभिश्च लेखनद्रव्यैर्दधिमस्तुमधुपिष्टैः स्निग्धे॥

श्लोक 9

प्रसादनीयं तु जाङ्गलमृगपक्षियकृद्धृदयमज्जवसाभिर्मधुरद्रव्यैश्च स्त्रीस्तन्यक्षीराज्यपिष्टैः।
स तु वातपित्तरक्तदृष्टिदौर्बल्यव्रणनाशनः कफविरुद्धः॥

श्लोक 10

अथ बिल्वमात्रं वेशवारीकृतं मांसपिण्डं तन्मात्रेणैवौषधपिण्डेन संसृज्यैरण्डवटोत्पलपत्रैः स्नेहनादिषु क्रमाद्वेष्टयित्वा कुशमुञ्जसूत्रान्यतमेन बध्नीयात्।
मृत्प्रलेपनं चात्र द्व्यङ्गुलोत्सेधं कृत्वा धवधन्वमधूकन्यग्रोधकाश्मर्यराजादनार्जुननक्तमालपाटलीना मन्यतमैः काष्ठैः शकृता वा गोमहिषयोः पचेत्।
अग्निवर्णं चैनमपनीय विगतमृत्सूत्रपत्रं कृत्वा वस्त्रेण पीडयेत्।
तेन रसेन सायं तर्पणवत् पूरयेन्नेत्रे।
धारयेच्च स्नेहने शतद्वयं मात्राणां लेखने शतं प्रसादने त्रीणि शतानि॥

श्लोक 11

तप्रणवदेव धूमपानं प्रसादनवर्ज्यम्।
सुखोष्णौ च पूर्वौ।
शीतः प्रसादनः।
पुटपाकस्त्वेकाहं द्व्यहं त्र्यहं वा योज्यः।
द्विगुणश्च तर्पणपुटपाकयोः परिहारः।
बद्धाक्षैश्च मालतीमल्लिकाकुसुमैर्निवसेत्।
तथा पक्वातिसारेऽपि पुटपाकस्यायमेव विधिरिति।
भवति चात्र श्लोकः॥

श्लोक 12

सेकेऽञ्जने तर्पणे च पुटपाके च ये गदाः।
जायेरन् विधिविभ्रंशाद्यथास्वं तान् प्रसाधयेत्॥
इति त्रयस्त्रिंशोऽध्यायः॥