अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 32

श्लोक 1

विस्रावयेज् जलौकोभिर् अ-पक्वाम् अजगल्लिकाम् ।
स्वेदयित्वा यव-प्रख्यां विलयाय प्रलेपयेत् ॥ १ ॥

श्लोक 2

दारु-कुष्ठ-मनोह्वालैर् इत्य् आ-पाषाण-गर्दभात् ।
विधिस् तांश् चाचरेत् पक्वान् व्रण-वत् साजगल्लिकान् ॥ २ ॥

श्लोक 3

लोध्र-कुस्तुम्बुरु-वचाः प्रलेपो मुख-दूषिके ।
वट-पल्लव-युक्ता वा नारिकेलोत्थ-शुक्तयः ॥ ३ ॥

श्लोक 4

लोध्र-कुस्तुम्बुरु-वचा- प्रलेपो मुख-दूषिके अ-शान्तौ वमनं नस्यं ललाटे च सिरा-व्यधः ।
निम्बाम्बु-वान्तो निम्बाम्बु-साधितं पद्म-कण्टके ॥ ४ ॥

श्लोक 5

पिबेत् क्षौद्रान्वितं सर्पिर् निम्बारग्वध-लेपनम् ॥ ५अब् ॥
निम्बारग्वध-लेपनः विवृतादींस् तु जालान्तांश् चिकित्सेत् सेरिवेल्लिकान् ॥ ५च्द् ॥
चिकित्सेद् इरिवेल्लिकाम् पित्त-विसर्प-वत् तद्-वत् प्रत्याख्यायाग्नि-रोहिणीम् ॥ ५एf ॥

श्लोक 6

विलङ्घनं रक्त-विमोक्षणं च विरूक्षणं काय-विशोधनं च ।
धात्री-प्रयोगाञ् छिशिर-प्रदेहान् कुर्यात् सदा जालक-गर्दभस्य ॥ ६ ॥

श्लोक 7

विरूक्षणं काय-विरेचनं च धात्री-प्रदेहाञ् छिशिर-प्रयोगान् विदारिकां हृते रक्ते श्लेष्म-ग्रन्थि-वद् आचरेत् ।
मेदो-ऽर्बुद-क्रियां कुर्यात् सु-तरां शर्करार्बुदे ॥ ७ ॥

श्लोक 8

प्रवृद्धं सु-बहु-च्छिद्रं स-शोफं मर्मणि स्थितम् ।
वल्मीकं हस्त-पादे च वर्जयेद् इतरत् पुनः ॥ ८ ॥

श्लोक 9

वर्जयेद् इतरं पुनः शुद्धस्यास्रे हृते लिम्पेत् स-पट्व्-आरेवतामृतैः ।
श्यामा-कुलत्थिका-मूल-दन्ती-पलल-सक्तुभिः ॥ ९ ॥

श्लोक 10

स-पट्व्-आरग्वधामृतैः पक्वे तु दुष्ट-मांसानि गतीः सर्वाश् च शोधयेत् ।
शस्त्रेण सम्यग् अनु च क्षारेण ज्वलनेन वा ॥ १० ॥

श्लोक 11

शस्त्रेणोत्कृत्य निः-शेषं स्नेहेन कदरं दहेत् ।
निरुद्ध-मणि-वत् कार्यं रुद्ध-पायोश् चिकित्सितम् ॥ ११ ॥

श्लोक 12

शस्त्रेणोद्धृत्य निः-शेषं चिप्यं शुद्ध्या जितोष्माणं साधयेच् छस्त्र-कर्मणा ।
दुष्टं कु-नखम् अप्य् एवं चरणाव् अलसे पुनः ॥ १२ ॥

श्लोक 13

धान्याम्ल-सिक्तौ कासीस-पटोली-रोचना-तिलैः ।
स-निम्ब-पत्त्रैर् आलिम्पेद् दहेत् तु तिल-कालकान् ॥ १३ ॥

श्लोक 14

मषांश् च सूर्य-कान्तेन क्षारेण यदि वाग्निना ।
तद्-वद् उत्कृत्य शस्त्रेण चर्म-कील-जतू-मणी ॥ १४ ॥

श्लोक 15

लाञ्छनादि-त्रये कुर्याद् यथासन्नं सिरा-व्यधम् ।
लेपयेत् क्षीर-पिष्टैश् च क्षीरि-वृक्ष-त्वग्-अङ्कुरैः ॥ १५ ॥

श्लोक 16

न्यच्छादि-त्रितये कुर्याद् व्यङ्गेषु चार्जुन-त्वग् वा मञ्जिष्ठा वा स-माक्षिका ।
लेपः स-नव-नीता वा श्वेताश्व-खुर-जा मषी ॥ १६ ॥

श्लोक 17

व्यङ्गेषु वार्जुन-त्वग् वा रक्त-चन्दन-मञ्जिष्ठा-कुष्ठ-लोध्र-प्रियङ्गवः ।
वटाङ्कुरा मसूराश् च व्यङ्ग-घ्ना मुख-कान्ति-दाः ॥ १७ ॥

श्लोक 18

द्वे जीरके कृष्ण-तिलाः सर्षपाः पयसा सह ।
पिष्टाः कुर्वन्ति वक्त्रेन्दुम् अपास्त-व्यङ्ग-लाञ्छनम् ॥ १८ ॥

श्लोक 19

क्षीर-पिष्टा घृत-क्षौद्र-युक्ता वा भृष्ट-निस्-तुषाः ।
मसूराः क्षीर-पिष्टा वा तीक्ष्णाः शाल्मलि-कण्टकाः ॥ १९ ॥

श्लोक 20

स-गुडः कोल-मज्जा वा शशासृक्-क्षौद्र-कल्कितः ।
सप्ताहं मातुलुङ्ग-स्थं कुष्ठं वा मधुनान्वितम् ॥ २० ॥

श्लोक 21

कुष्ठं वा मधुकान्वितम् पिष्टा वा छाग-पयसा स-क्षौद्रा मौसली जटा ।
गोर् अस्थि मुसली-मूल-युक्तं वा साज्य-माक्षिकम् ॥ २१ ॥

श्लोक 22

जम्ब्व्-आम्र-पल्लवा मस्तु हरिद्रे द्वे नवो गुडः ।
लेपः स-वर्ण-कृत् पिष्टं स्व-रसेन च तिन्दुकम् ॥ २२ ॥

श्लोक 23

उत्पलम् उत्पल-कुष्ठं प्रियङ्गु-कालीयकं बदर-मज्जा ।
इदम् उद्वर्तनम् आस्यं करोति शतपत्त्र-संकाशम् ॥ २३ ॥

श्लोक 24

उत्पल-पत्त्रं तगरं करोति शतपत्त्रकाकारम् एभिर् एवौषधैः पिष्टैर् मुखाभ्यङ्गाय साधयेत् ।
यथा-दोषर्तुकान् स्नेहान् मधुक-क्वाथ-संयुतैः ॥ २४ ॥

श्लोक 25

यवान् सर्ज-रसं लोध्रम् उशीरं मदनं मधु ।
घृतं गुडं च गो-मूत्रे पचेद् आ-दर्वि-लेपनात् ॥ २५ ॥

श्लोक 26

उशीरं चन्दनं मधु तद् अभ्यङ्गान् निहन्त्य् आशु नीलिका-व्यङ्ग-दूषिकान् ।
मुखं करोति पद्माभं पादौ पद्म-दलोपमौ ॥ २६ ॥

श्लोक 27

नीलिका-व्यङ्ग-दूषकान् कुङ्कुमोशीर-कालीय-लाक्षा-यष्ट्य्-आह्व-चन्दनम् ।
न्यग्रोध-पादांस् तरुणान् पद्मकं पद्म-केसरम् ॥ २७ ॥

श्लोक 28

स-नीलोत्पल-मञ्जिष्ठं पालिकं सलिलाढके ।
पक्त्वा पादावशेषेण तेन पिष्टैश् च कार्षिकैः ॥ २८ ॥

श्लोक 29

लाक्षा-पत्तङ्ग-मञ्जिष्ठा-यष्टीमधुक-कुङ्कुमैः ।
अजा-क्षीरं द्वि-गुणितं तैलस्य कुडवं पचेत् ॥ २९ ॥

श्लोक 30

अजा-क्षीर-द्वि-गुणितं नीलिका-पलित-व्यङ्ग-वली-तिलक-दूषिकान् ।
हन्ति तन् नस्यम् अभ्यस्तं मुखोपचय-वर्ण-कृत् ॥ ३० ॥

श्लोक 31

मञ्जिष्ठा शबरोद्भवस् तुबरिका लाक्षा हरिद्रा-द्वयं ॥ ३१अ ॥
नेपाली हरिताल-कुङ्कुम-गदा गो-रोचना गैरिकम् ॥ ३१ब् ॥
नेपाली हरिताल-कुङ्कुम-गदं गो-रोचना गैरिकम् पत्त्रं पाण्डु वटस्य चन्दन-युगं कालीयकं पारदं ॥ ३१च् ॥
पत्तङ्गं कनक-त्वचं कमल-जं बीजं तथा केसरम् ॥ ३१द् ॥

श्लोक 32

सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरि-वृक्षाम्बु चाग्नौ ।
सिद्धं सिद्धं व्यङ्ग-नील्य्-आदि-नाशे वक्त्रे छायाम् ऐन्दवीं चाशु धत्ते ॥ ३२ ॥

श्लोक 33

मार्कव-स्व-रस-क्षीर-तोयानीष्टानि नावने ।
प्रसुप्तौ वात-कुष्ठोक्तं कुर्याद् दाहं च वह्निना ॥ ३३ ॥

श्लोक 

तोय-पिष्टानि नावने उत्कोठे कफ-पित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥ ३३ऊअब् ॥