अष्टाङ्गसंग्रहः उत्तरस्थानम् 32

श्लोक 1

अथातो भङ्गप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

पतनपीडनप्रहाराक्षेपणव्यालदंशनप्रभृतिभिरभिघातविशेषैरनेकविध-मस्थिभङ्गमुपदिशन्ति॥

श्लोक 3

तत्तुभङ्गजातं द्व्यधिष्ठानं सन्धावसन्धौ च।
तत्र सन्धिमुक्तं षड्विधमुत्पिष्टं विश्लिष्टमवक्षिप्तमतिक्षिप्तं तिर्यक्क्षिप्तं विवर्तितमिति॥

श्लोक 4

तस्य सामान्यलक्षणं प्रसारणाकुञ्चन विवर्तनाक्षेपणाशक्तिरुग्ररुजता स्पर्शासहिष्णुत्वं च॥

श्लोक 5

अथोत्पिष्टे स्वस्थान एव सन्धावुभयतः शोफो वेदना विशेषतश्च रात्रौ भवति।
विश्लिष्टेल्पशोफो वेदनासातत्यं सन्धिविक्रिया च।
अवक्षिप्ते सन्धिविश्लेषस्तीव्रा च रुक्।
अतिक्षिप्ते द्वयोरपि सन्ध्यस्थ्नोरतिक्रान्तता वेदना च।
तिर्यक् क्षिप्तेत्वेकस्यास्थ्नः पार्श्वतो गमनमत्यर्थं वेदना च।
विवर्तिते सन्धिपार्श्वगमनाद्विषमाङ्गता वेदना च॥

श्लोक 6

असन्धिभग्नं पुनर्द्वादशविधम्।
तद्यथा।
कर्कटकं वक्रं स्थुटितं वेल्लितमस्थिच्छल्लिकाश्वकर्णं पिच्चितं दारितं चूर्णितमतिपातितं शेषितं मज्जानुगतमिति॥

श्लोक 7

श्वयथुबाहुल्यं स्पन्दनं विवर्तनं स्पर्शासहिष्णुता च पीड्यमाने शब्दः स्रस्ताङ्गता वेदनातिप्रवृत्तिः सर्वासु चावस्थासु शर्म न लभत इति साधारणमसन्धिभग्नरूपम्॥

श्लोक 8

वैशेषिकं तु संव्यूढमुभयतोस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकानुकारि कर्कटकम्॥

श्लोक 9

आभुग्नमविमुक्तमस्थि वक्रम्।
शूकपूर्णमिवाध्मातं विपुलैकदारि स्फुटितम्॥

श्लोक 10

द्विधाभूतं वेल्लते प्रकम्पमानं वेल्लितकम्॥

श्लोक 11

पार्श्वतोऽस्थि हीनमुद्गतमस्थिच्छल्लिका॥

श्लोक 12

अश्वकर्णवदुद्गतमश्वकर्णम्॥

श्लोक 13

पृथुतां गतमनल्पशोफं पिच्चितम्॥

श्लोक 14

अणुबहुविदारि वेदनावच्च दारितम्॥

श्लोक 15

स्पृश्यमानं शब्दवच्चूर्णितम्॥

श्लोक 16

अस्थ्यवयवोस्थिमध्यमनुप्रविशन्नतिपातितम्॥

श्लोक 17

अन्यतरपार्श्वावशिष्टं शेषितम्॥

श्लोक 18

क्षतं भग्नमुन्नम्यमानं मज्ञि मज्जति मज्जानुगतम्॥

श्लोक 19

एषामन्त्यानि पञ्च कृच्छ्रसाध्यानि कृशातिबालवृद्धासहानामत्याशिनां वातात्मकानां कुष्ठिनामुपद्रववतां च॥

श्लोक 20

असाध्यं तु भिन्नं कटीकपालं सन्धिमुक्तं वा जघनमुत्पिष्टं कूर्परो विवर्तितस्तथा ललाटं चूर्णितमसंश्लिष्टकपालं च शिरः शंखपृष्ठस्तनान्तरभङ्गं चेति।
भवन्ति चात्र॥

श्लोक 21

अथावनतमुन्नाम्यमुन्नतं चावपीडयेत्।
आञ्छेदधिक्षिप्तमधोगतं चोपरि वर्तयेत्। आञ्छनोत्पडिनोन्नामचर्मसङ्क्षेपबन्धनैः॥

श्लोक 22

सन्धीन् शरीरगान् सर्वांश्चलानप्यचलानपि।
इत्येतैः स्थापनोपायैः सम्यक्संस्थाप्य निश्चलम्।
पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः॥

श्लोक 23

कदम्बोदुम्बराश्वथसर्जार्जुनपलाशजैः।
वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः॥

श्लोक 24

सुश्लक्ष्णैः सप्रतिष्टम्भैर्वल्कलैः शकलैरपि।
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्॥

श्लोक 25

शिथिलेन हि हि बन्धेन सन्धिस्थैर्यं न जायते।
गाढेनातिरुजादाहपाकश्वयथुसम्भवः॥

श्लोक 26

त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहन्मोक्षयेद्धिमे।
साधारणे तु पञ्चाहात् भङ्गदोषवशेन वा॥

श्लोक 27

न्यग्रोधादिकषायेण ततः शीतेन सेचयेत्।
तं पञ्चमूलपक्वेन पयसा तु सवेदनम्॥

श्लोक 28

सुखोष्णं चावचार्यं स्याच्चक्रतैलं विजानता।
विभज्य देशं कालं च वातघ्नौषधसंयुतम्॥

श्लोक 29

प्रततं लेपसेकांश्च विदध्यात् भृशशीतलान्।
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्।
प्रातः प्रातः पिबेत् भग्नः शीतलं लाक्षयायुतम्॥

श्लोक 30

सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः।
कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः॥

श्लोक 31

लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा।
सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत्॥

श्लोक 32

तान्समान्सुस्थितान्ज्ञात्वा फलिनीलोध्रकट्फलैः।
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्॥

श्लोक 33

पञ्चवल्कलचूर्णैर्वा मधुशुक्तसमन्वितैः।
धातकीलोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः॥

श्लोक 34

विश्लिष्टोत्पिष्टयोः सन्धिमेवमेवाविघट्टयन्।
उपाचरेद्यथास्वं च विसर्पादीनुपद्रवान्॥

श्लोक 35

इति भङ्ग उपक्रान्तः स्थिरधातोरृतौ हिमे।
मांसलस्याल्पदोषस्य सुसाधो दारुणोऽन्यथा॥

श्लोक 36

पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात्।
मासैः स्थैर्यं भवेत् सन्धेर्यथोक्तं भजतां विधिम्॥

श्लोक 37

सामान्यं साधनमिदं विशेषो वक्ष्यतेत्वतः॥

श्लोक 38

नखसन्धिं समुत्पिष्टं रक्तानुगतमारया।
अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत्॥

श्लोक 39

भग्नान् सन्धिविमुक्तांश्च कृत्वा पूर्ववदङ्गुलीन्।
तनुनावेष्ट्य पट्टेन घृतसेकं प्रदापयेत्॥

श्लोक 40

चक्रयोगेन मतिमानाञ्छेदूर्वास्थि निर्गतम्॥

श्लोक 41

आञ्च्छेदूर्ध्वमधस्ताच्च कटीभग्नं चिकित्सकः॥

श्लोक 42

मुसलेनोत्क्षिपेत् कक्षमंससन्धौ विसङ्गते।
स्थानस्थितं च बध्नीयात् स्वस्तिकेन समाहितः॥

श्लोक 43

कौर्परं तु भिषक्सधिमंगुष्ठेनानुमार्जयेत्।
अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम्।
प्रसार्याकुञ्चयेच्चैनं स्नेहसकं च कारयेत्॥

श्लोक 44

मणिबन्धे च जानौ च गुल्फे चैषः क्रियाक्रमः॥

श्लोक 45

उभे तले समे कृत्वा तलभग्नस्य दोहिनः।
बध्नीयादामतैलेन परिषेकं च कारयेत्॥

श्लोक 46

प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः।
हस्ते जातबले कार्यं क्रमात् पाषाणधारणम्॥

श्लोक 47

सन्नमुन्नामयेत् स्विन्नमक्षकं मुसलेन तु।
तथोन्नतं पीडयेत बध्नीयान्निबिडं ततः॥

श्लोक 48

ऊरुवच्च विधातव्यं बाहुभङ्गे प्रसाधनम्॥

श्लोक 49

ग्रीवायां तु विवृत्तायां प्रविष्टायामधोपि वा।
अवटावथ हन्वोश्च प्रगृह्योन्नमयेच्छिरः।
समं कुशाभिर्बध्नीयादुत्तानं शाययेच्च तम्॥

श्लोक 50

हन्वस्थिनी समानीय हनुसन्धौ विसङ्गते।
स्वेदयित्वा स्थितेसम्यक् पञ्चाङ्गीबन्धमाचरेत्।
घृतं वातघ्नमधुरैः सिद्धं नस्यं च पूजितम्॥

श्लोक 51

दन्तानभग्नांश्चलितान् सरक्तानवपीडयेत्।
वयस्थस्याम्बुभिः शीतैः परिषिच्य प्रलेपयेत्॥

श्लोक 52

बहिर्निर्वापणैरन्तः सन्धानीयैरुपाचरेत्।
लाद्वयशृते क्षीरे पद्मकादिशृतं घृतम्॥

श्लोक 53

नस्यगण्डूषयोर्योज्यं चलद्विजहितानि च।
कल्कितैस्तद्धितैश्चास्य दन्तमांसानि लेपयेत्।
त्रीन्मासान्मृदु भुञ्जीत रसान्नं कठिनांस्त्यजेत्॥

श्लोक 54

नासां विवृत्तां सन्नं वा ऋजूकृत्य शलाकया।
प्रत्येकं नस्ततो नाडीं द्विमुखीं सम्प्रवेशयेत्।
ततः पट्टेन संवेष्त्य घृतसेकं प्रदापयेत्॥

श्लोक 55

भग्नं कर्णं घृताभ्यक्तं न्यस्य बन्धेन योजयेत्।
सद्यःक्षतविधानं च ततः पश्चात् समाचरेत्॥

श्लोक 56

कटीजङ्घोरुभग्नानां कवाटशयनं हितम्।
यन्त्रणार्थं ततः कीलाः पञ्च कार्या निबन्धनाः।
जङ्गो रुपार्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः॥

श्लोक 57

श्रोण्यां वा पृष्ट्वंशे वा वक्षस्यक्षकयोस्तथा।
विमोक्षे भग्नसन्धीनां विधिमेनं समाचरेत्॥

श्लोक 58

सन्धींश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान्।
ऊक्तैर्विधानैर्बुध्या च यथास्वं स्थानमानयेत्॥

श्लोक 59

असन्धिभग्ने रूढे तु विषमोल्बणसाधिते।
आपोथ्य भग्नं यमयेत्तत्तो भग्नवदाचरेत्॥

श्लोक 60

भङ्गो नैति यथा पाकं प्रयतेत तथा भिषक्।
पक्वमांससिरास्नायुः सन्धिः श्लेषं न गच्छति॥

श्लोक 61

वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत्।
चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म च शीलयेत्॥

श्लोक 62

शालिक्षीररसाज्याद्यैः पौष्टिकैरविदाहिभिः।
मात्रयोपचरेत् भग्नं सन्धिसंश्लेषकारिभिः॥

श्लोक 63

ग्लानिर्न शस्यते तस्य सन्धिविश्लेषकृद्धि सा॥

श्लोक 64

लवणं कटुकं क्षारमम्लं मैथुनमातपम्।
व्यायामं च न सेवेत भग्नो रूक्षं च भेषजम्॥

श्लोक 65

सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात्।
सङ्क्षोभादपि यत् गच्छेद्विक्रियां तद्विवर्जयेत्।
आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा॥

श्लोक 66

तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु।
कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा॥

श्लोक 67

अनुल्बणमनाविद्धं स्वस्थाने पर्यवस्थितम्।
अवेदनं च चेष्टायां भग्नं विद्यात् सुसाधितम्॥

श्लोक 68

कृष्णास्तिलान्विरजसो दृढवस्त्रबद्धान् सप्तक्षपा बहति वारिणि वासयेत्।
संशोषयेदनुदिनं प्रतिसार्य चैनान् क्षीरे तथैव मधुकक्वथिते च तोये॥

श्लोक 69

पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम्।
विगततुषानरजस्कान् संचूर्ण्य विचूर्णितैर्युञ्ज्यात्॥

श्लोक 70

नलदवालकलोहितयष्टिका नखमिसिप्लवकुष्ठबलात्रयैः।
अगरुकुङ्कुमचन्दनसारिवा सरलसर्जरसामरदारुभिः॥

श्लोक 71

पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्।
समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्॥

श्लोक 72

शैलेयरास्नाशुमतीकशेरुकालानुसारीनतपत्रलोध्रैः।
सक्षीरशुक्लैः सपयः सदूर्वैस्तैलं पचेत्तन्नलदादिबिश्च॥

श्लोक 73

गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान्।
वातपित्तजनितानतिवीर्यं व्यापिनोऽपिविविधैरुपयोगैः॥
॥इति द्वात्रिंशोऽध्यायः॥