अष्टाङ्गसंग्रहः उत्तरस्थानम् 31

श्लोक 1

अथातः सद्योव्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

आगन्तोर्व्रणस्य प्रागुपदिष्टः सम्भवः।
तत्र तत्र यथायथं प्रतीकारश्च।
विविधाभिघातजनितैस्तु सुबह्वाकृतिभिरपि सद्योव्रणैरधिष्ठितमङ्गं समासात् त्रिविधं भवति छिन्नं विद्धं पिच्चितं च।
त्रिविधमपि चैतत्त्वगादिक्षणनात् क्षतमित्युच्यते॥

श्लोक 3

तत्र छिन्नं पञ्चधा भिद्यते।
तद्यथा त्वक्छेदे घृष्टम्।
किञ्चिन्मांसस्याप्यवकृत्तम्।
तस्यैवावगाढस्य विशेषेण विशालमायतं च विच्छिन्नम्।
किञ्चिच्छेषेष्वस्थिस्नाय्वादिषु विलम्बितम्।
अशेषाङ्गछेदे पातितम्॥

श्लोक 4

विद्धं त्वष्टविधम्।
तत्र मांसमनुप्राप्ते शल्येऽनुविद्धम्।
द्वितीये पार्श्वे त्वचमुन्नाम्योत्तुण्डितम्।
किञ्चिन्निस्सृतेऽतिविद्धम्।
सर्वथा निस्सृते निर्विद्धम्।
एतदेव चतुर्विधं कोष्ठे पृथुमुखैर्वा प्रहरणैः कुन्तादिभिर्विद्धमनुभिन्नं भिन्नोत्तुण्डितमतिभिन्नं निर्भिन्नमिति च संज्ञां लभते॥

श्लोक 5

यत् पुनः प्रहारेण पीडनेन वा गात्रमस्थियुक्तमसृङ्मज्जप्लुतं पृथुतामापद्यते तत् पिच्चितम्।
तत् द्विविधम्।
सव्रणमव्रणं च।
तत्र सव्रणमुक्तम्।
अव्रणं पुनर्भङ्गेषूपदेक्ष्यते।
भवति चात्र॥

श्लोक 6

सद्यः सद्योव्रणं सिञ्चेद्यष्टीमधुकसर्पिषा।
तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः॥

श्लोक 7

क्षतोष्माणो निग्रहार्थं तत्कालविसृतस्य च।
कषायशीतमधुरस्निग्धा लेपादयो हिताः॥

श्लोक 8

सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः।
मधुसर्पिःप्रयुञ्जीत पित्तघ्नीश्च हिमाः क्रियाः॥

श्लोक 9

ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्।
उपवासो हितं भक्तं प्रततं रक्तमोक्षणम्॥

श्लोक 10

घृष्टपिच्चितयोरेष सुतरामिष्यते विधिः।
तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते॥

श्लोक 11

अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते।
ततो रक्तक्षयाद्ग्वायौ कुपितेऽतिरुजाकरे॥

श्लोक 12

स्नेहपानपरीषेकस्वेदलेपोपनाहनम्।
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्॥

श्लोक 13

इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः।
सप्ताहात् गतवेगे तु पूर्वोक्तं विधिमाच्रेत्॥

श्लोक 14

क्षालनाभ्यङ्गलेपेषु तस्मिन् दुष्टे प्रयोजयेत्।
आरग्द्वधादिकं वर्गं सुरसादिं च शोधनम्॥

श्लोक 15

कल्कस्त्रिवृत्तिलैरण्डपत्रैर्योज्यः ससैन्धवैः।
वातिके पैत्तिके कुम्भयष्ट्याह्वरजनीतिलैः।
श्लैष्मिके तिलतेजोह्वानिकुम्भस्वर्जिकाग्निकैः॥

श्लोक 16

एष दुष्टव्रणविधिः कुष्ठमेहव्रणेष्वपि॥

श्लोक 17

प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक् पृथक्॥

श्लोक 18

घृष्टे रुजं निगृह्याशु वर्णे चूर्णानि निक्षिपेत्।
कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः।
सीवनं विधिनोक्तेन बन्धनं चानुपीडनम्॥

श्लोक 19

असाध्यं स्फुटितं नेत्रमुदीर्णं लम्बते तु यत्।
सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्॥

श्लोक 20

पीडयेत् पाणिना पद्मपत्रव्यवहितेन तत्।
ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः॥

श्लोक 21

विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः।
सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित्॥

श्लोक 22

गलपीडावसन्नेक्ष्णि वमनोऽत्कासनक्षवाः।
प्राणायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत्॥

श्लोक 23

कर्णे स्थानातुच्युते स्यूते स्रोतस्तैलेन पूरयेत्॥

श्लोक 24

कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते।
समं निवेश्य बध्नीयात् स्यूत्व शीघ्रं निरन्तरम्॥

श्लोक 25

आजेन सर्पिषा चात्र परिषेकः प्रशस्यते।
उत्तानोन्नानि भुञ्जीत शयीत च सुयन्त्रितः॥

श्लोक 26

घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते।
स्यूत्वा वेल्लितबन्धेन बध्नीयात् घनवाससा।
चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे॥

श्लोक 27

पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा।
प्रवेश्य वृषणौ सीव्येत् सीवन्या तुन्नसंज्ञया॥

श्लोक 28

कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्।
स्नेहसेकं न कुर्वीत तेन क्लिद्यति हि व्रणः॥

श्लोक 29

कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः।
शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्॥

श्लोक 30

छिन्नां निश्शेषतः शाखां दग्ध्वा तेइलेन युक्तितः।
बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत्॥

श्लोक 31

कार्यः शल्याहृते विद्धे क्रमो भङ्गात्तु पिच्चिते॥

श्लोक 32

शिरसोऽपहृते शल्ये बालवर्तिं प्रवेशयेत्।
मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा।
व्रणे रोहति चैकेइकं शनैरपनयेत् कचम्॥

श्लोक 33

मस्तुलुङ्गस्त्रुतौ खादेन्मस्तिष्कानन्यजीवजान्।
शल्ये हृतेङ्गादन्यस्मात् स्नेहवर्तिं निधापयेत्॥

श्लोक 34

दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः।
सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्॥

श्लोक 35

भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छा हृत्पार्श्ववेदनाः।
ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्॥

श्लोक 36

सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोक्षिरक्तता।
लोहगन्धित्वमास्येऽस्य स्यात् गात्रे च विगन्धिता॥

श्लोक 37

आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि।
आध्मानेनातिमात्रेण शूलेन च विशस्यते॥

श्लोक 38

पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्।
नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः॥

श्लोक 39

अभिन्नोप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते।
असृजा स्यन्दमानेन पार्श्वैर्मूत्रेण बस्तिवत्॥

श्लोक 40

तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्।
रक्ताक्षं पण्डुवदनमानद्धं च विवर्जयेत्॥

श्लोक 41

आमाशयस्थे वमनं हितं पक्वाशयाश्रिते।
विरेचनं निरूहश्च निःस्नेहोष्णैर्विशोधनैः॥

श्लोक 42

यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः।
भुञ्जीतान्नंयवागूं वा पिबेत् सैन्धवसंयुताम्॥

श्लोक 43

अतिनिस्सृतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्॥

श्लोक 44

क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः।
मूर्च्छादयोऽल्पाः प्रथमे द्वितीयेत्वतिबाधकाः।
क्लिष्टान्त्रः संशये देही छिन्नान्त्रो नैव जीवति॥

श्लोक 45

यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः।
व्युपद्रवः सभिन्नेऽपि कोष्ठे जीवत्यसंशयम्॥

श्लोक 46

अभिन्नमान्त्रं निष्क्रान्तं प्रवेश्यं नत्वतोन्यथा।
उलुङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु॥

श्लोक 47

प्रक्षाल्य पयसा दिग्धं तृण शोणित पांसुभिः।
प्रवेशयेत् क्लृप्तनखो घृतेनाक्तं शनैः शनैः।
क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिः परिप्लुतम्॥

श्लोक 48

अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेच्च तम्।
तथान्त्राणि विशन्त्यन्तस्तत्कालं पीडयेत च॥

श्लोक 49

व्रणसौक्ष्म्यात् बहुत्वाद्वा कोष्ठमान्त्रमनाविशत्।
तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्।

श्लोक 50

यथास्थानस्थिते सम्यगान्त्रे सीव्येदनु व्रणम्।
स्थानादपेतमादत्ते जीवितं गुपितं च तत्॥

श्लोक 51

वेष्टयित्वानुपट्टेन घृतेन परिषेचयेत्।
पाययेत ततः कोष्णं चित्रातैलयुतं पयः।
मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये॥

श्लोक 52

त्वगश्वकर्णककुभबदरीसल्लकीधवात्।
तत्कल्कसाधितं तैलं प्रधानं व्रणरोपणम्॥

श्लोक 53

अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्॥

श्लोक 54

उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा।
अवकीर्य कषायैर्वा श्लक्ष्णैर्मूले ततः समम्॥

श्लोक 55

दृढं च बध्वा सूत्रेण वर्द्धयेत् कुशलो भिषक्।
तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु॥

श्लोक 56

स्यादत्यथा रुगाटोपो मृत्युर्वा छिद्यमानया॥

श्लोक 57

सक्षौद्रे च व्रणे बद्धे सुजीर्णेन्ने घृतं पिबेत्।
क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्।
रुग्दाहजित् सयष्ट्याह्वैः परं पूर्वोदितो विधिः॥

श्लोक 58

मेदोग्रन्थ्युदितं चात्र तैलमभ्यञ्जने हितम्॥

श्लोक 59

तालीसं पद्मकं मांसी हरेण्वगरुचन्दनम्।
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः।
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्॥

श्लोक 60

मूढप्रहाराभिहते पतिते विषमोच्चकैः।
कार्यं वातास्रजित्तृप्तिमर्दनाभ्यङ्गसेचनम्॥

श्लोक 61

विश्लिष्टदेहं मथितं क्षीणं मर्महतं हतम्।
वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्॥

श्लोक 62

प्रहर्तृयत्नायुधघातगात्रैः सद्योव्रणाः काममनन्तरूपाः।
तथापि न त्रित्वमतिक्रमन्ते चयादिभेदैरिव मारुताद्याः॥
इति एकत्रिंशोऽध्यायः॥