अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 30

श्लोक 1

ग्रन्थिष्व् आमेषु कर्तव्या यथा-स्वं शोफ-वत् क्रिया ।
बृहती-चित्रक-व्याघ्री-कणा-सिद्धेन सर्पिषा ॥ १ ॥

श्लोक 2

स्नेहयेच् छुद्धि-कामं च तीक्ष्णैः शुद्धस्य लेपनम् ।
संस्वेद्य बहु-शो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥ २ ॥

श्लोक 3

एष वाते विशेषेण क्रमः पित्तास्र-जे पुनः ।
जलौकसो हिमं सर्वं कफ-जे वातिको विधिः ॥ ३ ॥

श्लोक 4

तथाप्य् अ-पक्वं छित्त्वैनं स्थिते रक्ते ऽग्निना दहेत् ।
साध्व् अ-शेषं स-शेषो हि पुनर् आप्यायते ध्रुवम् ॥ ४ ॥

श्लोक 5

पुनर् आनह्यते द्रुतम् मांस-व्रणोद्भवौ ग्रन्थी यापयेद् एवम् एव च ।
कार्यं मेदो-भवे ऽप्य् एतत् तप्तैः फलादिभिश् च तम् ॥ ५ ॥

श्लोक 6

पाटयेद् एवम् एव च प्रमृद्यात् तिल-दिग्धेन च्छन्नं द्वि-गुण-वाससा ।
शस्त्रेण पाटयित्वा वा दहेन् मेदसि सूद्धृते ॥ ६ ॥

श्लोक 7

प्रमृज्यात् तिल-दिग्धेन दहेन् मेदसि तूद्धृते सिरा-ग्रन्थौ नवे पेयं तैलं साहचरं तथा ।
उपनाहो ऽनिल-हरैर् वस्ति-कर्म सिरा-व्यधः ॥ ७ ॥

श्लोक 8

अर्बुदे ग्रन्थि-वत् कुर्यात् यथा-स्वं सु-तरां हितम् ।
श्लीपदे ऽनिल-जे विध्येत् स्निग्ध-स्विन्नोपनाहिते ॥ ८ ॥

श्लोक 

अजा-शकृच्-छिग्रु-मूल-लाक्षा-सुरस-काञ्जिकैः ॥ ८.१+(१)अब् ॥

श्लोक 

ब्व् -लाक्षा-रस-स-काञ्जिकैःब्व् -लवण-क्षार-काञ्जिकैः उपोदका-पत्त्र-पिण्ड्या छदैर् आच्छादितं घनम् ।
निवेश्य पट्टं बध्नीयाच् छाम्यत्य् एवं नवार्बुदम् ॥ ८.१+(२) ॥

श्लोक 

अव् उपोदकार्क-पिण्याक- ब्व् -च्छदैर् आच्छादितं घनम् जीर्णे चार्क-च्छद-सुधा-सामुद्र-गुड-काञ्जिकैः ।
प्रच्छाने पिण्डिका बद्धा ग्रन्थ्य्-अर्बुद-विलायनी ॥ ८.१+(३) ॥

श्लोक 9

अव् जीर्णार्द्रार्क-च्छद-सुधा- ब्व् -सामुद्रं तुल्यकाम्बुभिः च्व् प्रच्छन्ने पिटिकां बद्ध्वा च्व् प्रच्छानैर् पिण्डिकां बद्ध्वा द्व् ग्रन्थ्य्-अर्बुद-विलायनम् सिराम् उपरि गुल्फस्य द्व्य्-अङ्गुले पाययेच् च तम् ।
मासम् एरण्ड-जं तैलं गो-मूत्रेण समन्वितम् ॥ ९ ॥

श्लोक 10

जीर्णे जीर्णान्नम् अश्नीयाच् छुण्ठी-शृत-पयो-ऽन्वितम् ।
त्रैवृतं वा पिबेद् एवम् अ-शान्ताव् अग्निना दहेत् ॥ १० ॥

श्लोक 11

गुल्फस्याधः सिरा-मोक्षः पैत्ते सर्वं च पित्त-जित् ।
सिराम् अङ्गुष्ठके विद्ध्वा कफ-जे शीलयेद् यवान् ॥ ११ ॥

श्लोक 12

स-क्षौद्राणि कषायाणि वर्धमानास् तथाभयाः ।
लिम्पेत् सर्षप-वार्ताकी-मूलाभ्यां धन्वयाथ-वा ॥ १२ ॥

श्लोक 13

मूलाभ्यां धान्ययाथ-वा ऊर्ध्वाधः-शोधनं पेयम् अपच्यां साधितं घृतम् ।
दन्ती-द्रवन्ती-त्रिवृता-जालिनी-देवदालिभिः ॥ १३ ॥

श्लोक 14

शीलयेत् कफ-मेदो-घ्नं धूम-गण्डूष-नावनम् ।
सिरयापहरेद् रक्तं पिबेन् मूत्रेण तार्क्ष्य-जम् ॥ १४ ॥

श्लोक 

पलम् अर्ध-पलं वापि कर्षं वाप्य् उष्ण-वारिणा ।
काञ्चनार-त्वचं पीत्वा गण्ड-मालां व्यपोहति ॥ १४+(१) ॥

श्लोक 15

ब्व् कर्षं वोष्णेन वारिणा ग्रन्थीन् अ-पक्वान् आलिम्पेन् नाकुली-पटु-नागरैः ।
स्विन्नान् लवण-पोटल्या कठिनान् अनु मर्दयेत् ॥ १५ ॥

श्लोक 16

शमी-मूलक-शिग्रूणां बीजैः स-यव-सर्षपैः ।
लेपः पिष्टो ण्म्ल-तक्रेण ग्रन्थि-गण्ड-विलायनः ॥ १६ ॥

श्लोक 

शमी-मूलक-शिग्रूत्थ- शमी-मूलक-शिग्रूमा- -बीजः स-यव-सर्षपैः -बीजैः स-यव-सर्षपैः क्षुण्णानि निम्ब-पत्त्राणि कॢप्तैर् भल्लातकैः सह ।
शराव-संपुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः ॥ १६+(१) ॥

श्लोक 17

अव् जीर्णानि निम्ब-पत्त्राणि ब्व् क्लिन्नैर् भल्लातकैः सह ब्व् क्षिप्रैर् भल्लातकैः सह एतच् छागाम्बुना पिष्टं गण्ड-माला-प्रलेपनम् ॥ अब् ब्व् गण्ड-माला-विलेपनम् पाकोन्-मुखान् स्रुतास्रस्य पित्त-श्लेष्म-हरैर् जयेत् ।
अ-पक्वान् एवो वोद्धृत्य क्षाराग्निभ्याम् उपाचरेत् ॥ १७ ॥

श्लोक 18

काकादनी-लाङ्गलिका-नहिकोत्तुण्डिकी-फलैः ।
जीमूत-बीज-कर्कोटी-विशाला-कृतवेधनैः ॥ १८ ॥

श्लोक 19

नलिकोत्तुण्डिकी-फलैः -नलिकोत्तुण्डकी-फलैः -नहिकोत्तैण्डुकी-फलैः पाठान्वितैः पलार्धांशैर् विष-कर्ष-युतैः पचेत् ।
प्रस्थं करञ्ज-तैलस्य निर्गुण्डी-स्व-रसाढके ॥ १९ ॥

श्लोक 20

पथ्यान्वितैः पलार्धांशैर् अनेन माला गण्डानां चिर-जा पूय-वाहिनी ।
सिध्यत्य् अ-साध्य-कल्पापि पानाभ्यञ्जन-नावनैः ॥ २० ॥

श्लोक 21

तैलं लाङ्गलिकी-कन्द-कल्क-पादं चतुर्-गुणे ।
निर्गुण्डी-स्व-रसे पक्वं नस्याद्यैर् अपची-प्रणुत् ॥ २१ ॥

श्लोक 22

कल्क-पादे चतुर्-गुणे भद्रश्री-दारु-मरिच-द्वि-हरिद्रा-त्रिवृद्-घनैः ।
मनःशिलाल-नलद-विशाला-करवीरकैः ॥ २२ ॥

श्लोक 23

भद्र-श्रीदारु-मरिच- मनःशिलाल-मदन- गो-मूत्र-पिष्टैः पलिकैर् विषस्यार्ध-पलेन च ।
ब्राह्मी-रसार्क-ज-क्षीर-गो-शकृद्-रस-संयुतम् ॥ २३ ॥

श्लोक 24

प्रस्थं सर्षप-तैलस्य सिद्धम् आशु व्यपोहति ।
पानाद्यैः शीलितं कुष्ठ-दुष्ट-नाडी-व्रणापचीः ॥ २४ ॥

श्लोक 25

पानाद्यैः शीलितं कुष्ठं दुष्ट-नाडी-व्रणापचीः वचा-हरीतकी-लाक्षा-कटु-रोहिणि-चन्दनैः ।
तैलं प्रसाधितं पीतं स-मूलाम् अपचीं जयेत् ॥ २५ ॥

श्लोक 26

शरपुङ्खोद्भवं मूलं पिष्टं तण्डुल-वारिणा ।
नस्याल् लेपाच् च दुष्टारुर्-अपची-विष-जन्तु-जित् ॥ २६ ॥

श्लोक 27

मूलैर् उत्तमकारण्याः पीलुपर्ण्याः सहाचरात् ।
स-लोध्राभय-यष्ट्य्-आह्व-शताह्वा-द्वीपि-दारुभिः ॥ २७ ॥

श्लोक 28

मूलैर् उत्तमवारुण्याः मूलैर् उत्तरवारुण्याः मूलैर् उत्तरवारिण्याः तैलं क्षीर-समं सिद्धं नस्ये ऽभ्यङ्गे च पूजितम् ।
गो-ऽव्य्-अजाश्व-खुरा दग्धाः कटु-तैलेन लेपनम् ॥ २८ ॥

श्लोक 29

गो-गजाश्व-खुरा दग्धाः ऐङ्गुदेन तु कृष्णाहिर् वायसो वा स्वयं मृतः ।
इत्य् अ-शान्तौ गदस्यान्य-पार्श्व-जङ्घा-समाश्रितम् ॥ २९ ॥

श्लोक 30

इत्य् अ-शान्तौ गदे चान्य- पार्श्वे जङ्घा-समाश्रितम् वस्तेर् ऊर्ध्वम् अधस्-ताद् वा मेदो हृत्वाग्निना दहेत् ।
स्थितस्योर्ध्वं पदं मित्वा तन्-मानेन च पार्ष्णितः ॥ ३० ॥

श्लोक 31

तत ऊर्ध्वं हरेद् ग्रन्थीन् इत्य् आह भग-वान् निमिः ॥ ३१अब् ॥
पार्ष्णिं प्रति द्वा-दश चाङ्गुलानि मुक्त्वेन्द्र-वस्तिं च गदान्य-पार्श्वे ॥ ३१च्द् ॥
विदार्य मत्स्याण्ड-निभानि मध्याज् जालानि कर्षेद् इति सुश्रुतोक्तिः ॥ ३१एf ॥

श्लोक 32

आ-गुल्फ-कर्णात् सु-मितस्य जन्तोस् तस्याष्ट-भागं खुडकाद् विभज्य ।
घ्राणार्जवे ऽधः सुर-राज-वस्तेर् भित्त्वाक्ष-मात्रं त्व् अपरे वदन्ति ॥ ३२ ॥

श्लोक 33

घोणार्जवे ऽधः सुर-राज-वस्तेर् भित्त्वाक्ष-मात्राम् अपरे वदन्ति उपनाह्यानिलान् नाडीं पाटितां साधु लेपयेत् ।
प्रत्यक्पुष्पी-फल-युतैस् तैलैः पिष्टैः स-सैन्धवैः ॥ ३३ ॥

श्लोक 34

पैत्तीं तु तिल-मञ्जिष्ठा-नागदन्ती-निशा-द्वयैः ।
श्लैष्मिकीं तिल-सौराष्ट्री-निकुम्भारिष्ट-सैन्धवैः ॥ ३४ ॥

श्लोक 35

शल्य-जां तिल-मध्व्-आज्यैर् लेपयेच् छिन्न-शोधिताम् ।
अ-शस्त्र-कृत्याम् एषिण्या भित्त्वान्ते सम्यग्-एषिताम् ॥ ३५ ॥

श्लोक 36

क्षार-पीतेन सूत्रेण बहु-शो दारयेद् गतिम् ।
व्रणेषु दुष्ट-सूक्ष्मास्य-गम्भीरादिषु साधनम् ॥ ३६ ॥

श्लोक 37

बहु-शो पूरयेद् गतिम् या वर्त्यो यानि तैलानि तन् नाडीष्व् अपि शस्यते ।
पिष्टं चञ्चु-फलं लेपान् नाडी-व्रण-हरं परम् ॥ ३७ ॥

श्लोक 38

घोण्टा-फल-त्वक् लवणं स-लाक्षं बूकस्य पत्त्रं वनिता-पयश् च ।
स्नुग्-अर्क-दुग्धान्वित एष कल्को वर्ती-कृतो हन्त्य् अ-चिरेण नाडीम् ॥ ३८ ॥

श्लोक 39

चुक्रस्य पत्त्रं वनिता-पयश् च वृषस्य पत्त्रं वनिता-पयश् च सामुद्र-सौवर्चल-सिन्धु-जन्म-सु-पक्व-घोण्टा-फल-वेश्म-धूमाः ।
आम्रात-गायत्रि-ज-पल्लवाश् च कटङ्कटेर्याव् अथ चेतकी च ॥ ३९ ॥

श्लोक 40

कटङ्कटेर्याव् अथ केतकी च कटङ्कटेर्याव् अथ दीनिका च कल्के ऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु ।
अ-गतिर् इव नश्यति गतिश् चपला चपलेषु भूतिर् इव ॥ ४० ॥
वर्त्यां चैतेषु सेव्यमानेषु