अष्टाङ्गसंग्रहः उत्तरस्थानम् 30

श्लोक 1

अथातो व्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

व्रणस्य शोफावस्थायां शस्त्रकर्मविधौ श्वयथुचिकित्सिते च साधनमुद्दिष्टम्।
तत्रापतर्पणमेवादौ प्रधानतमम्।
अपि च॥

श्लोक 3

दोषोच्छ्रायोपशान्त्यर्थमुपदिष्टं यथायथम्।
अवेक्ष्य देहप्राणादीन् कर्तव्यमपतर्पणम्॥

श्लोक 4

रागसंरम्भरहिताः परिम्लाना हृताश्रयाः।
सद्यः शाम्यन्ति शुद्धानां व्रणाः शोफाश्च देहिनाम्॥

श्लोक 5

लेपाभ्यङ्गपरीषेकान् यथोक्तांश्च प्रयोजयेत्।
यथाम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति।
दोषाग्निरेवं सहसा प्रलेपाद्यैः प्रयोजितैः॥

श्लोक 6

प्रतिलोममेव चानुलिपेन्नानुलोमम्।
तथाह्यौषधं सम्यगवतिष्ठते।
अनुप्रविशति च रोमकूपान्।
न तु शुष्यदुपेक्षितव्यमन्यत्रपीडयितव्यात्।
शुष्कं हि दाहोषारागश्यावत्वशूलानि वर्धयति॥

श्लोक 7

यस्तु शीतस्तनुर्मुहुर्मुहुश्च प्रयुज्यते स प्रदेहो रक्तपित्तत्वचां प्रसादकृत्।
प्रलेपस्तूष्णः शीतो वा बहलश्च तथा वातश्लेष्मप्रशमनस्तस्योपयोगः क्षताक्षतेषु।
यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते॥

श्लोक 8

दशविधश्च समासादालेपः।
तद्यथा।
स्नैहिको निर्वापणः प्रसादनः स्तम्भनो विलायनः पाचनः पीडनः शोधनो रोपणः सवर्णीकरणश्च॥

श्लोक 9

तत्र वाते स्निग्धद्रव्यैः स्नेहाढ्यैः स्नेहेनैव वा स्नैहिकः।
पित्ते पित्तप्राये च शोफे विषाग्निक्षारदग्धे च शीतैर्निर्वापणः।
स एव चान्तर्दुष्टे रक्ते प्रसादनः।
स एव च पुनरस्रातिप्रवृत्तौ स्तम्भनसंज्ञः।
श्लेष्ममेदोभूयिष्ठे शीतैश्चाविदग्धे पिष्टलब्धे ग्रथिते वा रूक्षैर्विलायनः।
तैरेव च विदग्धे पाचनः।
सूक्ष्मास्ये व्रणे रूक्षैः पिच्छिलैश्च पीडनः।
अशुद्धे यथास्वमुपदिष्टैः शोधनः।
शुद्धे रोपणः।
रूढे च सवर्णीकरणः।
नामभिरेवचैषां स्वरूपमाख्यातम्॥

श्लोक 10

न च प्रदेहं रात्रौ प्रयुञ्जीत।
माभूच्छैत्यपिहितस्योष्मणो बहिरनिस्सरणाद्विकारपरिवृद्धिः॥

श्लोक 11

पुष्कलावतस्तु पठति॥

श्लोक 12

तमसा पिहितोह्यूष्मा रोमकूपैरनावृतैः।
लेपांद्विनैव निर्याति रात्रौ नालेपयेदतः॥

श्लोक 13

न च पर्युषितं लेपं दद्यात् भूयस्तमेव वा।
व्यम्लः पर्युषितो हि स्यात् भ्रष्टवीर्यस्तथेतरः॥

श्लोक 14

शोफे व्रणे च कठिने विवर्णे वेदनान्विते।
सविषे च विशेषेण जलजाद्यैर्हरेदसृक्।
वेदनायाःप्रशान्त्यर्थं पाकस्याप्राप्तयेपि च॥

श्लोक 15

निर्वापणान् पुनश्चात्र न्यग्रोधाद्यैः सुशीतलान्।
कुर्यात् प्रदेहसेकादीन् सघृतक्षीरशर्करान्॥

श्लोक 16

न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः।
प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम्।
प्रदेहः ससितस्तद्वत् सक्तवो मधुकं घृतम्॥

श्लोक 17

वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्।
स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम्॥

श्लोक 18

ग्राम्यानूपौदकामिषवेशवारकृसरापायसोत्कारिकाभिः स्वेदो योज्यः॥

श्लोक 19

सदाहशूलांस्तु तिलानतसीश्च भृष्ट्वा पयसि निर्वाप्य तेनैव क्षीरेण पिष्ट्वा प्रलेपयेत्॥

श्लोक 20

बलामधुकपृश्निपर्णीच्छिन्नरुहाभीरुजीवन्तीशर्करामदनक्षीरमहास्नेहसिद्धोत्कारिका कवोष्णा शूलदाहहरा॥

श्लोक 21

तद्वन्मधुकयवचूर्णतैलसर्पिर्भिः कोष्ण आलेपः।
तथा सतिलो मुद्गपायसमुपनाहः॥

श्लोक 22

दशमूलसिद्धेन सुखोष्णेनाम्भसा पयसा वा घृततैलाभ्यां वा परिषेकः शोफे व्रणे वा दाहशूलघ्नः॥

श्लोक 23

स्थिराणां मन्दवेदनानां शोफानां विम्लापनं कार्यम्॥

श्लोक 24

अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः।
विम्लापनार्थं मृद्गीयात्तलेनाङ्गुष्ठकेन वा॥

श्लोक 25

तथास्फोतपत्रमसूरकल्केनालेपः।
सुसिद्धपिष्टैः सघृतैर्मुद्गयवगोधूमैर्वा॥

श्लोक 26

विलीयते स चेन्नैवं ततस्तमुपनाहयेत्।
आवदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते॥

श्लोक 27

शिग्रुशणफलचित्रककिण्वनिष्पावसर्षपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्यैरण्डपत्रेणावच्छाद्यबध्नीयात्॥

श्लोक 28

पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत् पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च॥

श्लोक 29

पक्वे तु यथोक्तेन विधिना शस्त्रमवचारयेत्।
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते।
दारणं दारणाअर्हस्य दोषपाकोद्धते हितम्॥

श्लोक 30

चित्रकचिरबिल्वदन्तीकरवीरमूलकपोतपङ्कगृध्रपुरीषैर्गुग्गुल्वतसीस्नुहीक्षीरपलाशक्षारसुवर्णक्षीरीदक्षशकृन्मुकूलकैर्वा क्षारौषधैर्वा क्षारेण वा॥

श्लोक 31

पूयगर्भानणुद्वारान् सोत्सङ्गान् मर्मगानपि।
निःस्रेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत्॥

श्लोक 32

शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति।
न मुखे चैनमालिम्पेत्तथा दोषः प्रसिच्यते॥

श्लोक 33

कलाययवगोधूममुद्गमाषहरेणवः।
द्रव्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडने॥

श्लोक 34

विवर्णान् पिच्छिलान् पूतिगन्धीन् क्लेदरुजावतः।
व्रणानशुद्धान् विज्ञाय शोधनैरोभिराचरेत्॥

श्लोक 35

शङ्खिन्यङ्कोलसुमनःकरवीरसुवर्चलाः।
त्रिफला खदिरो दार्वी कोलपत्रं पलङ्कषा।
प्रक्षालने कषायाणि वर्गश्चारग्वधादिकः॥

श्लोक 36

पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम्।
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः॥

श्लोक 37

अजगन्धाजशृङ्गी च गवाक्षी लाङ्गली निशा।
पूतीकश्चित्रकः पाठा पटोलीवेल्लरेणुकाः॥

श्लोक 38

कटुत्रयं यवक्षारो लवणानि सुराष्ट्रजा।
निकुम्भकुम्भकासीसहरितालमनश्शिलाः।
कल्काज्यतैलरसजाचूर्णवर्तिषु भेषजम्॥

श्लोक 39

तत्र गम्भीरेषु पित्तात्मकेषु दाहपाकवत्सु व्रणेष्वतीक्ष्णोष्णैरेभिः कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत्॥

श्लोक 40

उत्सन्नमांसेष्वल्पस्रावेषु रूक्षेषु तिलापामार्गबृहतीद्वययुक्तैः पूर्वोक्तैः पूतीकादिभिः सर्षपं तैलं च॥

श्लोक 41

प्रचलप्रदेशजेषु क्लेदबहुलेषूत्सन्नस्थिरमांसेषु तैलेन चासिध्यत्सु रसक्रियां कुर्यात्।
यथोक्तानां संशोधनौषधानां कषाये पुनः परिस्राव्याधिशृते मनश्शिलातुवरीकासीसचूर्णप्रतीवापसिद्धां च मातुलुङ्गरसोपेतां सक्षौद्रां युञ्जीत॥

श्लोक 42

मेदोयुक्तेषु गम्भीरेषु क्लेदिषु कल्कैश्चासिध्यस्सु॥

श्लोक 43

वचायां सैन्धवे किण्वे कासीसे रजनीद्वये।
शोधनाग्र्येषु चान्येषु चूर्णं कुर्वीत शोधनम्॥

श्लोक 44

अन्तःशल्यानणुद्वारान् गम्भीरान् मांससंश्रितान्।
सन्धिमर्मनिविष्टांश्च शोधयेद्वर्तिभिर्व्रणान्॥

श्लोक 45

वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्।
श्रीवेष्टकसर्जरससालदेववारुशिंशपाखदिरासनकैडर्यसारयवमधूच्छिष्टभूर्जपत्रपक्षौमसर्पिर्भिः॥

श्लोक 46

निर्वापयेत् भृशं शीतैः पित्तरक्तविषोल्बणान्॥

श्लोक 47

शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम्॥

श्लोक 48

अश्वगन्धापामार्गतालपत्रीसुवर्चलाबलातिबलानन्ताधातकीकुसुमसमङ्गाभिः पद्मकादिवर्गेण न्यग्रोधादिना च कल्कस्तथा सर्पींष्यभ्यञ्जनार्थे॥

श्लोक 49

अद्यान्मांसादमांसानि विधिनोपहितानि च।
मांसं मांसादमांसेन वर्धते शुद्धचेतसः॥

श्लोक 50

उत्सन्नमृदुमांसानां व्रणानामवसादनम्॥

श्लोक 51

मन्थदन्तीशिरीषकरञ्जफलभूर्जग्रन्थिकुक्कुटाण्ड्Aत्वक्कपोतकलविङ्कपुरीषनेपालीहरितालचूर्णानि सक्षौद्राणि॥

श्लोक 52

सरुजे कठिने स्तब्धे रूक्षे शुष्यति च व्रणे॥

श्लोक 53

मार्दवजननार्थं व्रणाविरोधि वातघ्नसिद्धस्य सर्पिषः पानम्।
तद्विधैरेव च सिद्धं तैलमभ्यङ्गः।
पूर्वोक्ताश्च स्वेदाः।
तथा सर्पिर्मज्जवसाभिर्धूपाः सुस्निग्धसक्तुसैन्धवकिण्वतिलपिष्टकृसरपायसानूपवेशवाराःकिञ्चिदुष्णा बहुशः प्रलेपाः॥

श्लोक 54

पित्तविद्रधिवीसर्पशोफकुष्ठघृतानि च।
सर्वव्रणेषु योज्यानि पानसेकप्रलेपने॥

श्लोक 55

अतिमृदुमांसेषु व्रणेषु दारुणीकरणार्थं त्रिफलालोध्राम्रसर्जजम्बूप्रियङ्ग्वशोकवल्कलानि।
सौराष्ट्रीकासीसरोचनावचूर्णनम्।
सारैर्गन्धैश्च धूपः॥

श्लोक 56

उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्।
व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा॥

श्लोक 57

स्रवन्तोऽश्मरिजा मूत्रं चान्ये रक्तवाहिनः।
छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च साधनैः।
साध्यमाना न सिध्यन्ति शोध्याःस्युस्तेऽग्निकर्मणा॥

श्लोक 58

व्रणानामथ शुद्धानां रोपणानि प्रयोजयेत्।
असनादिन्यग्रोधादिवर्गधवसल्लकीकुटजत्वचो मञ्जिष्ठासमङ्गामृताश्वगन्धारग्वधधातकीपुष्पाणि पद्मकादिश्च प्रक्षालनादिषु सप्तसु प्रयोज्या इति।
भवन्ति चात्र॥

श्लोक 59

उत्सन्नदुष्टपिशिते सङ्क्लिष्टध्यामशोणिते।
व्रणे प्रच्छर्दनं शस्तं कफदुष्टे विशेषतः॥

श्लोक 60

विरेचनं पित्तदुष्टे दीर्घकालानुबन्धिनि।
रूक्षे सवेदने बस्तिरधःकाये विशेषतः॥

श्लोक 60

जत्रूर्ध्वजे च श्वयथौ कण्ड्वाढ्ये तीक्ष्णनावनम्।
तज्ज एवानिलाढ्ये तु श्वयथौ स्नेहनावनम्॥

श्लोक 62

तथा सशोफरुक्स्रावे धूमो वातकफोल्बणे।
रुजादिमति वक्त्रस्थे यथास्वं कवलो हितः॥

श्लोक 63

द्वावाद्यौ पञ्चमूलाख्यौ गणो यश्चानिलापहः।
ते व्रणे वातिके योज्याः कषायादिषु सप्प्तसु॥

श्लोक 64

न्यग्रोधपद्मकाद्यौ तु पैत्ते वर्गश्च पित्तजित्।
आरग्वधादिः श्लेष्मघ्रः कफे मिश्रास्तु मिश्रजे॥

श्लोक 65

पिष्टोम्लैर्वातिके लेपस्तैलसर्पिर्वसायुतः।
घनः कोष्णश्च पैत्ते तु पयःपिष्टो घृतान्वितः॥

श्लोक 66

तनुवस्त्रान्तरः शश्वदुष्णो गोमूत्रपेषितः।
रूक्षस्तैलेन वा स्निग्धो बहलः कफजे हितः॥

श्लोक 67

अपेतपूतिमांसानां मांसस्थानामरोहताम्।
कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम्।
स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित्॥

श्लोक 68

स क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनः परम्।
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः।
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः॥

श्लोक 69

सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान्।
क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत्।
रोपणौषधसिद्धेन तैलेन कफवातजान्॥

श्लोक 70

अबध्यानां चलस्थानां शुद्धानां वा प्रदुष्यताम्।
यथास्वं रोपणैः कुर्याद्रसजां सनिशाद्वयैः॥

श्लोक 71

समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते।
नीरुजामवगाढानां शुद्धानां वर्तयो हिताः॥

श्लोक 72

समङ्गामोचसरलसोमवल्काः सचन्दनाः।
पद्मकादिश्च कल्कोयं परमं रोपणोऽथवा।
पुण्ड्राह्वतिलजीवन्तीगोजिह्वाधातकीबलाः॥

श्लोक 73

प्रप्रौण्डरीकमधुककाकोलीद्वयचन्दनःइ।
साधितं तैलमाज्यं वा तद्वत् कम्पिल्लकेन वा।
दूर्वारसेन वा दार्व्यास्त्वचा वा व्रणरोपणम्॥

श्लोक 74

पटोलनिम्बपत्राणि लोध्रमुस्ताप्रियङ्गवः। सूक्ष्मैलाधातकीसर्ज्जखदिरागरुचन्दनम्॥

श्लोक 75

कम्पिल्लकं विडङ्गानि वत्सकं त्रिफला बला।
कल्कैरेभिर्घृतं सिद्धं तैलं वा रोपणं परम्॥

श्लोक 76

पद्मकं पद्मकिञ्जल्कं दार्वी मूर्वा तिलोत्पलम्।
मेदा समङ्गा यष्ट्याह्वं प्रलेपो वर्णसाधनः॥

श्लोक 77

ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः।
त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः॥

श्लोक 78

लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः।
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम्॥

श्लोक 79

ध्यामकाश्वत्थनिचुलमूलं लाक्षालगैरिकम्।
सहेमश्चामृतासङ्गःकासीसं चेति वर्णकृत्॥

श्लोक 80

कालेयकलताम्रास्थिहेमकालारसोत्तमैः।
लेपः सगोमयरसः सवर्णकरणः परम्॥

श्लोक 81

अयोरजःसकासीसं त्रिफलाकुसुमानि च।
प्रलेपः कुरुते कार्ष्ण्यं सद्य एव नवत्वचि॥

श्लोक 82

दग्धयानूपसत्वानां श्लक्ष्णचूर्णितया त्वचा।
भल्लाततैलप्लुतया शुक्लमालेपयेद्व्रणम्॥

श्लोक 83

सप्तरात्रिस्थतं क्षीरे छागले रोहिणीफलम्।
तैनेव पिष्ट्वा सुश्लक्ष्णं कृष्णमालेपयेद्व्रणम्॥

श्लोक 84

नवं कपालिकामूलं वैदुलं सस्थिराह्वयम्।
कासीसं मधुकं लेपो व्रणे कृष्णे मधुद्रुतः॥

श्लोक 85

कपित्थान्मांसमुध्दृत्य मूत्रस्याज्यस्य पूरणम्।
क्षिपेच्चात्र मनोह्वालवंशनिर्लेखरोचनाः॥

श्लोक 86

कासीसं प्रपुनाटञ्च मासं न्यस्तं ततो भुवि।
अधोऽर्जुनस्य तच्छुक्लव्रणालेपः सवर्णकृत्॥

श्लोक 87

दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम्।
रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता।
चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी॥

श्लोक 88

जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम्।
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति॥