अष्टाङ्गसंग्रहः सूत्रस्थानम् त्रिंशोऽध्यायः

श्लोक 1

अथातो धूमपानविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

धूमो हि शिरोऽक्षिकर्णशूलाभिष्यन्दगौरवार्धावभेदकपीनसकासश्वासास्यवैरस्यप्रसेकवैस्वर्यपूतिघ्राणमुखहिध्मागलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रहक्रिमिकण्डूपाण्डुत्वक्वेशदोषक्षवथुनाशबाहुल्यतन्द्रातिनिद्राक्रथनादिजत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते।
तथा शिरःकपालेन्द्रियमनोबृंहणप्रसादनाय च॥

श्लोक 3

शीतद्रव्यनिर्वृत्तोऽप्यग्निसंयोगादुष्णतया पित्तरक्तविरुद्धः।
स त्रिविधो भवति।
शमनो बृंहणः शोधनश्च।
तथा कासघ्नो वामनो व्रणधूपनश्च।
तत्र शनमः प्रायोगिको मध्यम इति पर्यायः।
बृंहणः स्नेहनो मृदुरिति।
शोधनो विरेचनस्तीक्ष्ण इति च॥

श्लोक 4

अधूमार्हास्तु विरिक्तदत्तबस्तिरात्रिजागरिताभिहतशिरोमधुदधिदुग्धमद्यस्नेहयवागूविषपयःपीतमत्स्याशितपाण्डुरोगप्रमेहोदराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनोऽत्युष्णोऽन्येपि च।
एषां हि भ्रमज्वरशिरोऽभितापेन्द्रियोपघाततालुशोषपाकधूमायनच्छर्दिमूर्छारक्तपित्तार्दितानि मृत्युं वा धूमो जनयति।
अतिमात्रश्चान्येषामपि॥

श्लोक 5

तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिःकषायपाननस्यास्यालेपनाञ्जनपरिषेकान् स्निग्धरूक्षशीतान् प्रयुञ्जीत।
एतेन सर्वधूमोपघातप्रतिकारा व्याख्याताः॥

श्लोक 6

विशेषतस्तु सर्वस्रोतोगते धूमे भवन्त्यूषाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः।
तत्र घृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम्।
कटुतिक्तैरपि च नस्यगण्डूषाः॥

श्लोक 7

पानकालास्त्वष्टौ प्रायोगिकस्य निशामूत्रशकृद्दन्तधाचनस्वेदनस्याहारशस्त्रकर्मान्ताः।
एकादश मृदोः।
क्षुतव्यवायहसितचिरासितजृम्भितमूत्रशकृद्दन्तधावनतर्पणपुटपाकशस्त्रकर्मान्ताः।
पञ्च तीक्ष्णस्य नस्याञ्जनछर्दितस्नानाहस्स्वप्नान्ताः।
एषु हि कालेषु वातकफोत्क्लेशो भवति॥

श्लोक 8

नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनिष्ठिकाङ्गुष्ठपरिणाहं राजमाषवाहिधूमवर्तिप्रवेशाच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भं शमनादिषु क्रमादातुराङ्गुलमानेन चत्वारिंशद्द्वात्रिंशच्चतुर्विंशत्यङ्गुलं कुर्यात्।
कासघ्ने वमने च दशाङ्गुलम्।
व्रणधूपनार्थेऽष्टाङ्गुलम् कलायपरिमण्डलं कुलत्थवाहि स्रोत इति।
एवं हि धूमो दूरात् प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्नबाधको भवति॥

श्लोक 9

कासघ्नादिषु तु नेत्राभावे नलवंशैरण्डादीनामन्यतमा नाडीं योजयेत्॥

श्लोक 10

यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वादशाङ्गुलामिषीकामम्भस्यहोरात्रोषितां कृत्वा लेपयेत्।
तत्र च नवाङ्गुलगर्भां पञ्चप्रलेपामङ्गुष्ठस्थूलां यवमध्यां छायाशुष्कां वर्तिं कृत्वा विगतेषीकां च स्नेहाक्तामङ्गारेषु प्रदीप्य नेत्रमूलच्छिद्रे च निधाय यथार्हं पानायोपनयेत्॥

श्लोक 11

अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोच्छ्वासनिश्वासो विवृतौष्ठदशनो नेत्रग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुखेनोत्सृजेत्।
मुखेन तु मुखेनैव।
न नासया दृग्विघातभयात्॥

श्लोक 12

तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन् वापानां स्त्रींश्च पर्यायान्।
कण्ठादूर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुखेन।
कण्ठे तु पूर्वमास्येन।
परं चाहोरात्रस्य द्विः पिबेत्॥

श्लोक 13

स्नेहिकं त्रींस्त्रींश्चतुरश्चतुरो वापानान् यावद्बास्रप्रवृत्तिस्तथा सकृदहोरात्रस्य॥

श्लोक 14

तीक्ष्णं नासाभ्यामेव चतुरश्चतुरश्चापानान् यावद्वा स्रोतोलाघवम्।
तथा त्रिश्चतुर्वाहोरात्रस्य।
तत्राक्षेपविसर्गावापानमित्याहुः॥

श्लोक 15

कासघ्नं तु चूर्णं गुटिकां वा निर्धूमदीप्तस्थिराङ्गारपूर्णे सुसस्थिते शरावे प्रक्षिप्यान्येन मूर्ध्नि प्रवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्स्रोतसि नेत्रं कृत्वा मुखेनैव धूमं पिबेत्।
उरःप्राप्तं च मुखेनैवोद्वमेत्।
प्रशान्ते च धूमे पुनः क्षिपेत्।
पिबेच्चादोषशुद्धेर्लाघवाद्वा॥

श्लोक 16

तद्वद्वामनमपि कृसरामनतिघनां पीत्वा पिबेत्।
तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमनाय च॥

श्लोक 17

धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः।
अतियोगे प्रागुक्तमिति।
भवति चात्र॥

श्लोक 18

हृत्कण्ठेन्द्रियसंशुद्धिः शिरसो लाघवं शमः।
यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणम्॥

श्लोक 19

शमनो वातकफयोः संसर्गे स्वस्थकर्मणि।
बृंहणो मारुते शस्तो धूमः संशोधनः कफे॥