श्लोक 89
तत्र स्युर्वलयस्तिस्रः शङ्खावर्तनिभास्तु ताः प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता
श्लोक 90
उत्सर्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता तस्याधः संवरणी स्यादेकाङ्गुलसमा मता
श्लोक 91
अर्द्धाङ्गुलप्रमाणं तु बुधैर्गुदमुखं मतम् मलोत्सर्गस्य मार्गोऽय पायुर्देहे विनिर्मितः
श्लोक 92
पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः तयोः कुकुन्दरे स्यातां सक्थिनोत्वङ्गमष्टमम्
श्लोक 93
तदुपाङ्गानि च ब्रूमो जानुनी पिण्डकाद्वयम् जंघे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा
श्लोक 94
पादावङ्गुलयस्तत्र दश तासां नखा दश अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम्
श्लोक 95
आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते
आर्त्तवं चाथ धातूनां मलास्तदुपधातवः
श्लोक 96
आशयाश्च कलाश्चापि मर्माण्यथ च सन्धयः शिराश्च स्नायवश्चापि धमन्यः कण्डरास्तथा
श्लोक 97
रन्ध्राणि भूरि स्रोतांसि जालैः कूर्च्चाश्च रज्जवः सेवन्यश्चाथ सङ्घाताः सीमान्ताश्च तथा त्वचः
श्लोक 98
लोमानि लोमकूपाश्च देह एतन्मयो मतः वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः
श्लोक 99
विकृताविकृता देहं घ्नन्ति ते वर्द्धयन्ति च ते व्यापिनोऽपि हृन्नाभ्योरधो मध्योर्ध्वसंश्रयाः वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात्
श्लोक 100
धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः वातपित्तकफा एते त्रयो दोषा इति स्मृताः
श्लोक 101
ते धातवोऽपि विद्वद्भिर्गदिता देहधारणात्
श्लोक 102
दोषधातुमलादीनां नेता शीघ्रः समीरणः रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः
श्लोक 103
उत्साहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः
श्लोक 104
सम्यग् गत्या च धातूनामन्द्रि याणाञ्च पाटवैः अनुगृह्णात्यविकृतो हृदयेन्द्रि यचित्तधृक्
श्लोक 105
रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः खरो मृदुर्योगवाही संयोगादुभयार्थकृत्
श्लोक 106
दाहकृत् तेजसा युक्तः शीतकृत्सोमसंश्रयात् विभागकरणाद्वायुः प्रधानं दोषसंग्रहे
श्लोक 107
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रि यम् स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः
श्लोक 108
उदानस्तदनुप्राणः समानोऽपान एव च व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः
श्लोक 109
कण्ठे हृदि तथाऽधस्तात्कोष्ठवह्नेर्मलाशये सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत्
श्लोक 110
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः
श्लोक 111
ऊर्ध्वजत्रुगतान् रोगान्विदधाति विशेषतः यो वायुः प्राणनामाऽसौ मुखं गच्छति देहधृक्
श्लोक 112
सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्
श्लोक 113
आमपक्वाशयचरः समानो वह्निसङ्गतः सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि
श्लोक 114
स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि पक्वाशयालयोऽपानः काले कर्षति चाप्ययम्
श्लोक 115
समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः क्रुद्धस्तु कुरुते रोगान् घोरान्वस्तिगुदाश्रयान्
श्लोक 116
शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान् कृत्स्नदेहचरो व्यानो रससंवाहनोद्यतः
श्लोक 117
स्वेदाऽसृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि प्रस्पन्दनञ्चोद्वहनं पूरणञ्च विरेचनम्
श्लोक 118
धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ताः नभस्वतः गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्
श्लोक 119
क्रुद्धः सः कुरुते रोगान् प्रायशः सर्वदेहगान् युगपत् कुपिता एते देहं भिन्द्युरसंशयम्
श्लोक 120
पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम् सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः
श्लोक 121
पाचकं रञ्जकञ्चापि साधकालोचके तथा भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः
श्लोक 122
अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्वये त्वचि सर्वशरीरेषु पित्तं निवसति क्रमात्
श्लोक 123
पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् रसमूत्रपुरीषाणि विरेचयति नित्यशः
श्लोक 124
इत्यलमप्रकृतिचिन्तनेन पुनः प्रकृतमनुसरति रञ्जकं नाम यत्पित्तं तद्र सं शोणितं नयेत् यत्तु साधकसंज्ञं तत्कुर्याद्बुद्धिं धृतिं स्मृतम्
श्लोक 125
यदालोचकसंज्ञं तद्रू पग्रहणकारणम् भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाचकम्
श्लोक 126
श्लेष्माश्वेतो गुरुः स्निग्धः पिच्छिलः शीतलस्तथा तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत्
श्लोक 127
कफस्यैतानि नामानि क्लेदनश्चावलम्बनः रसनः स्नेहनश्चापि श्लेषणः स्थानभेदतः
श्लोक 128
आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात्
श्लोक 129
क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि अनुगृह्णाति च श्लेष्मस्थानान्युदककर्मणा
श्लोक 130
रसयुक्तात्मवीर्येण हृदयस्यावलम्बनम् त्रिकसन्धारणं चापि विदधात्यवलम्बनः
श्लोक 131
उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः यतो रसान्विजानीतो रसनारसनौ समौ
श्लोक 132
स्नेहनः स्नेहदानेन समस्तेन्द्रि यतर्पणः श्लेषणः सर्वसन्धीनां संश्लेषं विदधात्यसौ
श्लोक 133
एते सप्त स्वयं स्थित्वा देहं दधति यन्नृणाम् रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः
श्लोक 134
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे गर्भोत्पादश्च कर्माणि धातूनां कथितानि हि
गत्यर्थो रस धातुर्यस्ततोऽभवदयं रसः सद्र वं सकलं देहे रसतीति रसः स्मृतः
श्लोक 135
सम्यक्पक्वस्य भुक्तस्य सारो निगदितो रसः स तु द्र वः सितः शीतः स्वादुः स्निग्धश्चलो भवेत्
श्लोक 136
सर्वदेहचरस्यापि रसस्य हृदयं स्थलम् समानमरुता पूर्वं यदयं हृदये धृतः
श्लोक 137
आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः
श्लोक 138
मन्दवह्निविदग्धस्तु कटुर्वाऽम्लो भवेद्र सः स कुर्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि
श्लोक 139
यदा रसो यकृद्याति तत्र रञ्जकपितत्तः रागंपाकं च सम्प्राप्य स भवेद्र क्तसंज्ञकः
श्लोक 140
रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम् स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत्
श्लोक 141
यकृत् प्लीहा च रक्तस्य मुख्यस्थानन्तयोः स्थितम् अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत्
श्लोक 142
शोणितं स्वाग्निना पक्वं वायुना च घनीकृतम् तदेव मांसं जानीयात्तस्य भेदानपि ब्रुवे
श्लोक 143
यथाऽथमूष्मणा युक्तो वायुः स्रोतांसिदारयेत् अनुप्रविश्य पिशितं पेशीर्विभजते तथा
श्लोक 144
मांसपेश्यः समाख्याता नृणां पञ्च शतानि हि
श्लोक 145
तासां शतानि चत्वारि शाखासु कथितान्यथ कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः ग्रीवाया ऊर्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकीर्त्तिताः
श्लोक 146
स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि
श्लोक 147
पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता मेहनमुष्कजाः स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः
श्लोक 148
शिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम् पेशीभिःसंवृतान्येव बलवन्ति भवन्ति हि
श्लोक 149
यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते तदतीव गुरु स्निग्धं बलकार्यतिबृंहणम्
श्लोक 150
मेदो हि सर्वभूतानामुदरेष्वस्थि संस्थितम् अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत्
श्लोक 151
मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितम्
श्लोक 152
तदस्थिसंज्ञां लभते स सारः सर्वविग्रहे अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः
श्लोक 153
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनो ध्रुवम् तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् अस्थीनि न विनश्यन्ति सारा एतानि सर्वथा
श्लोक 154
शल्यतन्त्रेऽस्थिखण्डानांशतत्रयमुदाहृतम्
श्लोक 155
तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च सविंशतिशतं त्वस्थ्नां शाखासु कथितं बुधैः
श्लोक 156
पार्श्वयोः श्रोणिफलके वक्षःपृष्ठोदरेषु च जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम् ग्रीवायामूर्ध्वगां विद्यादस्थ्नां षष्टिंत्रिसंयुताम्
श्लोक 157
एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा तरुणानि कपालानि रुचकानि भवन्ति हि वलयानीति तानि स्युर्नलकानि च कानि चित्
श्लोक 158
अक्षिकोश श्रुतिघ्राणग्रीवासु तरुणानि च
श्लोक 159
शिरः शङ्खकपोलेषु ताल्वं सप्रोथजानुषु कपालानि भवन्त्येषु दन्तेषु रुचकानि च
श्लोक 160
पार्ष्ण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु पादयोर्वलयानि स्युर्नलकानि ब्रुवेऽधुना
श्लोक 161
हस्ते पादाङ्गुलितले कूर्च्चे च मणिबन्धके बाहूजङ्घाद्वये चापि जानीयान्नलकानि तु
श्लोक 162
मांसान्यन्त्राणि बद्धानि शिराभिः स्नायुभिस्तथा अस्थीन्यालम्बनं कृत्वा न दीर्यन्ते पतन्ति च
श्लोक 163
अस्थि यत् स्वाग्निना पक्वं तस्य सारो भवेद्घनः यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते
श्लोक 164
स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः
श्लोक 165
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः
श्लोक 166
यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः
श्लोक 167
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते
श्लोक 168
तत्रग्रहण्यामामाशयपक्वाशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाऽहारः पच्यते स कटुश्च भवतीत्याहग्रहण्यां पच्यते कोष्ठे वह्निना जायते कटुः इति
श्लोक 169
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः पञ्चाहारगुणान् स्वान् स्वान्पार्थिवादीन् पचन्त्यनु
श्लोक 170
पञ्च भूतात्मके देहे आहारः पाञ्चभौतिकः विपक्वः पञ्चधा सम्यग्गुणान्स्वानभिवर्द्धयेत् इति
श्लोक 171
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः कटुतिक्तकषायाणां विपाको जायते कटुः इति
श्लोक 172
आहारस्य रसः सारः सार हीनो मलद्र वः शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात्
श्लोक 173
शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते समानवायुना नीतन्तत्तिष्ठति मलाशये