भावप्रकाशः/पूर्वखण्डे प्रकरण‌ 3 contd.

श्लोक 261

एवमेव शरीरेस्मिन्यावन्तः सन्धयः स्मृताः स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः

श्लोक 262

शतानि नव जायन्ते शरीरे स्नायवो नृणाम् तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः

श्लोक 263

शाखासु षट्शतानि स्युः कोष्ठे त्रिंशच्छतद्वयम् ग्रीवाया ऊर्ध्वदेशे तु स्नायूनां सप्ततिः समृता

श्लोक 264

धमन्यो नाभितो जाताश्चतुर्विंशतिसंख्यया दशोर्ध्वगा दशाधोगाः शेषास्तिर्यग्गताः स्मृता

श्लोक 265

यथा स्वभावतः खानि मृणालेषु विसेषु च धमनीनां तथा खानि रसो यैरभितश्चरेत्

श्लोक 266

पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भाबयन्ति पञ्चेन्द्रि यं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले

श्लोक 267

महत्यः स्नायवः प्रोक्ताः कण्डरास्तास्तु षोडश प्रसारणाकुञ्चनयोर्दृष्टं तासां प्रयोजनम्

श्लोक 268

चतस्रो हस्तयोस्तासां तावत्यः पादयोः स्मृताः ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः

श्लोक 269

नेत्रश्रवणनासानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते मुखमेहनपायूनामेकैकं रन्ध्रमुच्यते

श्लोक 270

दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः स्त्रीणामन्यानि च त्रीणि स्तनयोर्गर्भवर्त्मनि

श्लोक 271

मनः प्राणान्नपानीयदोषधातूपधातवः धातूनां च मला मूत्रं मलमित्यादयस्तनौ

श्लोक 272

सञ्चरन्ति हि यैर्मागैस्तानि स्रोतांसि सञ्जगुः बहूनि तानि संख्याय शक्यन्ते नैव भाषितुम्

श्लोक 273

जालानि तु शिरास्नायुमांसास्थ्नामुद्भवन्ति हि तानि चत्वारि चत्वारि सर्वाण्येव च षोडश

श्लोक 274

कूर्चा स्युर्हस्तयोर्द्वौ तु तावन्तौ पादयोरपि ग्रीवायामेक एकस्तु मेढ्रे सर्वेऽपि षट् स्मृताः

श्लोक 275

पृष्ठवंशस्योभयत्र महत्यो मांसरज्जवः चतस्रो मांसपेशीनां बन्धनं तत्प्रयोजनम्

श्लोक 276

सेवन्यः सप्त तासां तु भवेयुः पञ्च मस्तके एका शेफसि जिह्वायामेका विध्येन्न ताः क्वचित्

श्लोक 277

चतुर्दशास्थ्नां सङ्घातास्तेषां त्रयो गुल्फजानुवंक्षणेषु एतेनेतरसक्थिबाहू च व्याख्यातौ त्रिकशिरसोरेकैकम्

श्लोक 278

चतुर्दशैव सीमन्ताः कथिता मुनिपुङ्गवैः सङ्घाताः सीविता यैस्तु सीमन्तास्ते प्रकीर्त्तिताः

श्लोक 279

क्षीरस्य पच्यमानस्य यथा सन्तानिका भवेत् पच्यमानस्य शुक्रस्य रजसश्च तथा त्वचः पूर्वावभासिनी तासां सिध्मस्थानं च सा स्मृता

श्लोक 280

द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः

श्लोक 281

तृतीया तु भवेच्छ्वेता स्थानं चर्मदलस्य सा

श्लोक 282

ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका

श्लोक 283

पिञ्चमी वेदिनी नाम्ना पञ्चभागप्रमाणिका विसर्पकुष्ठाधिष्ठाना ज्ञेया षष्ठी तु रोहिणी विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः

श्लोक 284

स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा

श्लोक 285

अस्थ्नो मलानि लोमानि चासंख्यानि भवन्ति हि सन्ति यावन्ति लोमानि तावन्तो लोमकूपकाः

श्लोक 286

अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते सन्निवेशश्च गात्राणां नात्रास्ते कारणान्तरम्

श्लोक 287

अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्यगुणा गुणाः
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः

श्लोक 288

दन्तानां पतनं जन्म पुनः पाते त्वसम्भवः तलेष्वनुद्भवो लोम्नामेतत्सर्वं स्वभावतः

श्लोक 289

गर्भाशये निपतितं यादृक्शुक्रं तथाऽतवम् तादृगेव द्र वीभूतं प्रथमे मासि तिष्ठति

श्लोक 290

मरुत्पित्तकफैस्तत्स्थैः पच्यमानो द्वितीयके कललस्थमहाभूतसमुदायो घनीभवेत्

श्लोक 291

तृतीये मासि शिरसो हस्तयोः पादयोस्तथा पिण्डकाः पञ्च सिध्यन्ति सूक्ष्माङ्गावयवास्तनोः

श्लोक 292

सर्वाण्यङ्गान्युपाङ्गानि चतुर्थे स्युः स्फुटानि हि हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च

श्लोक 293

तस्माच्चतुर्थे गर्भस्तु नाना वस्तूनि वाञ्छति ततो द्विहृदया यत्स्यान्नारी दौहृदिनी मता

श्लोक 294

दौहृदावज्ञया कुब्जं कुणिं षण्ढं च वामनम् विकृताक्षमनक्षं वा पुत्रं नारी प्रसूयते

श्लोक 295

यतः स्त्री दौहृदं प्राप्य वीर्यवन्तं चिरायुषम् पुत्रं प्रसूयते तस्मात्तस्यै वाच्छितमर्पयेत्

श्लोक 296

इन्द्रि यार्थांस्तु यान्यान्सा भोक्तुमिच्छति गर्भिणी गर्भबाधाभयात्तांस्तान्भिषगाहृत्य दापयेत्

श्लोक 297

सा प्राप्तदौहृदा पुत्रं जनयेत्तु गुणान्वितम् अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम्

श्लोक 298

येषु येष्विन्द्रि यार्थेषु दौहृदे साऽवमानिता प्रसूयते सुतं सार्तिं तस्मिंस्तस्मिंस्तदिन्द्रि ये

श्लोक 299

राजसन्दर्शने यस्या दौहृदंजायते स्त्रियाः अर्थवन्तं महाभागं कुमारं सा प्रसूयते

श्लोक 300

दुकूलपट्टकौशेयभूषणादिषु दौहृदात् अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते

श्लोक 301

आश्रमे संयतात्मानं धर्मशीलं प्रसूयते देवताप्रतिमायां तु प्रसूते पार्षदोपमम्

श्लोक 302

दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते रक्ताक्षं लोमशं शूरं महिषामिषदौहृदात्

श्लोक 303

वाराहमांसे स्वप्नालुं शूरं सञ्जनयेत्सुतम् मृगमांसे तु जङ्घालं विक्रान्तं वनचारिणम्

श्लोक 304

अतोऽनुक्तेषु या नारी दौहृदं विदधाति हि शरीराचारशीलैः सा समानं जनयिष्यति

श्लोक 305

पञ्चमे मानसं षष्ठे बुद्धिश्चातिप्रबुद्ध्य्ते सर्वाण्यङ्गान्युपाङ्गानि भृशं व्यक्तानि सप्तमे

श्लोक 306

ओजोऽष्टमे सञ्चरति माता पुत्रौ मुहुः क्रमात् तेन तौम्लानमुदितौ स्यातां जातो न जीवति

श्लोक 307

न जीवत्यष्टमे जातस्तत्रौजो न स्थिरं यतः तथा नेरृत्यभागत्वाद्दापयेत्तद्वलि ततः

श्लोक 308

नवमे दशमे मासि नारी बालं प्रसूयते एकादशे द्वादशे वा ततोऽन्यत्र विकारतः

श्लोक 309

शिरो भवति चाङ्गस्य पूर्वमित्याह शौनकः शिरस्येवोपजायन्ते प्रधानानीन्द्रि याणि यत्

श्लोक 310

हृदयं जायते पूर्वं कृतवीर्योऽवदन्मुनिः बुद्धेश्च मनसश्चापि यतस्तत्स्थानमीरितम्

श्लोक 311

पाराशर्य इति प्राह पूर्वं नाभिसमुद्भवः प्राणो यत्र स्थितो देहं वर्द्धयत्यूष्मसंयुतः

श्लोक 312

पाणिपादं भवेत्पूर्वं मार्कण्डेयमुनेर्मतम् देहिनः सकलाश्चेष्टाः पाणिपादाश्रया यतः

श्लोक 313

प्रथमं जायते कोष्ठं ततः सर्वांगसम्भवः एतत्तुं कथयामास गौतमो मुनिपुंगवः

श्लोक 314

सर्वाण्यङ्गान्युपाङ्गानि युगपत्सम्भवन्ति हि सूक्ष्मत्वान्नोपलभ्यन्ते मतं धन्वन्तरेरिदम्

श्लोक 315

आम्रस्याणुफले भवन्ति युगपन्मांसास्थिमज्जादयो लक्ष्यन्ते न पृथक्पृथक्तनुतया पुष्टास्त एव स्फुटाः एवं गर्भसमुद्भवे त्ववयवाः सर्वे भवन्त्येकदा लक्ष्याः सूक्ष्मतया न ते प्रकटतामायान्ति वृद्धिं गताः

श्लोक 316

अथ शरीरे पितृज-मातृज-रसजात्मजा भागा उच्यन्ते तत्र केशाःश्मश्रु च लोमानि नखा दन्ताः शिरास्तथा धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि

श्लोक 317

मांसासृङ्मज्जमेदांसि यकृत्प्लीहान्त्रनाभयः हृदयं च गुदं चापि भवन्त्येतानि मातृतः

श्लोक 318

शरीरोपचयो वर्णो बलं देहस्थितिस्तथा रसादेतानि जायन्ते भिषजो मुनयो जगुः

श्लोक 319

ज्ञानं विज्ञानमायुश्च सुखदुःखादिकं तथा इन्द्रि याणि च सर्वाणि भवन्त्येतानि चात्मनः

श्लोक 320

अग्नीषोमौ मही वायुर्नभः सत्त्वं रजस्तमः पञ्चेन्द्रि याणि भूतात्मा गर्भं सञ्जीवयन्ति हि

श्लोक 321

गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः संलग्ना तेन गर्भस्य वृद्धिर्भवति नित्यशः

श्लोक 322

निःश्वासोच्छ्वाससंक्षोभस्वप्नांशान्सोऽधिगच्छति मातुर्निःश्वसितोच्छ्वाससंक्षोभस्वप्नसंभवान्

श्लोक 323

गर्भस्य नाभिमध्ये तु ज्योतिःस्थानं ध्रुवं स्मृतम् तदाधमति वातश्च देहस्तेनास्य वर्धते

श्लोक 324

ऊष्मणा सहिताश्चापि दारयत्यस्य मारुतः ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांसि तु यथा तथा

श्लोक 325

दृष्टिश्च रामकूपाश्च न वर्धन्ते कदा च न ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम्

श्लोक 326

शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः

श्लोक 327

चेतनानामधिष्ठानं मनो देहश्च सेन्द्रि यः केशलोमनखाग्रान्नमलद्र वगुणैर्विना

श्लोक 328

वाताल्पत्वादयोगाच्च वायोः पक्वाशयस्य च वातमूत्रपुरीषाणि गर्भस्थो न विमुञ्चति

श्लोक 329

जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति

श्लोक 330

गर्भिणी प्रथमादह्नः प्रहृष्टा भूषिता शुचिः भवेच्छुक्लाम्बरधरा गुरुविप्रार्चने रता

श्लोक 331

भोज्यं तु मधुरप्रायं स्निग्धं हृद्यं द्र वं लघु
सस्कृतं दीपनीयं तु नित्यमेवोपयोजयेत्

श्लोक 332

गर्भिणी न तु कुर्वीत व्यायाममपतर्पणम् व्यवायं च न सेवेत न कुर्यादतितर्पणम्

श्लोक 333

रात्रौ जागरणं शोकं यानस्यारोहणं तथा
रक्तमोक्षं वेगरोधं न कुर्यादुत्कटासनम्

श्लोक 334

दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते

श्लोक 335

मलिनां विकृताकारां हीनाङ्गीं न स्पृशेत्स्त्रियम् न जिघ्रेदपि दुर्गन्धं न पश्येन्नयनाप्रियम्

श्लोक 336

वचांसि नापि शृणुयात्कर्णयोरप्रियाणि च नान्नं पर्युषितं शुष्कं भुञ्जीत क्वथितं न च

श्लोक 337

चैत्यश्मशानवृक्षांश्च भावांश्चाप्ययशस्करान् बहिर्निष्क्रमणं क्रोधं शून्यागारं च वर्जयेत्

श्लोक 338

नोच्चैर्ब्रूयान्न तत्कुर्याद्येन गर्भो विनश्यति
तैलाभ्यङ्गोद्वर्तनं च नात्यर्थं कारयेदपि

श्लोक 339

नामृद्वास्तरणं कुर्यान्नात्युच्चं शयनासनम् एतांस्तु नियमान्सर्वान्यत्नात्कुर्वीत गर्भिणी

श्लोक 340

नवमे दशमे मासि नारी गर्भं प्रसूयते एकादशे द्वादशे वा ततोऽन्यत्र विकारतः

श्लोक 341

अष्टहस्तायतं चारु चतुर्हस्तविशालकम् प्राचीद्वारमुदग्द्वारं विदध्यात्सूतिकागृहम्

श्लोक 342

जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने सशूले जघने नारी विज्ञेया प्रसवोत्सुका

श्लोक 343

आसन्नप्रसवायास्तु कटीपृष्ठं तु सव्यथम् भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च

श्लोक 344

तैलेनाभ्यक्तगात्रान्तां संस्नातामुष्णवारिणा यवागूं पाययेत्कोष्णां मात्रया घृतसंयुताम्

श्लोक 345

कृतोपधाने मृदुनि विस्तीर्णे शयने शनैः
अभुग्नसक्थी चोत्ताना नारी तिष्ठेद्व्यथाऽन्विता

श्लोक 346

चतस्रोऽशकनीयाश्च स्रावणे कुशला हिताः वृद्धाः परिचरेयुस्ताः सम्यक्छिन्ननखाः स्त्रियः

श्लोक 347

अपत्यमार्गं तैलेन समभ्यज्य समन्ततः एका तु तासु सुभगे प्रवाहस्वेति तां वदेत्

श्लोक 348

अव्यथा मा प्रवाहिष्ठाः प्रावहेथा व्यथा यदि प्रवाहेथाः शनैः पूर्वंप्रगाढं च ततः परम्

श्लोक 349

ततो गाढतमं गर्भे योनिद्वारमुपागते अपरासहितो गर्भो यावत्पतति भूतले

श्लोक 350

मूकं वा बधिरं कुब्जं श्वासकासक्षयान्वितम् सूते स्रस्ततनुं बालमकाले तु प्रवाहणात्