अष्टाङ्गसंग्रहः शरीरस्थानम् तृतीयोऽध्यायः

श्लोक 1

अथातो गर्भोपचरणीयमध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

प्रथमे मासि गर्भिणी क्षीरमनुपसंस्कृतं मात्रावच्छीतं काले काले पिवेत्।
तस्मिन्नपि चाद्यं द्वादशरात्रं क्षीरोद्भवं सर्पिश्शालिपर्णीपलाशाभ्यां शृतं कनकरजतक्वथितं शीतोदकानुपानं पिबेत्।
स्वादु शीतं द्रवप्रायं सात्म्यं च सायंप्रातराहारयेत्।
न चाभ्यङ्गोद्वर्तनानि सेवेत।
यथोक्तानि च दोषकराणि परिहरेदापञ्चमान्मासाद्विशेषेण॥

श्लोक 3

द्वितीये मधुरौषधसिद्धं पयः पिबेत्।
तृतीये तदेव सर्पिर्मधुभ्याम्।
चतुर्थेऽक्षमात्रनवनीतयुक्तम्।
पञ्चमे क्षीरसर्पिः।
षष्ठे तदेव मधुरौषधसिद्धम्।
सप्तमे च।
तस्मिंस्तु गर्भस्य केशोत्पत्त्या मातुर्विदाहो भवतीति स्त्रियो भाषन्ते।
नेति भगवानात्रेयः।
गर्भोत्पीडनात्तु दोषा हृदयं प्राप्य विदहन्ति ततः कण्डूर्जायते कण्ड्वा किक्किसम्॥

श्लोक 4

तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रमस्यै दद्यात्।
चन्दनमृणालकल्कैश्च स्तनोदरं मृद्नीयात्।
शिरीषधातकीसर्षपमधुकचूर्णैर्वा।
कुटजार्जकबीजमुस्ताहरिद्राकल्कैर्वा।
निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा।
शशहरिणपृषतरुधिरयुक्तया वा त्रिफलया।
करवीरकरञ्जपत्रकल्कसिद्धेन च तैलेनाभ्यङ्गः।
परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा।
कण्डूयनं वर्जयेत्।
त्वग्भेदवैरूप्यपरिहारार्थं स्नानोद्वर्तनं च शीलयेत्।
मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत॥

श्लोक 5

अष्टमे क्षीरयवागूं सर्पिष्मतीं पिबेत्।
नेति खण्डकाप्यः गर्भस्य पैङ्गल्याबाधभयात्।
अस्तु पैङ्गल्याबाधस्तथाप्येवं कुर्वीत।
नीरुजं बलवर्णसत्वसंहननसम्पदुपेतं ज्ञातीनामग्रगण्यमपत्यं जनयतीति भगवानात्रेयः॥

श्लोक 6

बदरोदकेन पललपयोदधिमस्तुतैललवणफलघृतमधुयुक्तेनास्थापयेत्।
पुराणविड्विशुध्यर्थं मधुकादिमधुरौषधसिद्धेन च तैलेनानुवासयेदनुलोमनाय वायोः।
अनुलोमे हि मारुते सा सुखमनुपद्रवा प्रसूते॥

श्लोक 7

गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेद्वा।
तथास्या विवृतमार्गतया सम्यगौषधमनुप्रविशति॥

श्लोक 8

तत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपाचरेदाप्रसवकालादिति भगवान् धन्वन्तरिः॥

श्लोक 9

नवमे तु तत एवानुवासनतैलात् पिचुं योनौप्रणयेद्गर्भमार्गाशययोः स्नेहनार्थमिति।
अनेन प्रथममासादाराभ्य क्रमेण गर्भिण्याः प्रसवकाले गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदु भवति।
वायुश्चानुलोमः सम्पद्यते।
मूत्रपुरीषं च प्रकृतिभूतं जरायुश्च मार्गं प्रतिपद्यते।
पुत्रं चेष्टं कल्यमायुष्मन्तं सुखिनं सुखेन काले बलवती प्रसूते॥

श्लोक 10

बिल्वकार्पासीपफ्फणापाटलीपिचुमन्दाग्निमन्थमासीवर्धमानकपत्रभङ्गक्वाथेन शीतेन सर्वगन्धोदकेन वा गर्भिण्याः प्रत्यहं स्नानमुपदिशेत्॥

श्लोक 11

प्राक् चैवास्या नवमान्मासादपहृतास्थिशर्कराकपाले प्रशस्ते देशे वास्तुविद्याप्रशस्तं सर्वर्तुसुखमुपहृतसर्वोपकरणं सन्निहितज्वलनं प्राग्द्वारमुदग्द्वारं वा सूतिकागारं कारयेत्॥

श्लोक 12

तत्रानुकूलेषु नक्षत्रादिषु पुण्याहशब्देन गोब्राह्मणवृद्धान् नत्वा आवर्तमाना प्रदक्षिणं प्रविश्य बहुशः प्रसूताभिरनुरक्ताभिरविषादाभिः क्लेशक्षमाभिः परिवृता स्वस्त्ययनपरानुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत।
स्वल्पेऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रणिदद्यात्॥

श्लोक 13

तत्रासन्नप्रसवायाः क्लमो ग्लानिर्मुक्तबन्धने इवाक्षिणी निष्ठीविका मूत्रपुरीषबाहुल्यं शिथिलकुक्षिताधोगुरुत्वमन्नानभिलाषो वेदनोदरहृदयकटीबस्तिवङ्क्षणेषु तोदभेदशूलस्फुरणस्रवणानि च योन्यां भवन्ति।
तदनन्तरमावीनां प्रादुर्भावो गर्भोदकप्रवाहश्च॥

श्लोक 14

अथैनामुपस्थितगर्भां कृतकौतुकमङ्गलां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तां सघृतां यवागूं पाययेत्।
ततः सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूमिशयने शयानामुत्तानामाभुग्नसक्थिपृष्ठामहतवाससोऽशङ्कनीयाः प्रियदर्शनाः परिणतवयसः प्रजननकुशलाः प्रगल्भाः कृत्तनखाः स्त्रियः सूतिकां सूनृताभिर्वाणीभिराश्वासयन्त्यः पर्युपासीरन्॥

श्लोक 15

अथास्यै दद्यात् कुष्ठैलालाङ्गलीवचाचव्यचित्रकचिरिबिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः।
तथा भूर्जपत्रशिंशपासर्जरसान्यतमधूममन्तरान्तरा च। पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या मृद्नीयात्॥

श्लोक 16

एकमवाक् परिवर्तते गर्भः।
तस्य लक्षणम्।
विमुच्य हृदयमुदरमाविशति।
बस्तिशिरोऽवगृह्णाति।
त्वरयन्त्येनामाव्यः।
न चेदेवं परिवर्तते ततो मुहुर्मुहुर्जृम्भणं चङ्क्रमणं च कारयितव्यानन्तरोक्तं विधिम्॥

श्लोक 17

अन्ये तु मुसलेनोलूखलं धान्यपूर्णमाहननीयमित्याहुः।
तत्तु न सम्यक्।
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते।
विशेषतश्च प्रसवकाले प्रचलितसर्वधातुदोषायाः सौकुमार्यत्वान्नार्या मुसलव्यायामेनेरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यादिति॥

श्लोक 18

अथ परिवृत्तगर्भां पर्यङ्कमेनामारोप्य कुशला स्त्री पादतोऽस्या निषण्णाया योनिमनुलोममनुसुखमभ्यज्ज्य स्फिजौ पादाभ्यां पीडयेत्।
योनिं च पुनः पुनः प्रसाधयेत्।
ब्रूयाच्च सुभगे शनैश्शनैः प्रवाहयस्व सुप्रसन्नस्ते मुखवर्णः पुत्रं जनयिष्यतीति॥

श्लोक 19

अन्या तु वामकर्णेऽस्या मन्त्रमिमं जपेत्॥

श्लोक 20

क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः।
सगर्भां त्वां सदा पातु वैशल्यं वा दधात्वपि॥

श्लोक 21

प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने।
कार्तिकेयद्युतिं पुत्रं कार्तिकेयादिरक्षितमिति॥

श्लोक 22

तथा इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि।
उच्चैश्श्चवाश्च तुरगो मन्दिरे निवसन्तु ते॥

श्लोक 23

इदममृतमपां समुद्वृतं वै तव लघुगर्भमिमं प्रमुञ्चतु स्त्री।
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिमिति॥

श्लोक 24

तथा पराऽनुशिष्यात् अनागतायां वेदनायां मा प्रवाहिष्ठाः।
अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थकरमहितं च गर्भस्य श्वासकासशोषकुब्जतादिकारित्वात्।
तथा तेषामेव विधारणमिव वेदनायामप्रवाहणमुपघाताय ततो यथोक्तं कुरुष्व॥

श्लोक 25

शनैश्शनैश्च पूर्वं प्रवाहिष्ठाः।
निर्गमे बाढं गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाप्रसवादिति।
तस्यास्तु प्रवाहमानायाः स्त्रियः शब्दं कुर्युः प्रजाता प्रजाता धन्यं धन्यं पुत्रमिति।
तथास्या हर्षेण प्राणा आप्यायन्ते॥

श्लोक 26

गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेन।
पिण्डीतकेन वा।
बध्नीयाच्च हिरण्यपुष्पीमूलं हस्तपादे धारयेच्च सुवर्चलां विशल्यां वा॥

श्लोक 27

अथ प्रसूताया न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुपपीड्य अन्येन पृष्ठत उपसङ्गृह्य विधुनुयात्॥

श्लोक 28

पार्ष्ण्या वा श्रोणीमाकोटयेत्।
स्फिजौ वोपसंगृह्य सुपीडितं निपीडयेत्।
वेण्याङ्गुल्या वा केशवेष्टितया च कण्ठतालू परामृशेत्॥

श्लोक 29

भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्।
भूर्जगुग्गुलुभ्यां वा।
शालिमूलसिद्धेन वा सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्।
अनभ्यक्तां वा कटुतैलमिश्रैः कल्कीकृतैर्वा तैलाक्तैरालिम्पेत्।
गुडनागरकल्केन वा।
तदेव वा भक्षयेत्।
लाङ्गलीमूलकल्केन वा पाणिमुदरं चालिम्पेत्।
महावृक्षक्षीरं वा मूर्धन्यनुषेचयेत्॥

श्लोक 30

कुष्ठतालीसकल्कं बिल्वबल्वजयूषमैरेयासवसुरामण्डान्यतमेन व्योषतीक्ष्णोष्णेन वाम्लेन कुलत्थरसेन मधुकपिप्पलीसम्पाकेन वा पाययेत्।
पिप्पल्येलाकोलविबिडचव्यचित्रकोपकुञ्चिकाकल्कं वा।
खरस्य वृषभस्य वा जीवतो दक्षिणं कर्णमुद्धृत्य बिल्वकुलत्थबल्वजयूषादीनामाप्लावनानामन्यतमे प्रक्षिप्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेत्॥

श्लोक 31

कुष्ठैलाकल्कं वा सुरया।
अर्कालर्ककषायं वा प्रजातां सुरोन्मिश्रम्।
कुष्ठलाङ्गलिकीमूलककल्कं वा मद्यमूत्रान्यतमेन।
वत्सकादिचूर्णं वा मद्येन।
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्।
ततश्चैनामनुवासनकालेऽनुवासयेत्॥

श्लोक 32

बिल्वबल्बजयूषाद्याप्लावनैश्च फलजीमूतकेक्ष्वाकुधामार्गवकुटजार्ककृतवेधनहस्तिपर्ण्यभीरूपहितैरास्थापयेत्।
सिद्धार्थककुष्ठलाङ्गलिकीमहावृक्षक्षीरमिश्रेण वा सुरामण्डेन।
शाल्मलीवृन्तानि वा स्विन्नान्यापोथ्य पञ्चमूलकषाये विमर्दयेत्।
तेन च पूतेन स्नेहवता फलादियुक्तेन॥

श्लोक 33

यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलोत्तरबस्तिं दद्यात्।
शिग्रुसुमुखमरिचाजाजीचित्रककल्कक्षीरगोमूत्रसिद्धेन वा कटुतैलेनानुवासयेत्।
उमाशाल्मलीपिच्छया वा सघृतया योनिं पूरयित्वा विधुनुयात्।
स्निग्धेन वा कृत्तनखेन पाणिना नालानुसारतोऽपहरेत्॥

श्लोक 34

प्रजातायां चेद्बस्तिमूर्धोदरेषु शूलं मक्कलाख्यं स्यात्तत्र यवक्षारचूर्णं सर्पिषा सुखोष्णोदकेन वा पिबेत्।
वरणादिं वा सपञ्चकोलमेलाप्रतीवापम्॥

श्लोक 35

अथवा वीरतरादिमूषरादिप्रतीवापम्।
लवणचूर्णं वा वत्सकादिनिर्यूहेण।
वत्सकादिं वा मदिरया।
अंशुमतीद्वयक्वाथेन वा मरिचभद्रदारुकल्कम्।
भार्ङ्गीनागरदेवदारुकल्कं वोष्णाम्भसा।
पुराणगुडं वा त्रिकटुत्रिजातकधनिकाचूर्णसंसृष्टं भक्षयेत्॥

श्लोक 36

तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत्।
ततो यस्य कस्यचिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्।
निविष्टां चाशोकरोहिणीबर्हिषोशीरप्रियङ्गुदेवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च गच्छ सुभगे स्वस्थानमिति॥

श्लोक 37

तद्वच्चान्यतमा स्त्री जातमात्रमेव बालं बालोपचरणीयेन विधिनोपपादयेत्।
तमुपदेक्ष्यते तूतारेषु।
अथ सूतिकां बलातैलेनाभ्यज्यात्।
बुभुक्षितां च पञ्चकोलचूर्णेन यवान्युपकुञ्चिकाचव्यचित्रकव्योषसैन्धवचूर्णेन वा युक्तामहःपरिणामिनीं यथासात्म्यं स्नेहमात्रां पाययेत्।
स्नेहायोग्यां वातहरौषधक्वाथं ह्रस्वपज्चमूलक्वाथं वा॥

श्लोक 38

पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण।
तथा न वायुरुदरविकृतिमुत्पादयेदयेदनवकाशत्वात्।
जीएणे तु स्नेहे पूर्वैषधैरेव सिद्धां विदार्यादिगणक्वाथेन क्षीरेण वा यवागूं सुस्विन्नां द्रवां मात्रया पाययेत्।
प्राक् स्नेहयवागूपानाभ्यां चोभयकालमुष्णोदकेन परिषेचयेत्॥

श्लोक 39

एवं त्रिरात्रं पञ्चरात्रं सप्तरात्रं वानुपाल्य ततो यवकोलकुलत्थयूषेण लघुना चान्नपानेन।
द्वादशरात्रात् परं जाङ्गलरसादिभिश्च क्रमादाप्याययेदग्निबलादीन्यपेक्ष्य।
क्वथितशीतं च तोयं पाययेत्।
तथा जीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहैरन्नपानैश्च हृद्यैरुपाचरेत्।
एवं हि गर्भवृद्धिक्षपितशिथिलसर्वशरीरधातुप्रवाहणवेदनाक्लेदरक्तनिस्स्रुतिविशेषशून्यशरीराच्च पुअर्नवीभवति॥

श्लोक 40

अत एव च सूतिकाया व्याधिः कृच्छ्रसाध्यो भवत्यसाध्यो वा।
तस्मात्तां यथोक्तेन विधिना प्रयत्नेनोपचरेत्।
एवं साध्यर्धमासमुपसंस्कृता क्रमेण विमुक्ताहारविहारयन्त्रणा विगतसूतिकाभिघाना स्यात् पुनरार्तवदर्शनादित्येके॥

श्लोक 41

इत्याद्यं मासमादाय यावद्गर्भक्षमा पुनः।
स्त्री स्यात्तावद्विधिः सर्वः सर्वथा साधु दर्शितः॥