श्लोक 1
द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियः मासि मासि भगद्वारा प्रकृत्यैवार्तवं स्रवेत्
श्लोक 2
आर्तवस्रावदिवसादृतुः षोडश रात्रयः गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः
श्लोक 3
आर्तवस्रावदिवसादहिंसा ब्रह्मचारिणी शयीत दर्भशय्यायां पश्येदपि पतिं न च
श्लोक 4
करे शरावे पर्णे वा हविष्यं त्र्! यहमाहरेत् अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम्
श्लोक 5
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम् अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् आयासं भूमिखननं प्रवातञ्च विवर्जयेत्
श्लोक 6
अज्ञानाद्वा प्रमादाद्वा लोभाद्वा दैवतश्च वा
श्लोक 7
सा चेत्कुर्यान्निषिद्धानि गर्भो दोषांस्तदाऽप्नुयात् एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः
श्लोक 8
नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् अनुलेपात्तथा स्नानाद् दुःखशीलोऽञ्जनाददृक्
श्लोक 9
स्वापशीलो दिवास्वापाच्चञ्चलः स्यात्प्रधावनात् अत्युच्चशब्दश्रवणाद्बधिरः खलु जायते
श्लोक 10
तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत् प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात् स्खलते भूमिखननादुन्मत्तो वातसेवनात्
श्लोक 11
पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना तादृशं जनयेत्पुत्रं ततः पश्येत्पतिं प्रियम्
श्लोक 12
प्रवहत्सलिले क्षिप्तं द्र व्यं गच्छत्यधो यथा तथा वहति रक्ते तु क्षिप्तं वीर्यमधो व्रजेत्
श्लोक 13
आयुः क्षयभयाद्भर्त्ता प्रथमे दिवसे स्त्रियम् द्वितीयेऽपि दिने रत्यै त्यजेदृतुमतीं तथा
श्लोक 14
तत्र यश्चाहितो गर्भो जायमानो न जीवति आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः
श्लोक 15
अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा द्वादशी वापि या रात्रिस्तस्यां तां विधिना भजेत्
श्लोक 16
अत्रोत्तरोत्तरं विद्यादायुरारोग्यमेव च प्रजासौभाग्यमैश्वर्यं बलञ्चाभिगमात् फलम्
श्लोक 17
मनोभवागारमुखेऽबलानां तिस्रो भवन्ति प्रमदाजनानाम् समीरणा चन्द्र मसी च गौरी विशेषमासामुपवर्णयामि
श्लोक 18
प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी तस्या मुखे यत् पतितं तु वीर्यं तन्निष्फलं स्यादिति चन्द्र मौलिः
श्लोक 19
या चापरा चान्द्र मसी च नाडी कन्दर्पगेहे भवति प्रधाना सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेषु
श्लोक 20
गौरीति नाडी यदुपस्थगर्भे प्रधानभूता भवति स्वभावात् पुत्रं प्रसूते बहुधाङ्गना सा कष्टोपभोग्या सुरतोपविष्टा
श्लोक 21
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु २१
श्लोक 22
स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोर्चितः भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः
श्लोक 23
ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे
श्लोक 24
अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम्
श्लोक 25
पुरुषस्य गुणैर्युक्ता विहिता न्यूनभोजना नारी ऋतुमती पुंसा सङ्गच्छेत्तु सुतार्थिनी
श्लोक 26
रजस्वला व्याधिमती विशेषाद्योनिरोगिणी वयोऽधिका च निष्कामा मलिना गर्भिणी तथा एतासां सङ्गमात्पुंसां वैगुण्यानि भवन्ति हि
श्लोक 27
कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः गर्भः सञ्जायते नार्याः स जातो बाल उच्यते
श्लोक 28
दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति
श्लोक 29
ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवेगतः मेढ्रयोन्यभिसङ्घर्षाच्छरीरोष्मानिलाहतः
श्लोक 30
पुंसः सर्वशरीरस्थं रेतो द्रा वयतेऽथ तत् वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे
श्लोक 31
तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत्
श्लोक 32
शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्त्ता सा च कीर्तिता तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
श्लोक 33
यथा रोहितमत्स्यस्य मुखं भवति रूपतः तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः
श्लोक 34
शुक्रार्त्तवसमाश्लेषो यदैव खलु जायते जीवस्तदैव विशति युक्तः शुक्रार्त्तवान्तरः
श्लोक 35
सूर्यांशोः सूर्यमणित उभयस्माद्युताद्यथा वह्निः सञ्जायते जीवस्तथा शुक्रार्तवाद्युतात्
श्लोक 36
आत्मानादिरनन्तश्चाव्यक्तो वक्तुं न शक्यते चिदानन्दैकरूपोऽयं मनसापि न गम्यते
श्लोक 37
एवम्भूतोऽपि जगतो भाविनी बलवत्तया
अविद्यास्वीकृते कर्मवशो गर्भे विशत्यसौ
श्लोक 38
स एव वेत्ता रसनो द्र ष्टा घ्राता स्पृशत्यसौ श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि
श्लोक 39
दिने व्यतीते नियतं संकुचत्यम्बुजं यथा ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा
श्लोक 40
बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ यमावित्यभिधीयेते धर्मेतरपुरःसरौ
श्लोक 41
आधिक्ये रेतसः पुत्रः कन्या स्यादार्त्तवेऽधिके नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी
श्लोक
एवं तामभिसङ्गम्य पुनर्मासाद्भजेदसौ
श्लोक 42
शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः सक्थिसादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत्
श्लोक 43
स्तनयोर्मुखकार्ष्ण्यं स्याद्रो मराज्युद्गमस्तथा अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः
श्लोक 44
छर्दयेत्पथ्यभुक्चापि गन्धादुद्विजते शुभात् प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते
श्लोक 45
पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु
श्लोक 46
दक्षिणाक्षिमहत्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने दक्षिणोरुः सुपुष्टः स्यात्प्रसन्नमुखवर्णता
श्लोक 47
पुन्नामधेयद्र व्येषु स्वप्नेष्वपि मनोरथः आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च
श्लोक 48
कन्या गर्भवती गर्भे पेशी मासि द्वितीयके पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते
श्लोक 49
नपुंसकं यदा गर्भे भवेद् गर्भोऽबुदाकृतिः उन्नते भवतः पार्श्वे पुरस्तादुदरं महत्
श्लोक 50
आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यर्यकस्तथा अमी सशुक्रा बोद्धव्या अशुक्रः षण्ढसंज्ञकः
श्लोक 51
पित्रोस्तु स्वल्पवीर्यत्वादासेक्यः पुरुषो भवेत् स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम्
श्लोक 52
यः पूतियोनौ जायेत स हि सौगन्धिको भवेत् स योनिशेफसोर्गन्धमाघ्राय लभते बलम्
श्लोक 53
स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः
श्लोक 54
दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवर्त्तते ईर्ष्यकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः
श्लोक 55
यो भार्यायामृतौ मोहादङ्गनेव प्रवर्त्तते तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः
श्लोक 56
ऋतौ ॠतौ पुरुषवत् प्रवर्त्तेताङ्गना यदि तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता
श्लोक 57
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते
श्लोक 58
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत् आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि
श्लोक 59
मासि मासिप्रवर्द्धेत स गर्भो गर्भलक्षणः कललं जायते तस्य वर्जितं पैतृकैर्गुणैः
श्लोक 60
सर्पवृश्चिककूष्माण्डाकृतयो विकृताश्च ये गर्भास्ते योषितस्ताश्च ज्ञेयाः पापकृतो भृशम्
श्लोक 61
गर्भो वातप्रकोपेण दोहदे चापमानिते भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव च
श्लोक 62
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः
श्लोक 63
गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकः प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञकम्
श्लोक 64
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः भवेत्तदा स मुनिभिः शरीरीति निगद्यते
श्लोक 65
तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः
श्लोक 66
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा
श्लोक 67
नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनी
श्लोक 68
पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम् पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता
श्लोक 69
ओष्ठाधरौ च सृक्किण्यौ मुख तालु हनुद्वयम् दन्ताश्च दन्तवेष्टश्च रसना चिबुकङ्गलः
श्लोक 70
द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्यते तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे
श्लोक 71
तत्रोपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः कफोणियुग्मं तदधं प्रकोष्ठयुगलन्तथा
श्लोक 72
मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश नखाश्च दश ते स्थाप्या दशच्छेद्याःप्रकीर्त्तिताः
श्लोक 73
चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे स्तनौ पुंसस्तथा नार्या विशेष उभयोरयम्
श्लोक 74
यौवनागमने नार्याः पीवरौ भवतः स्तनौ गर्भवत्या प्रसूतायास्तावेव क्षीरपूरितौ
श्लोक 75
हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम्
जाग्रतस्तद्विकसति स्वपतस्तु निमीलति
श्लोक 76
आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि
श्लोक 77
कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ
श्लोक 78
उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम् सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम्
श्लोक 79
उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः शोणिताज्जायते प्लीहा वामतो हृदयादधः
श्लोक 80
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः
श्लोक 81
अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्
श्लोक 82
अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति जलवाहिशिरामूलं तृष्णाऽच्छादनकृन्मतम्
श्लोक 83
मेदः शोणितयोः साराद्वृक्कयोर्युगलं भवेत् तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः
श्लोक 84
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत् उक्ता सार्द्धास्त्रयो व्यामापुंसामन्त्राणि सूरिभिः
श्लोक 85
उन्दुकश्च कटी चापि त्रिकं वस्तिश्च वङ्क्षणौ कण्डराणां प्ररोहःस्यान्मेढ्रोऽध्वा वीर्यमूत्रयोः
श्लोक 86
स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्त्ता सा च कीर्त्तिता
श्लोक 87
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता वृषणौ भवतः सारात्कफासृङ्मांसमेदसाम्
श्लोक 88
वीर्यवाहिशिराधारौ तौ मतौ पौरुषावहौ गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम्