श्लोक 1
अथातो नस्यविधिर्नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
नासायां प्रणीयमानमौषधं नस्यम्।
नावनं नस्तःकर्मेति च संज्ञां लभते।
नासा हि शिरसो द्वारम्।
तत्रावसेचितमौषधं स्रोतःशृङ्गाटकं प्राप्य व्याप्य च मूर्धानं नेत्रश्रोत्रकण्ठादिसिरामुखानि च मुञ्जादिषीकामिवासक्तामूर्ध्वजत्रुगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमाङ्गादपकर्षति॥
श्लोक 3
तत्तु त्रिविधं विरेचनं बृंहणं शमनं च।
तेषां विरेचनं जत्रूर्ध्वगौरवशोफोपदेहकण्डूस्तम्भाभिष्यन्दपाकप्रसेकवैरस्यारोचकस्वरभेदक्रिमिप्रतिश्यायापस्मारगन्धाज्ञानग्रन्थ्यर्बुददद्रुकोठादिषु श्लेष्मजेषु तीक्ष्णेन स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन तेषां वा क्वाथचूर्णस्वरसैस्तैरेव वा यथार्हद्रवश्लक्ष्णकल्कितालोडितैर्मधुसैन्धवासवपित्तमूत्रैर्यथास्वं चोपदिष्टैर्योज्यम्॥
श्लोक 4
तत्र भीतक्लीबकृशसुकुमारेषु स्नेहः।
गलरोगसन्निपातज्वरातिनिद्रामनोविकारक्रिमिविषाभिपन्नाभिष्यण्णसर्पदष्टविसंज्ञेषु शोषाः।
तेष्वेव भूयसि दोषे शीघ्रकारिणि च चूर्णः।
स हि निहितो नासाग्र आवेगकरतरो भवति॥
श्लोक 5
बृंहणं सूर्यावर्तार्धावभेदकक्रिमिशिरोरोगाक्षिसङ्कोचस्पन्दतिमिरकृच्छ्रावबोधदन्तकर्णशूलनादनासामुखशोषवाक्यसङ्गस्वरोपघातमन्यारोगापतानकापबाहुकनिद्रानाशादिष्वनिलोत्थेषु स्निग्धमधुरद्रव्यैस्तत्सिद्धैर्यथायथं चोपदिष्टैः स्नेहैर्निर्यासैर्धन्वमांसरसरक्तैश्च॥
श्लोक 6
शमनमकालवलीपलितखलतिदारुणकरक्तराजीव्यङ्गनीलिकारक्तपित्तादिषु यथास्वमुपदिष्टैः स्नेहैर्भेषजस्वरसादिभिः क्षीरोदकाभ्यां वा समदोषे वाणुतैलेनेति॥
श्लोक 7
तत्र स्नेहो मात्राभेदाद् द्विधा।
मर्शः।
प्रतिमर्शश्च।
विरेचनः शमनो वा नासया प्रणीयमानः कल्कोऽवपीडसंज्ञो विरेचनचूर्णस्तु प्रधमनाख्यः।
परिशेषं तु नावनमवपीडकसंज्ञम्।
कल्कीकृतादौषधादवपीडितः स्रुतो रसोऽवपीड इत्यपरेषाम्।
तत्र पुनस्तीक्ष्णे वैशेषिकी शिरोविरेचनसंज्ञा।
तथान्ये सर्वमेव विरेचनं नस्यमित्याहुः।
सद्यः श्लेष्मविरेचनसामान्यात्॥
श्लोक 8
अथाणुतैलस्य विधानमुच्यते।
अणुतैलविधानं तु मञ्जिष्ठामधुकप्रपौण्डरीकजीवकर्षभककाकोलीद्वयपयस्यासारिवानन्तानीलोत्पलाञ्जनरास्नाविडङ्गतण्डुलमधुपर्णीश्रावणीमेदाकाकनासासरलसालभद्रदारुचन्दनः सुपिष्टैरष्टगुणं षड्गुणेन पयसा तैलं पचेत्।
घृतं वा पित्तोल्बणेषु दोषेषु॥
श्लोक 9
अथवा चन्दनागरुपत्रदार्वीत्वङ्मधुकबलाद्वयबिल्वोत्पलपद्मकेसरप्रपौण्डरीकविडङ्गोशीरह्रीबेरवन्यत्वङ्मुस्तासारिबाबृहतीद्वयांशुमतीद्वयजीवन्तीदेवदारुसुरभिशतावरीः शतगुणे दिव्येऽम्भसि दशभागावशिष्टं क्वाथयेत् ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत्।
दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात्।
एतदप्यणुतैलं पूर्वस्माद्विशेषेणेन्द्रियदार्ढ्यकरं केश्यं त्वच्यं कण्ठ्यं प्रीणनं बृंहणं दोषत्रयघ्नं च॥
श्लोक 10
अनस्यार्हास्तु भुक्तभक्तस्नेहमद्यगरतोयपीतपातुकामशिरः स्नातस्नातुकामसिरादिव्यधस्रुतरक्तमूत्रितोच्चारिताभिहतकृतवमनविरेकबस्तिकर्मगर्भिणीसूतिकानवप्रतिश्यायश्वासकासिनोऽनार्तवदुर्दिनेष्वपि।
तत्र भुक्तभक्तस्य नस्येरितो दोष ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेत्।
स्नेहादिपीतपातुकामानामक्षिनासास्यस्यन्दोपहतितिमिरशिरोरोगान्।
शिरःस्नातस्य शिरोऽक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरःकम्पान्।
स्नातुकामस्य मूर्धस्तैमित्यजाड्यारुचिपीनसान्।
स्रुतरक्तस्य क्षामतामरुचिमग्निसादं च।
मूत्रितोच्चारितयोर्भृशतरं वेगधारणजान् विकारान्।
अभिहतस्य तीव्रतरां रुजम्।
कृतवमनादीनां श्वासकासस्वरेन्द्रियहानिशिरोगौरवकण्डूकृमिदोषान्।
गर्भिण्या भक्तद्वेषज्वरमूर्च्छार्धावभेदकाः स्युरपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा।
सूतिकायाः स्रुतरक्तोक्तान् दोषान्।
नवप्रतिश्यायस्य स्रोतोरोधाद्दुष्टप्रतिश्यायकेशशातकृमिकण्डूविचर्चिकाः।
श्वासकासिनोर्व्याधिवृद्धिः।
अकाले दुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोगप्रतिश्यायारूषिकाः॥
श्लोक 11
तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशोरोवक्त्रलेपसेकतीक्ष्णावपीडधूमगण्डूषादीनाचरेत्।
विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिबेत्।
बलाविदार्यंशुमतीमेदाभिर्वा।
एभिरेव च शृतं हविः वातहरसिद्धश्च स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः।
सर्वं च बृंहणमन्नपानम्।
भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरमपेक्षेत॥
श्लोक 12
मर्शप्रमाणं तु प्रदेशिन्यङ्गुलीपर्वद्वयान्निमग्नेद्धृताद्यावत् पतति स बिन्दुः।
अमी दशाष्टौ षड्बिन्दव उत्तममध्यमकनीयस्यो मात्राः।
क्वाथादीनामष्टौ षट् चत्वारः।
प्रधमनस्य तु षडङ्गुलद्विमुखया नाड्यामुखानिलेरितस्याकण्ठगतेर्दोषानुरोधतश्च पुनःपुनर्योजनमिति॥
श्लोक 13
अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुखं स्निग्धस्विन्नशिरसं नातिक्षुधितं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थुत्तानशीर्षमीषदुन्नतपादं प्रसारितकरचरणं जत्रूर्ध्वं पाणितापेन पुनः पुनः स्वेदयेत्।
ततः कनकरजतताम्रान्यतमशुक्तिस्थितं प्रदेयमौषधत्रिभागमुष्णाम्बुप्रतप्तं किञ्चित् प्रलम्बितशिरसो वामहस्ताङ्गुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादनं चतुर्गुणं वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यां चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन् नासास्रोतसि दक्षिणहस्तेन प्रनाड्या पिचुना वानवच्छिन्नमासिञ्चेत्॥
श्लोक 14
वातपित्तकफामयेषु क्रमेणापराह्णमध्याह्नपूर्वाह्णेषु।
लालास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ।
स्वस्थवृत्ते तु शीते मध्याह्ने शरद्वसन्तयोः प्राह्णे ग्रीष्मेऽपराह्णे वर्षास्वादित्यदर्शने।
पञ्चकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव॥
श्लोक 15
न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावनतशिरसे सङ्कुचितगात्रावयवाय देयम्।
तत्र हीनं दोषमुत्क्लेश्य न निर्हरेत्।
गौरवारुचिकासप्रसेकपीनसच्छर्दिकण्ठरोगान् कुर्यात्।
अधिकमतियोगदोषान्।
सकृदेव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायघ्राणक्लेदानुच्छ्वासोपरोधं च।
अत्युष्णं दाहपाकज्वररक्तागमशिरोरुग्दृष्टिदौर्बल्यमूर्च्छाभ्रमान्।
अतिशीतं हीनदोषान्।
अत्युन्नतशिरसोऽपि सम्यक्शिरोऽप्रतिपद्यमानं तानेव। अत्यवनतशिरसोऽतिदूरगमनान्मूर्छाजाड्यकण्डूदाहज्वरान्।
सङ्कुचितगात्रस्य सम्यग्धमनीरव्याप्नुवद्दोषोत्क्लेशं वेदनां स्तम्भं वा।
यदि च नस्ये दीयमाने भेषजवेगादसात्म्यतया वा मूर्च्छा स्यात् ततः शिरोवर्जं शीताम्भसा सिञ्चेत्।
न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पन्दनोच्छिङ्खनान्याचरेत्।
तथा हि शिरोरुक्प्रतिश्यायकासतिमिरखलतिपलितव्यङ्गतिलकालकमुखदूषिकाणां सम्भवः॥
श्लोक 16
दत्तमात्रे तु नस्ये कर्णललाटकेशभूमिगण्डमन्यास्कन्धपाणिपादतलान्यनुसुखं मर्दयेत्।
शनैश्चोच्छिङ्खेत्।
अनभ्यवहरंश्च वामदक्षिणपार्श्वयोरौषधं निष्ठीवेत्।
सकफं हि तदभ्यवहृतमग्निमवसादयेत्।
दोषं च संवर्धयेत्।
एकपार्श्वनिष्ठीवनेन सर्वाः सिरा भेषजेन सम्यग्व्याप्यन्ते।
पुनः पुनश्चैनं स्वेदयेदाभेषजदर्शनान्नोछिङ्खेन्निष्ठीवेच्चाततश्चैवमेव द्वितीयमंशमनुषेचयेत्तथा तृतीयं दोषादिबलेन वा।
विरेचने त्ववपीडे दोषबलमपेक्ष्य पश्चात् स्नेहमनुषेचयेत्।
निवृत्तनस्यं चैवमुन्निद्रमुत्तानं वाक्शतमात्रं शाययेत्।
ततः पुनरप्युत्क्लिष्टदोषशेषोपशान्तये वैरेचनिकं यथार्हं वा धूमं पाययित्वोष्णोदकगण्डूषान् धारयेत्।
अथास्य स्नेहोक्तमाचारमादिशेत्।
अतिद्रवपानं च वर्जयेत्।
पुनश्च तृतीयेऽहनि नस्यमवसेचयेत्।
हिध्मास्वरोपघातमन्यास्तम्भापतानकेषु शिरसि चानिलार्त्याद्यभिभूते प्रत्यहं सायंप्रातरुभयकालं वा।
अनेन विधिना पञ्च सप्त नव वा दिनानि दद्यादासम्यग्योगाद्वा॥
श्लोक 17
तत्र सम्यक्स्निग्धे मूर्धनि विरिक्ते वा सुखोच्छ्वासनिश्वासक्षवथुस्वप्नप्रबोधशिरोवदनेन्द्रियविशुद्धयो भवन्ति।
यथोक्तव्याध्युपशमश्च।
अयोगातियोगयोस्तु यथास्वं वातकफविकारास्तान्यथास्वमेव साधयेत्।
अन्यांश्च पूर्वोक्तान् विकारान्॥
श्लोक 18
प्रतिमर्शस्तु क्षामक्षततृष्णामुखशोषवृद्धबालभीरुसुकुमारेष्वप्यकालवर्षदुर्दिनेष्वपि च योज्यः।
न तु दुष्टप्रतिश्यायबहुदोषक्रिमिणशिरोमद्यपीतदुर्बलश्रोत्रेषु।
एषां ह्युदीर्णदोषत्वात् तावता दोषोत्क्लेशो भवति।
तस्य पञ्चदश कालास्तेषां च गुणाः।
प्रातर्दत्ते भुक्तवतश्चान्ते स्रोतोविशुद्धिः शिरोलाघवं मनःप्रसादश्च भवति।
विण्मूत्रशिरोभ्यङ्गाञ्जनकवलान्ते दृष्टिप्रसादः।
दन्तधावनान्ते दन्तदृढता सौगन्ध्यं च।
अध्वव्यायामव्यवायान्ते श्रमक्लमस्वेदस्तम्भनाशः।
दिवास्वप्नान्ते निद्राशेषगौरवप्रणाशो मनःप्रसादश्च।
अतिहसितान्तेऽनिलप्रशमः।
छर्दितान्ते स्रोतोलीनश्लेष्मव्यपोहः।
दिनान्ते स्रोतोविशुद्धिः सुखनिद्राप्रबोधश्च भवति।
भवति चात्र॥
श्लोक 19
प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिष्यते।
बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते॥
श्लोक 20
निष्ठ्यूते यत्र वा स्नेहो न साक्षादुपलक्ष्यते।
न नस्यमूनसप्ताबदे नातीताशीतिवत्सरे॥
श्लोक 21
न चोनाष्टादशे धूमः कवलो नोनपञ्चमे।
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ॥
श्लोक 22
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्।
मर्शवच्च गुणान् कुर्यात् स हि नित्योपसेवनात्॥
श्लोक 23
न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्।
तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते।
शिरसः श्लेष्मधामत्वात् स्नेहाः स्वस्थस्य नेतरे॥
श्लोक 24
आशुकृच्चिरकारित्वं गुणोत्कृष्ताव्कृष्टता।
मर्शे च प्रतिमर्शे च न विशेषो भवेद्यदि।
को मर्शं सपरीहारं सापदं च भजेत्ततः॥
श्लोक 25
अच्छपानविचाराख्यौ कुटीवातातपस्थिती।
अन्वासमात्राबस्ती च तद्वदेव च निर्दिशेत्॥
इति एकोनत्रिंशोऽध्यायः॥