अष्टाङ्गसंग्रहः उत्तरस्थानम् 28

श्लोक 1

अथातः शिरोरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

वातजे शिरोभितापे वातव्याधिविहितं कुर्यात्।
निवातस्थं च नक्तमभ्यक्तशिरसं सर्पिः पयोनुपानं तैलं वा पाययेत्।
माषान् वा ससर्पिष्कानुष्णपयोनुपानान् भक्षयेत्।
तद्वद्वा मुद्गान्॥

श्लोक 3

आनूपपिशितवेशवारेण यवतिलमुद्गमाषकुलत्थकुष्ठदारुहरिद्रातसीसैन्धवर्वा महास्नेहवतीमुत्कारिकां दत्वा शिरो वेष्टयेत्।
ततः प्रत्यूषे दशमूलसिद्धेन पयसा कवोष्णेन परिषेकं कुर्यात्।
तत्सिद्धैश्च पायसैः पिण्डस्वेदं लेपं वा॥

श्लोक 4

कूर्ममहिषवराहकुक्कुटशल्लकीनां वसा ससैन्धवा नस्यं शिरःकर्णपूरणं च।
तथैव च पञ्चमूलबलासारिवाद्वयक्वाथे मधुकजीवकर्षभकपुनर्नवगर्भं सपयः सर्पिस्तैलं चैकतो विपक्वम्॥

श्लोक 5

कार्पासमज्जत्वङ्मुस्तासुमनःकोरकाण्युष्णाम्बुपिष्टानि नावनं सर्वशिरोरुजाघ्नम्।
तद्वत् त्वक्पत्रशर्कराशिग्रुकरञ्जबीजानि।
तथा चन्दनोत्पलतगरकुष्ठैः सघृतैर्लेपः।
देवदारुकुष्ठचोरकयष्टीमधुककमलनीलोत्पलैलाप्रपौण्डरीकैश्च॥

श्लोक 6

कुङ्कुमशर्करासंस्कृतमाज्यं रक्तपित्तानुबन्धे मर्शः।
न चात्र रक्तमवसेचयेद्वातोद्रेकभयात्।
स्नैहिकं धूमं पिबेत्।
शिरोबस्तिं च शीलयेत्।
बस्तिकर्म चाचरेत्॥

श्लोक 7

एवमसिद्धौ वातजे श्लेष्मजे च यथोक्तो दाहः॥

श्लोक 8

अर्धावभेदकेप्ययमेव विधिः।
निर्गुण्डीपत्ररसश्च सघृतमण्डसैन्धवो नस्यम्।
शिरीषमूलफलानि वा।
सारिवोत्पलकुष्ठवचामधुकपिप्पलीभिः सतैलाम्लो लेपः।
अशाम्यति दोषानुबन्धमवेक्ष्य प्रतिकुर्वीत॥

श्लोक 9

सूर्यावर्तेत्वयमेव विधिः विशेषतस्तु सिरामोक्षः॥

श्लोक 10

पित्तजे रक्तजे च शिरोभितापे स्निग्धस्य सिरां विध्येत्।
कायं च विरेचयेत्।
सुशीतैः शतधौतघृतान्वितैः शिरो वक्त्रं सिञ्चेत् प्रदिह्याच्च॥

श्लोक 11

चन्दनसारिवामधुकदूर्वोत्पलप्रपौण्डरीकमञ्जिष्ठाविदारीभिः सक्षीरं सर्पिर्विपाचितं नावनं शिरोबस्तिश्च।
जीवनीयविपक्वात् पयसो नवनीतमुद्धृत्य जीवनीयक्वाथकल्काभ्यां पाचितं पानभोजननस्याभ्यङ्गबस्तिषु प्रणीतं पित्तरक्तजान् सर्वान्विकारान् साधयति।
जीवनीयगर्भं षोडशगुणे पयसि सिद्धमाज्यं वा॥

श्लोक 12

क्षीरेक्षुजाङ्गलरसखर्जूरद्राक्षाकशेरुकमृणालसिद्धः सर्पिर्मण्डोऽनुवासनम्।
अञ्जनादिवर्गशृतं क्षीरमास्थापनम्॥

श्लोक 13

शङ्खकं प्रत्याख्यायैवमेवोपचरेत्।
विसर्पवच्च।
विशेषतस्तु कृष्णतिलशतावरीनीलोत्पलमूर्वापुनर्नवैर्लेपः॥

श्लोक 14

कफजे शिरोभितापे लङ्घयेत्।
पुराणसर्पिस्निग्धं वा वामयेत्।
स्वेदः पिण्डेन रूक्षेण।
शिग्रुनिम्बैरण्डक्वाथेन वा नाडीस्वेदः॥

श्लोक 15

देवकाष्ठकुष्ठशार्ङ्गेष्टासरलरोहिषैः सलवणैः सुखोष्णैरालेपः।
यवचूर्णमधुकचन्दनहरिद्राकुष्ठप्रियङ्गुशतपुष्पासुरदारुभिस्तैलाजक्षीरयुक्तैः ससैन्धवैरुपनाहः॥

श्लोक 16

विडङ्गतैलं नस्यं सार्षपं वा तदेव वा व्योषसिद्धम् मधूकसारकल्को वा मधुयुतस्त्वग्वा मेषशृङ्ग्या इङ्गुदस्य वा।
एभिरेव च धूमवर्तिः॥

श्लोक 17

शिरोविरेचनद्रव्यैर्वा सूत्रस्थानौक्तैः प्रधमनम्।
तैरेव च पक्वं तैलं मर्शः प्रतिमर्शो वा॥

श्लोक 18

शिरोविरेचनान्ते कर्णनादोक्तं स्नेहनस्यम्।
तीक्ष्णाः कवलाः मनश्शिलानलदतुत्थकासीसचूर्णः ससर्पिष्को धूमः।
नलदचूर्णस्य च मुहुर्मुहुराघ्राणनम्॥

श्लोक 19

सन्निपाते व्यामिश्रो विधिः॥

श्लोक 20

कृमिजे दुरालभासुरदारुरोहिषपूतीकत्रिफलाकट्फलवचात्रिकटुकैरजामूत्र्युक्तं सर्पिः पक्वं पानम्।
उपस्निग्धस्विन्नस्य देवदारुपूतीककटभीसर्षपविडङ्गतिलकण्टकविपक्वेन तैलेन शिरः कर्णौ चाभ्यज्य स्वेदयेत्॥

श्लोक 21

ततः कृमिमूर्च्छनार्थमसृङ्नस्तोवसेचयेत्।
ततो रुधिरगन्धमदेन प्राविसृताः सप्तच्छदस्य त्वग्रसेन पुष्परसेन वानन्तरनिषिक्तेन कृमयः पतन्ति॥

श्लोक 22

सरलदेवदारुकट्फलसर्षपापामार्गक्षवककटुकालाबुसुरसबीजपिप्पलीतण्डुलचूर्णंस्तत्पक्वं वा तैलं सद्यः कृमीन् निरस्यति।
विडङ्गतण्डुला वाजिमूत्रपिष्टाः शिरीषबीजानि वा छागमूत्रपिष्टानि।
पुष्करमध्यबीजानि वा॥

श्लोक 23

गोमांसेन छागमांसेन वा वसापिष्टेन यवागूं कृत्वा शिरो विलेपयेत्।
ततो निम्बार्कवंशसुरसकुटजकरञ्जकरवीरपत्रक्वाथेन सेचयेत्।
अजामूत्रेण वा कवोष्णेन।
पूतिमत्स्ययुताश्च धूमाः॥

श्लोक 24

एवं कृमिष्वपगतेषु तेजोवतीपूतीकबिम्बीसुरसनक्तमालविडङ्गहरीतकीसर्षपार्ककरवीरमूलमालतीदेवदारुक्षवकमुस्तफणिज्जकपिप्पलीशतपुष्पामधूकशणनिम्बसारकल्कैरजामूत्रयुतैः सार्षपं तैलमैङ्गुदं पैलुकं वा विपक्वं युक्त्या नावनम्॥

श्लोक 25

न तु जातुरुधिरमवसेचयेत्।
जन्तुभिः पीतशोणिते हि शिरसि पुनरस्रावसेकादकाण्डे मृत्युः स्यात्।
कृमिचिकित्सितं चेक्षेत्॥

श्लोक 26

शिरः कम्पमक्षीणस्यान्यव्याध्यनुपद्रुतस्य दाहवर्ज्यं मारुतविधानेनोपक्रमेत॥

श्लोक 27

उपशीर्षके जन्मोत्तरकालजाते नवोत्थिते वातव्याधिविहितान् स्नेहान् पाननावनाभ्यञ्जनेषु योजयेत्।
अभ्यक्तं च स्वेदयित्वोपनाहयेद्यथा विदाहो न भवति।
विदाहे विद्रधिवत् कर्म॥

श्लोक 28

पिटकार्बुदविद्रधिषु यथास्वमाचरेत्।
व्रणीभूतासु पिटकासु निम्बनिशामधुकधात्रीफलैर्विपक्वं तैलं शोधनरोपणम्॥

श्लोक 29

मूर्वाचन्दनसारिवाधातकीकान्तालोध्रमधुकसमङ्गापद्मकेसरशतपर्वकंमूलैर्विद्रधिषु।
एभिरेव च सिद्धं सर्पिर्नस्यम्।
रूढं तु विद्रधौ यदि त्वक् सुप्तेव भवति ततो वामयेत्।
उपस्निग्धं च विरेचयेत्॥

श्लोक 30

अरूंषिकासु जलौकोपहृतशोणितं शिरः क्षुरामृष्टं वा निम्बोदकेन परिषिच्याश्वशकृद्रसेन लवणप्रगाढेन लेपयेत्।
किञ्चित् कालं स्थितं चोष्णोदकाम्लकाञ्जिकान्यतरधौतं विडङ्गव्योषलाक्षागारधूममनोह्वालवचारसाञ्जनहरिद्राद्वयैरालिम्पेत्।
तिलमष्या वा स्नुहीक्षीरयुक्तया।
मधुकोत्पलतिलैरण्डमार्कवपत्रैर्वा।
शिग्रुमूलकसर्षपबीजैर्वा गोमूत्रपिष्टैः।
वालकामलकनागरमूलकसर्षपबीजैर्वा क्षीरपिष्टैः।
शिरीषत्वग्यष्टीमधुकाभ्यां वा।
पुराणपिण्याककुक्कुटपुरीषाभ्यां वा॥

श्लोक 31

कपालभृष्टकुष्ठचूर्णं तैलयुक्तं कण्डूक्लेददाहस्वेदवेदनाघ्नम्।
तथा चाचोक्तं चित्रकादितैलमभ्यञ्जनम्। दन्तीपाठाकोशातकीचित्रकातिविषामहालाङ्गलकीसिद्धं तैलं व्रणाभ्यङ्गः॥

श्लोक 32

मनश्शिलैलाहरितालपिप्पलीकुष्ठकासीसहरिद्राकरञ्जमुस्तातगरविडङ्गंचित्रकसिद्धार्थककरवीरमूलचूर्णगर्भं तैलमादित्यपाकं व्रणरोपणम्।
एवमनुपशमे वमनधूमकायशिरोविरेकान् कुर्यात्॥

श्लोक 33

दारणके ललाटे सिरां विध्येत्।
अभ्यङ्गस्नाननावनानि च शीलयेत् प्रियालबीजमधुककुष्ठमाषसर्षपैः सक्षौद्रैर्लेपः।
कोद्रवतृणक्षाराम्भः प्रक्षालनम्॥

श्लोक 34

इन्द्रलुप्ते यथासन्नं सिरां विध्वा तुत्थकासीसमनश्शिलामरिचैर्लेपयेत्।
भद्रदारुकुटन्नटाभ्यां वा चित्रककरवीरनक्तमालमालतीसिद्धेन वा तैलेनाभ्यज्यात्॥

श्लोक 35

अवगाढपदं वा सूचीकूर्चकेन प्रच्छाय भूयोभूयः प्रदिह्यात् कपोतपङ्कामूलेन लाङ्गीलकामूलेन वा महिषीक्षीरपिष्टेन॥

श्लोक 36

घृष्टलिप्तमेरण्डपत्रावच्छादितं रात्रिमुषितं माहिषनवनीतेन लिम्पेत्।
मार्कवपत्रसहचरपुष्पपक्वं वा।
वार्ताकफलैस्तैलं पक्वं क्षौद्राञ्जनयुक्तमालेपः।
सक्षौद्रो वा क्षुद्रवार्ताकरसः।
जलशूलो वा पलाशक्षारसान्द्रः॥

श्लोक 37

गोशकृता वा घृष्टमिन्द्रलुप्तमरुष्कररसेनावलिप्यान्तर्धूमदग्धकूर्ममष्यावचूर्णयेत्।
कूर्मकपालभस्मना वा सुरसारसाक्तेन प्रदिह्यात्।
हस्तिदन्तमष्या वा तैलान्वितया।
पूतीकरञ्जप्रत्राणि वा ससैन्धवानि लेपः।
पिप्पल्यञ्जनरसाञ्जनबाकुचिकाफललोहरजांसि वा गोमूत्रपिष्टानि।
खलतिविहितानि चाचरेत्।
सलिलसेकमारोमोद्गमात् परिहरेत्॥

श्लोक 38

खलताविन्द्रलुप्तोक्तः क्रमो यथादोषं च संशुद्धिः॥

श्लोक 39

त्रिफलार्जुनसैर्यकत्वक्पुष्पकृष्णपिण्डीतकफलमूलनीलोत्पललोहचूर्णकासीसजम्वूमार्कवमञ्जिष्ठामेषशृङ्गीखदिररजः सकर्दममर्दितोक्ताणुतैलयुक्तमसन सारसमुद्गके न्यस्तं कर्दमे मासं निखातं स्थितमुद्धृतं सूचीकूर्चप्रच्छितायाः खलतेर्लेपः परं रोमसञ्जननः॥

श्लोक 40

रक्ताग्निमन्थपुष्पकिंशुकनलदमूलमधुकहस्तिदन्तभस्मान्यविक्षीरपिष्टानि लेपः॥

श्लोक 41

जम्बूद्वयत्वक्पत्रमधुकभृङ्गरजास्त्रिफलाश्लेष्मातकमञ्जिष्ठाफणिज्जकबलाद्राक्षाजशृङ्गीचपलातिविषाकट्फलकल्केन क्षीरिवृक्षक्काथेन च तिलतैलमक्षतैलं चैकध्यं साधयेत् तन्नस्येऽभ्यङ्गे च नियुञ्ज्यात्।
एवमेव मधुरवर्गकल्केन॥

श्लोक 42

खलतिपलितयोश्च प्रयोगान् परस्परं विदध्यात्।

श्लोक 43

अकालपलितेषु वातादीनवेक्ष्य स्नेहस्वेदसंशो धनास्रविस्रावणानि कुर्यात्।
ततोस्यार्दितप्रोक्तमणुतैलं नस्यमभ्यञ्जनं च॥

श्लोक 44

मधुकामलकमाक्षिकैः केशमूलानि लिम्पेत्।
तिलामलकक्षौद्रतैलैर्वा।
तुत्थकाम्रजम्ब्वस्थिकासीसकिट्टशर्कराभिर्वा।
सैर्यकपुष्पनीलिनीत्रिफलाभृङ्गरजोभिर्वा कृष्णाजमूत्रपिष्टैः॥

श्लोक 45

असनपुष्पपत्रमये पात्रे बहिरामलकीकल्कप्रदिग्धे निहितमक्षतैलं षण्मासं व्रीहिपल्ले स्थितमभ्यङ्गान्नावनाच्च पलितं जयति।
अयमेव कल्पः सैरीयकेपि॥

श्लोक 46

कपिकच्छूफलमूलगर्भमक्षतैलं सिद्धमयःपात्रे पूर्ववत् स्थितं समानं पूर्वेण॥

श्लोक 47

रामतरणीमूलपलद्वयं यष्टीमधुकपलं सारिवार्धपलमेकत्रजर्जरीकृतमक्षतैलपलैर्दशभिराप्लुतं लोहभाजने दशाहं दिवसकरकरप्रतप्तं नावनात् पलितघ्नं सर्वेन्द्रियदार्ढ्यावहं च॥

श्लोक 48

कृष्णातिलतिलपर्णीत्रिफलामधुककासीसपद्मककर्दममांसीमार्कवमसनपत्रस्वरसपिष्टं त्रिरात्रमयः पात्रे स्थापयेत्।
ततः पूर्वोक्तरसद्रुतेन पद्मिनीकर्दमप्रलिप्तप्तधौतान् केशान् कपालं च लेपयेत्।
ततः पद्मिनीकर्दमैः प्रच्छाद्य कौशेयेन वेष्टयेत्।
तृतीये चाह्नि प्रक्षाल्यैवमेव कुर्यात्।
एवमलिकुलनीलाः केशाः शिरो विभूषयन्ति।
भवति चात्र॥

श्लोक 49

खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम्।
नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत्॥

श्लोक 50

सिद्धं तैले बृहत्याद्यैर्जीवनीयैश्च नावनम्॥

श्लोक 51

क्षीरात्साहचरात् भृङ्गरजसः सौरसाद्रसात्।
प्रस्थस्तैलस्य कुडवो यष्टीमधुपलान्वितः॥

श्लोक 52

सिद्धश्शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः।
नस्यं स्यात्

श्लोक 53

क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ।
उत्पाट्य पलितं देयावाशये पलितापहौ॥

श्लोक 54

आदित्यवल्या मूलानि कृष्णसैरेयकस्य च।
फलं कृष्णशणात्पत्रं सुरसाद्यष्टिमार्कवम्॥

श्लोक 55

सुराह्वं काकमाची च पृथग्दशपलांशिकम्।
प्रपौण्डरीकमञ्जिष्ठालोध्रकृष्णागरूत्पलम्॥

श्लोक 56

आम्रास्थिकर्दमःकृष्णो मृणाली रक्तचन्दनम्।
नीलीभल्लातकास्थीनि काससिं मदयन्तिका॥

श्लोक 57

सोमराज्यसनं शस्त्रं कृष्णं पिण्डीतचित्रकौ।
पुष्पाण्यर्जुनकाश्मर्या आमजम्बूफलाज्जनम्॥

श्लोक 58

प्रत्येकं पञ्चपलिकं पिष्टं सत्रिफलाकणम्।
अक्षतैलाढकं तेन पचेद्धात्रीरसार्मणे॥

श्लोक 59

कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः।
लोहपात्रे ततः पूतं महानीलं प्रयोजितम्॥

श्लोक 60

तत्पाने नावनेऽभ्यङ्गे शुद्धस्य नियतात्मनः।
सर्वजत्रूर्ध्वरोगघ्नं पलितघ्नं विशेषतः।
एभिरेव च भैषज्यैः शिरो वक्त्रं च लेपयेत्॥

श्लोक 61

क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः।
कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः॥

श्लोक 62

तिलाः सामलकाः पद्मकिञ्जिल्को मधुकं मधु।
बृंहयेद्रञ्जयेच्चैतत् केशान् मूर्ध्नः प्रलेपनात्॥

श्लोक 63

पचेत् सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्।
तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशाम्।
तत्प्रातस्त्रिफलौधातं स्यात्कृष्णस्निग्धमूर्द्धजम्॥

श्लोक 64

अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः॥

श्लोक 65

कन्यायास्तिलनिम्बवीजमधुकश्रेष्ठावचामार्कवात्।
चूर्णछागलगव्यमाहिषपलस्नेहेन सम्प्लावितम्।
पात्रे स्थापितमायसे क्षितितले मासं निधायोद्धृतं।
पालित्यं खलतिं च दर्पणनिभां हन्त्येतदभ्यञ्जनात्॥

श्लोक 66

बीजैःश्लेष्मातकस्य व्यपगमिततुषैःकाञ्जिकश्लक्ष्णपिष्टैर्यल्लिप्ताल्लोहदण्डाद्दिनकरकिरणैस्तापितात् प्रच्यवेत।
तत्तैलं केशकार्ष्ण्यं जनयति परमं नावनाभ्यञ्जनाभ्यां मूर्द्धघ्राणाक्षिदन्तश्रवणगलरुजं हन्ति निश्शेषतश्च॥

श्लोक 67

बलामधूकमधुकविदारीचन्दनोत्पलैः।
जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः॥

श्लोक 68

प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे।
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्॥

श्लोक 69

मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्।
दशमूलबलारास्नामधुकैस्त्रिफलैर्युतम्॥

श्लोक 70

जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्।
कल्कितैर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगनित्।
तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः॥

श्लोक 71

एतेनैवकषायेण घृतप्रस्थं विपाचयेत्।
चतुर्गुणेनपयसा कल्कैरेभिश्च कार्षिकैः॥

श्लोक 72

जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूपकैः।
समङ्गाचविकाभार्ङ्गीकाश्मरीकर्कटाह्वयैः॥

श्लोक 73

आत्मगुप्तामहामेदातालखर्जूरमस्तकैः।
मृणालबिसखर्जूरयष्टीमधुकजीवकैः॥

श्लोक 74

शतावरीविदारीक्षुबृहतीसारिबायुगैः।
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककशेरुकैः॥

श्लोक 75

रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः।
पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः॥

श्लोक 76

मधुकाक्षोडवाताममुञ्जाताभिषुकैरपि।
महामाधूरमित्येतन्मायूरादधिकं गुणैः॥

श्लोक 77

धात्विन्द्रियस्वरभ्रंशश्वासकासार्दितापहम्।
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्॥

श्लोक 78

आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत्॥

श्लोक 79

जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम्।
परस्परमसङ्कीर्णं विस्तरेण प्रकाशितम्॥

श्लोक 80

ऊर्ध्वमूलमधःशाखमृषयः पुरुषं विदुः।
मूलप्रहारिणस्तस्माद्रोगान् शीघ्रतरं जयेत्॥

श्लोक 81

सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः।
तेन तस्योत्तमाग्गस्य रक्षायामादृतो भवेत्॥
॥इति अष्टाविंशोऽध्यायः॥