अष्टाङ्गसंग्रहः सूत्रस्थानम् अथाष्टविंशोऽध्यायः

श्लोक 1

अथातो बस्तिविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

बस्तिरनिलप्रधानेषु दोषेषु प्रयुज्यते।
बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः॥

श्लोक 3

स च सर्वोपक्रमाणां प्रधानतमः शीघ्रं बृंहणादिकारित्वाद्विकृतानिलोच्छेदित्वाच्च॥

श्लोक 4

अनिलो हि दोषाणां नेता।
सर्वशरीरचेष्टैककारणम्।
पञ्चात्मतया अङ्गप्रत्यङ्गव्यापी।
विधाता विविधबाह्याध्यात्मिकभावानां सर्गस्थितिप्रलयानां हेतुः मार्गत्रयजानामपि रोगाणामिति॥

श्लोक 5

सुखत्वादेव च बस्तिर्बालवृद्धकृशस्थूलक्षीणधात्विन्द्रियेषु च स्त्रीषु चानिलोपसर्गादप्रजासु कृच्छ्रप्रजासुचोपदिश्यते।
तथाग्निबलवर्णमेधास्वरायुःसुखप्रदो वयःस्थापनः पङ्गूरुस्तम्भभग्नसङ्कुचितानिलाध्मानशूलारोचकोदावर्तपरिकर्तिकादिषु हित इति॥

श्लोक 6

स तु बस्तिस्त्रिविधः।
आस्थापनमनुवासनमुत्तरबस्तिश्च।
तत्रास्थापनं दोषदूष्याद्यनुसारेण नानाद्रव्यसंयोगादिनिर्वृत्तम्।
तस्य भेदाः।
उत्क्लेशनं संशोधनं संशमनं लेखनं बृंहणं वाजीकरणं पिच्छाबस्तिर्माधुतैलिकमित्यादयः।
माधुतैलिकस्य पर्यायाः यापनो युक्तरथो दोषहरः स्निग्धबसतिरिति।
तेषां नामभिरेव स्वरूपमाख्यातम्॥

श्लोक 7

तद्वयःस्थापनाद्दोषस्थापनाद्वास्थापनमित्युच्यते शरीरारोहणाद्दोषनिर्हरणादचिन्त्यप्रभावतया यस्मिन्नूहासम्भवान्निरूह इति॥

श्लोक 8

अनुवासनं यथार्हौषधसिद्धः स्नेहनार्थः स्नेहः स्नेहविधौ स चतुर्धाभिहितः।
तस्य भेदो मात्राबस्तिः।
स पेयस्नेहह्रस्वमात्रातुल्यः॥

श्लोक 9

सेव्यः सदा च माधुतैलिकवत्।
बालवृद्धाध्वभारयानव्यायामचिन्तास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानिलभग्नाल्पाग्निभिर्निष्परिहारतया सुखो बल्यो वर्ण्यः सृष्टमलो दोषघ्नश्च तथापि तौ नाजीर्णे योज्यौ न च दिवास्वप्नः सेव्यः।
यतश्च सोऽन्नमनुवसन्नपि न दुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनम्॥

श्लोक 10

उत्तरबस्तिरपि स्नेहोनुवासनवच्छोधनं निरूहवदपि केचिदाहुः स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तरबस्तिः॥

श्लोक 11

तत्रास्थाप्या गुल्मप्लीहानाहशूलशुद्धातीसारजीर्णज्वरप्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयोनिशूलाङ्गसुप्तिशोषकम्पगौरवातिलाघवान्त्रकूजनवातवर्चोमूत्रशुक्रसङ्गाश्मरीशर्करावृद्धिशुक्रार्तवस्तन्यनाशरजःक्षयोन्मादरेतोदोषक्रिमिणकोष्ठविषमाग्निसशब्दाल्पाल्पोग्रगन्धोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयो विशेषेणैते हि परं बस्तिना नाशमुपयान्ति मूलच्छेदेन वृक्षवत्॥

श्लोक 12

अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेचननस्यप्रसक्तच्छर्दिनिष्ठीविकाकासश्वासहिक्कार्शोबद्धच्छिद्रदकादेराध्मानालसकविषूचिकामातीसारारोचकाल्पाग्निगुदशोफकुष्ठमधुमेहार्ताः।
गर्भिणी चाप्रवृत्ताष्टममासा।
तत्रातिस्निग्धोत्क्लिष्टदोषयोर्दोषानुक्लेश्योदरं मूर्च्छां श्वयथुं वा निरूहो जनयेत्।
क्षतोरस्कस्यातिकृशस्य च क्षोभमापन्नः शरीरमाशु पीडयेत्।
अनिरन्नस्य वक्ष्यते।
कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत्।
स्नेहबस्तिस्तु सद्योऽग्निमवसाद्य श्लेष्मामयाय स्यात्॥

श्लोक 13

कृतनस्यस्याम्यविभ्रंशं विऋव्तोध्वस्रोतस्तया कुर्यात्।
अनुवासनं तु दोषोत्क्लेशम्।
प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत्।
अनुवासनं च।
अर्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान् हिंस्यात्।
स्नेहः पुनरर्शांस्यभिष्यन्द्याध्मानाय स्यात्।
बद्धोदराद्याध्मानान्तानां भृशतरमाध्मानान्मृत्युः।
अलसकार्तादीनां चामदोषात्।
अरोचकार्तादीनां यथास्वमामयवृद्धिः।
गर्भिण्याः पूर्वोक्तो दोषः॥

श्लोक 14

य एवास्थाप्यास्त एवानुवास्याः।
रूक्सातिदीप्ताग्रयः केवलानिलार्ताश्च विशेषेण।
एते परमनुवास नेनाप्याय्यन्ते।
मूलसेकेन वृक्षवत्।
य एवानास्थाप्यास्त एवाननुवास्याः।
तथा निरन्ननवज्वरपाण्डुरोगकामलाप्रमेहप्रतिश्यायप्लीहकफोदराढ्यवातवर्चोभेदार्तपीतविषगरपित्तकफाभिष्यन्दगुरुकोष्ठातिस्थूलश्लीपदगलगण्डापचीक्रिमिणकोष्ठाः।
तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथग्दोषाः।
अपि च॥

श्लोक 15

अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम्।
सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते॥

श्लोक 16

तेन वायोर्जयो न स्याद्वातस्थाने ह्यतिष्ठता।
कायाग्नेराशु नाशश्च विशेषादनिवर्तनात्॥

श्लोक 17

स्नेहःसद्योशिताहाररुद्धे त्वामाशयेऽनिलम्।
पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः॥

श्लोक 18

निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि।
तावन्नमूर्च्छितौ तीक्ष्णावधोऽन्नेन सहागतौ॥

श्लोक 19

ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा।
समलाहारविष्टब्धौ हरेतामाशु जीवितम्॥

श्लोक 20

भुक्तवाननुवास्योऽस्मान्न निरूह्यस्तु भुक्तवान्।
पाण्डुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्।
प्रैश्यायादिमतां भूय एव दोषं वर्धयेत्॥

श्लोक 21

तयोस्तु नेत्रं सुवर्णादिधातुमणिशङ्खशृङ्गदन्तास्थिवेणुनलखदिरकदरतिनिशतिन्दुकादिदारुसारमयमृज्वककशं गोपुच्छाकृतिगुलिकामुखमूनवर्षवार्षिकसप्तद्वादशषोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात् पञ्चषट्सप्ताष्टनवद्वादशाङ्गुलप्रमाणम्।
मूलेऽग्रे चातुराङ्गुष्ठकनिष्ठिकापरिणाहमर्धाग्गुलात् प्रभृत्यर्धाङ्गुलप्रवृद्धत्र्यङ्गुलपर्यन्तप्रवेशमूलच्छिद्रम् वनमुद्गमुद्गमाषकलायक्लिन्नकलायर्ककन्धुवाह्यग्रच्छिद्रम् मूलछिद्रप्रमाणाङ्गुलैरग्रे यथास्वं सन्निविष्टकर्णिकं कर्णिकान्तःप्रतिबद्धसूत्रान्तर्गृहीताग्रपिधानघनचैलवर्ति।
मूले द्व्यङ्गुलान्तराले कर्णिकाद्वयं कारयेत्।
वर्षान्तरेषु च वयोबलशरीराण्यवेक्ष्य नेत्रप्रमाणमुत्कर्षयेत्॥

श्लोक 22

ततोजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं विगतच्छिद्रसिराग्रन्थिस्कन्धं नातिवर्तुलं मृदु दृढं कषायरक्तं सुखसंस्थाप्यौषधप्रमाण न्युब्जं विवृताननं निवेश्य बस्तिं कर्णकयोर्दृढेन सूत्रेण घनं समं च बध्वा परिवर्त्त्य पुनश्चान्यद्वस्तिमुखबन्धनार्थं सूत्रमुपधायानुगुप्तं निधापयेत्॥

श्लोक 23

बस्त्यभावे प्लवनीच्छागलाङ्कपादमधूच्छिष्टोपदिग्धघनसूक्ष्मतान्तवान्यतमं निवेशयेत्॥

श्लोक 24

आस्थापनमात्रा तु प्रथमे वर्षे प्रकुञ्चः।
ततः परं प्रतिवर्षं प्रकुञ्चमभिवर्धयेदाषट्प्रसृतात्।
ततश्चोर्ध्वं प्रसृताभिवृद्धिः।
प्राप्तानतीताष्टादशसप्ततेस्तु द्वादश प्रसृताः।
परं चातो दशैव।
अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छन्ति॥

श्लोक 25

यथास्वमास्थापनमात्रा पादहीना माधुतैलिके प्रयोज्या।
अनुवासने स्वेवमेवास्थापनस्य पाद इति॥

श्लोक 26

अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेकमासेवितपेयादिसंसर्गक्रममुपजातबलमनुवासनार्हं पूर्वमेवानुवासयेत्।
शीतवसन्तयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन्।
अन्यथा हि स्हेहोक्तामयप्रादुर्भावः॥

श्लोक 27

धन्वन्तरीयाः पुनराहः।
न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो हि रात्रिजः।
अह्नि स्थानस्थिते दोषे वह्नौचन्नरसान्विते॥

श्लोक 28

स्फुटस्रोतोमुखं देहं स्नेहो यत् परिसर्पति।
अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितम्॥

श्लोक 29

भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत्।
केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्यनुवासयेदात्ययिकत्वात् व्याधेः।
तस्य विधिर्वमनादधिकतरं कृतमङ्गलमनुसुखमभ्यक्तमुष्णाम्बुस्नातं युक्तस्नेहमुचितात् पादहीनं द्रवपूर्वं लघूष्णं सानुपानमशनमशितवन्तं कृतचङ्क्रमणमुत्सृष्टविण्मूत्रमशनार्द्रहस्तमशङ्कनीयपरिचारकं निवाते वेश्मनि प्रतत शयने नात्युच्छ्रिते स्वास्तृते ईषदुन्नमितपाददेशे वामपाश्वन प्राक्शिरसं संवेशयेत्।
अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छाग्निसादहृल्लासान् जनयति।
रूक्षाशिनो विष्टम्भं बलवर्णहानिं वा।
अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतेन तदावृतात् व्यापदम्।
चिरमशितवतो विदाहाभिमुखभक्तस्य ज्वरं कुर्यात्।
यतश्च वामपार्श्वाश्रयाणि वह्निग्रहणीगुदवलामुखानि तानि तत्पार्श्वशायिनो निम्नानि भवन्त्यतस्तदौषधमस्खलितमाप्नोति प्रवेशनिर्गमाविति।
संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुञ्चितेतरं तस्यैव चोपरिप्रसारितदाक्षणबाहुं कारयेत्॥

श्लोक 30

पूर्वमेव तु वैद्यो वर्त्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजनस्योपरि कृत्वा दक्षिणपादाङ्गुष्ठाङ्गुलीभ्यां कर्णिकाया उपरिष्टान्निष्पीड्याविबन्धाय शताह्वासैन्धवचूर्णावचूर्णितं प्रगेव नेत्रस्पर्शात् पूर्ववदाभिमन्त्रितं यथार्हं यथार्हौषधाविपक्व सुखोष्णं बस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निस्सारितवातबुद्बुदमौषधान्ते सूत्रेण द्विस्त्रिर्वा बस्तिमुखमावेष्ट्य दक्षिणपाणौ नेत्रमुपरिधाय तिष्ठेत्।
ततो घृताभ्यक्ते पायौ वामहस्तप्रदेशिन्याभ्यक्तप्रवेशप्रदेशमपनीतवर्त्युत्तानवामहस्ताङ्गुष्ठोदरपिहिताग्रं मध्यमाप्रदेशिन्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुखमेकमना लाघवेन निष्कम्पमद्रुतमविलम्बितं नेत्रमाकर्णिकं प्रवेशयेत्।
आतुरोऽपि तदनुलोमयन्नवलम्बेत।
ततश्च वैद्यो बस्तिमुखं दक्षिणहस्ताङ्गुष्ठप्रदोशिनीभ्याममुञ्चन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किञ्चिदवशेषयन् शनैश्शनैरवेगमनुपीडयेत्।
अन्यथा हि व्यापदो भवन्ति।
ताः ससाधनाः सिद्धिषु वक्ष्यन्ते॥

श्लोक 31

अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः।
न च बस्तौ दीयमाने क्षवकासहासजृम्भास्पन्दनान्याचरेत्।
विण्मूत्रानिलवेगे तु नेत्रमाकृष्य वेगान्ते शेषं प्रणयेत्।
अन्ते चोत्तानस्य स्थिजौ पाणितलेन त्रिचतुरो वारांस्ताडयेत्।
तथा तत्पार्ष्णिभ्याम्।
पादतश्च शय्यां त्रिरुत्क्षिपेत्।
सोपधानस्य च प्रसारितसर्वाङ्गस्य पार्ष्णिके मुष्टिना हन्यात्।
तथा पार्ष्ण्यङ्गुलिपादतलपिण्डिकाः।
सरुजं चाङ्गं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विमृद्नीयात्।
एवमाशु स्नेहो न निवर्तते।
समनुगच्छति चासमन्तात्सिराः।
ततः परं तु स्नेहोक्तमाचार्मनुवर्तते॥

श्लोक 32

दीप्तानिं च सायं लघ्वन्नं भोजयेत्।
नैव चानागतस्नेहं द्वितीयेऽहनि।
न च तमनुवासयेत्।
आगमनकालस्तु परो यामत्रयम्।
ततः परमनागच्छन्तमहोरात्रमुपेक्षेत।
तदाप्यनिवर्तमाने फलवर्तिभिर्लवणारनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्।
स्नेहव्यापत्सिद्धिं चावेक्षेत।
अतिरौक्ष्यादनागच्छन्नचेज्जाड्याद्युपद्रवाय् स्यात् तथाप्युपेक्ष्यः।
शीघ्रनिवृत्ते तु विना मलेन केवले स्नेह स्नेहमन्यं पुनर्योजयेत्।
न ह्यसावतिष्ठन् कार्यकरो भवति।
सुखोषितं चैनं तथाकृतवमनविरेकास्थापनान्यतमं प्रायः शुण्ठीधान्यक्वाथमितरच्चोष्णोदकं वा स्नेहशेषजरणाय वातकफोपशान्तये च पाययेत्॥

श्लोक 33

ततोऽन्नकाले यथोक्तमन्नमश्नीयात्।
न चानुवासितं पेयां पाययेत्।
सा हि सस्नेहकोष्ठमेनमभिष्यन्दयति।
पुनश्च तृतीयेऽहन्यनुवासयेत् पञ्चमे वा।
यदा वा स्नेहपक्तिः स्यादतश्च दाप्ताग्निरूक्षवातोल्बणव्यायामनित्यान् प्रत्यहम्।
एवममुना क्रमेण दोषाद्यनुसारतस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशुद्ध्यर्थमास्थापयेत्।
वाताधिक्यादस्निग्धं तु स्नेहनेन॥

श्लोक 34

अथैनं तृतीये पञ्चमे वाहनि किञ्चिदावृत्ते माध्याह्ने कृतमङ्गलस्वस्त्ययनमभ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेक्ष्यातुरमार्यावलोकितं नाथमार्यतारामात्मभुवं धातारमश्विनाविन्द्रमात्रेयं सप्तर्षीन् काशिराजं विदेहपतिप्रभृतीनग्निवेशादींश्च तन्त्रकारान् दीपगन्धफलबलिधूर्पैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीवृद्धवैद्यद्विजातींश्च संपूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्वस्तिम्॥

श्लोक 35

तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत्।
क्वाथाच्चतुर्थांशां स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे।
सर्वस्य चाष्टमांशं कल्कस्य स्याद्यावता नात्यच्छसान्द्रता भेवेत्।
गुडस्य पलं युक्त्या मधुसैन्धवे यथायोग्यं च शेषाणि कल्पयेत्॥

श्लोक 36

सर्वाणि चैकध्यमुष्णोदककुम्भीबाष्पाभितप्तानि खजमथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेत्।
नात्युष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसान्द्रं न हीनातिमात्रं नालवणातिलवणं नात्यम्लं च।
तत्र बाष्पमात्रानुतापादौषधस्य विदाहो न भवति।
खजप्रमथनात्तु क्वाथस्नेहादयः सम्यक् सम्प्रयुक्ताः सम्यगेव योगमारभन्ते।
अन्यथा पुनः क्वाथादीनामुल्बणोन्यतमं यथास्वं दोषमीरयेत्।
अत्युष्णादीनां तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यन्ते॥

श्लोक 37

अपि च।
तिर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे।
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावेदतिपीडितस्तु॥

श्लोक 38

स्तम्भं विधत्तेऽतिमृदुर्हिमश्च तप्ताम्लतीक्ष्णो भ्रमदाहमोहान्।
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्॥

श्लोक 39

करोति मात्राभ्यधिकोऽतियोगं क्षोभ तु सान्द्रः सुचिरेण चैति।
दाहातिसारौ लवणोऽति कुर्यात्तस्मात्सुयुक्तं सममेव दह्यात्॥

श्लोक 40

मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्।
कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्॥

श्लोक 41

सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्।
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्॥

श्लोक 42

आवपेत निरूहाणामेष संयोजने विधिः॥

श्लोक 43

दत्तमात्रे तूत्तानः सोपधानो निरूहवीर्येण देहव्याप्तये तन्मनास्थिष्ठेत्।
उदीर्णवेगश्चोत्कुटिको विसृजेत्।
आगमनकालस्तु परो मुहूर्तः।
तदा ह्यनागच्छन्नाशु मृत्यवे स्यात्।
अतस्तत्रानुलोमिकं स्नेहक्षारमूत्राम्लं स्निग्धतीक्ष्णोष्णमन्यं प्रयोजयेत्।
फलवर्तिस्वेदभयोत्त्रासादींश्च।
बस्तिव्यापत्सिद्धिं चावेक्षेत॥

श्लोक 44

स्वयं निवृत्ते तु पूर्ववद् द्वितीयं तृतीयं चतुर्थं च दद्याद्यावद्वा सुनिरूढः स्यात्॥

श्लोक 45

तत्राद्योऽनिलं स्वमार्गादपकर्षति।
द्वितीयः पित्तम्।
तृतीयः श्लेष्माणमिति॥

श्लोक 46

तस्य हीनसम्यगतियोगास्तु विरिक्तवत्।
सम्यङ्निरूढं तु कोष्णसलिलावसिक्तं तनुना जाङ्गलरसेन भोजयेत्।
स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयन्ते॥

श्लोक 47

ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशितानन्तरं सायं वा पुनरल्पलघ्वशितं यथास्वमलिलादिषु दशमूलादिसाधितेन तैलेनानुवासयेत्।
तस्य हीनसम्यगतियोगाः स्नेहपीतवत्॥

श्लोक 48

विशेषस्तु सम्यगनुवासिते किञ्चित्कालं स्थित्वा स्नेहः सपुरीषोनिलानुगतः प्रवर्तत इति।
भवति चात्र॥

श्लोक 49

एवं कफे स्नेहबस्तिमेकं त्रीन् वा प्रयोजयेत्।
प्ञ्च वा सप्त वा पित्ते नवैकादश वानिले॥

श्लोक 50

पुनस्ततोप्ययुग्मांस्तु पुनरास्थापनं ततः।
कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्।

श्लोक 51

वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः।
बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः॥

श्लोक 52

ग्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ।
पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ॥

श्लोक 53

आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः।
रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे॥

श्लोक 54

त्रयश्च सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात्।
नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मतः।
न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति॥

श्लोक 55

उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्।
त्रिधैव कल्पयेद्बस्तिमित्यन्येऽपि प्रचक्षते।
दोषौषधादिबलतः सर्वमेतत् प्रमाणयेत्॥

श्लोक 56

सम्यङ्निरूढलिङ्गं तु नासंभाव्य निवर्तयेत्॥

श्लोक 57

प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च।
सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः॥

श्लोक 58

कालः पञ्चदशैकोत्र प्राक्स्नेहोऽन्ते त्रयस्तथा॥

श्लोक 59

षट् पञ्च बस्त्यन्तारताः योगोष्टौ बस्तयोऽत्र तु।
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुमौ॥

श्लोक 60

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्।
उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्॥

श्लोक 61

तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः।
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्॥

श्लोक 62

अष्टादशाष्टादशकान् बस्तीनां यो निषेवते।
विधिना ना यथोक्तेन स भवेदजरोऽरुजः॥

श्लोक 63

सहस्रायुः श्रुतधरो वीतपाप्मामरप्रभः।
वाजिस्यदो नागबलः स्थिरबुद्धीन्द्रियानलः॥

श्लोक 64

बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च।
द्वित्रास्थापनशुद्धेभ्यो विदध्याद्वस्तिमुत्तरम्॥

श्लोक 65

आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्।
वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्॥

श्लोक 66

सिद्धार्थकर्पवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्।
कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम्॥

श्लोक 67

तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा॥

श्लोक 68

अथ स्नाताशितस्यास्य स्नेहब्स्तिविधानतः।
ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ॥

श्लोक 69

हृष्टे मेढ्रे स्थिते चर्ज्जु शनैः स्रोतोविशुद्धये।
मालतीपुष्पवृन्ताग्रपरिणाहां घनामृजुम्॥

श्लोक 70

श्लक्ष्णां शलाकां प्रणयेत्तया शुद्धेऽनुसीवनीम्।
आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः॥

श्लोक 71

पीडितेऽनुगते स्नेहे स्नेहबस्तिक्रमो हितः।
बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा॥

श्लोक 72

अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्॥

श्लोक 73

स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः।
विदधीत तदा तस्मादनृतावपि चात्यये॥

श्लोक 74

योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे॥

श्लोक 75

नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्।
अपत्यमार्गे योज्यं स्याद्द्व्यङ्गुलं मूत्रवर्त्मनि॥

श्लोक 76

मूत्रकृच्छ्रविकारेषु बालानां शुक्तिरेव तु॥

श्लोक 77

उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी।
ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्॥

श्लोक 78

बस्तींस्त्रिरामत्रेवं तु स्नेहमात्रां विवर्धयेत्।
त्र्यहमेवं च विश्रम्य प्रणिदध्यात् पुनस्त्र्यहम्॥

श्लोक 79

पक्साद्विरेको वमिते ततः पक्षान्निरूहणम्।
सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरोचितः॥

श्लोक 80

यथा कुसुम्भादियुतात्तोयाद्रागं हरेत् पटः।
तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्॥
इति अष्टाविंशोऽध्यायः॥