अष्टाङ्गसंग्रहः उत्तरस्थानम् 27

श्लोक 1

अथातः शिरोरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरैः।
उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः॥

श्लोक 3

अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः।
उपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः॥

श्लोक 4

असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः।
जनयन्त्यामयान् दोषाः

श्लोक 5

तत्र मारुतकोपतः॥
निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथा।
भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम्॥

श्लोक 6

बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी।
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते॥

श्लोक 7

स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहः।
प्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाशमौ॥

श्लोक 8

मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते।
शिरस्तापोऽयम्

श्लोक 9

अर्धे तु मूर्ध्नः सोऽर्धावभेदकः।
पक्षात् कुप्यति मासाद्वा स्वयमेवोपशाम्यति।
अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत्॥

श्लोक 10

शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरः।
स्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम्॥

श्लोक 11

अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता।
सिरानिष्पन्दतालस्यं रुङ्मन्दाह्न्यधिका निशि।
तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः॥

श्लोक 12

रक्तात्पित्ताधिकरुजः सर्वैः स्यात् सर्वलक्षणः।
सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे।
कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः॥

श्लोक 13

शिरसस्ते पिबन्तोऽस्रं घोराः कुर्वन्ति वेदनाः।
चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः॥

श्लोक 14

रौक्ष्यशोफव्यथच्छेददाहस्फुरणपूतिताः।
कपाले तालुशिरसोः कण्डूः शोफः प्रमीलकः।
ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे॥

श्लोक 15

वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः॥

श्लोक 16

पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः।
तीव्रदाहरुजारागप्रलापज्वरतृङ्भ्रमाः॥

श्लोक 17

तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः।
त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः॥

श्लोक 18

पित्तानुबन्धः शङ्खाक्षिभ्रूललाटेषु मारुतः।
रुजां सस्पन्दनां कुर्यादनुसूर्योदयोदयाम्॥

श्लोक 19

आमाध्याह्नं विवर्द्धिष्णुः क्षुद्वतः सा विशेषतः।
अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः प्रम।
सूर्यावर्तः सः

श्लोक 20

इत्युक्ता दश रोगाः शिरोगताः॥

श्लोक 21

शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव॥

श्लोक 22

कपाले पवने दुष्टे गर्भस्थस्यापि जायते।
सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम्॥

श्लोक 23

यथादोषोदयं ब्रूयात् पिटकार्बुदविद्रधीन्॥

श्लोक 24

कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः।
कङ्गुसिद्धार्थकनिभाः पिटकाः स्युररूंषिकाः॥

श्लोक 25

कण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः।
सुसूक्ष्मं कफवाताभ्यां विद्याद्दारणकं तु तत्॥

श्लोक 26

रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्।
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः॥

श्लोक 27

रोमकूपान् रुणध्द्यस्य तेनान्येषामसम्भवः।
तदिन्द्रलुप्तं रुज्जा च प्राहुश्चाचेति चापरे॥

श्लोक 28

खलतेरपि जन्मैवं शातनं तत्र तु क्रमात्॥

श्लोक 29

सा वातादग्निदग्धाभा पित्तात्स्वेदसिरावृता।
कफात् घनत्वग्वर्णांश्च यथास्वं निर्दिशेत्त्वचि॥

श्लोक 30

दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा।
दग्धाग्निनेव निर्लोमा सदाहा या च जायते॥

श्लोक 31

शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः।
केशान् सदोषः पचति पालितं सम्भवत्यतः॥

श्लोक 32

तद्वातात् स्फुटितं श्यावं खरं रूक्षं ज्वलत्प्रभम्।
पित्तात् सदाहं पीताभं कफात्स्निग्धं विवृद्धिमत्॥

श्लोक 33

स्थूलं सुशुक्लं सर्वेस्तु विद्याद्व्यामिश्रलक्षणम्।
शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम्॥

श्लोक 34

असाध्या सन्निपातेन खलतिः पलितानि च।
शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम्॥
॥इति सप्तविंशोऽध्यायः॥