श्लोक 1
सद्यो-व्रणा ये सहसा संभवन्त्य् अभिघाततः ।
अन्-अन्तैर् अपि तैर् अङ्गम् उच्यते जुष्टम् अष्ट-धा ॥ १ ॥
श्लोक 2
घृष्टावकृत्त-विच्छिन्न-प्रविलम्बित-पातितम् ।
विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया ॥ २ ॥
श्लोक 3
प्रविलम्बि-निपातितम् रक्त-लेशेन वा युक्तं स-प्लोषं छेदनात् स्रवेत् ।
अवगाढं ततः कृत्तं विच्छिन्नं स्यात् ततो ऽपि च ॥ ३ ॥
श्लोक 4
प्रविलम्बि स-शेषे ऽस्थ्नि पतितं पातितं तनोः ।
सूक्ष्मास्य-शल्य-विद्धं तु विद्धं कोष्ठ-विवर्जितम् ॥ ४ ॥
श्लोक 5
प्रविलम्बि स-शेषास्थि भिन्नम् अन्यद् विदलितं मज्ज-रक्त-परिप्लुतम् ।
प्रहार-पीडनोत्पेषात् सहास्थ्ना पृथु-तां गतम् ॥ ५ ॥
श्लोक 6
प्रहार-पीडनोत्पातैः प्रहार-पीडनात् तेषां सद्यः सद्यो-व्रणं सिञ्चेद् अथ यष्ट्य्-आह्व-सर्पिषा ।
तीव्र-व्यथं कवोष्णेन बला-तैलेन वा पुनः ॥ ६ ॥
श्लोक 7
क्षतोष्मणो निग्रहार्थं तत्-कालं विसृतस्य च ।
कषाय-शीत-मधुर-स्निग्धा लेपादयो हिताः ॥ ७ ॥
श्लोक 8
सद्यो-व्रणेष्व् आयतेषु संधानार्थं विशेषतः ।
मधु-सर्पिश् च युञ्जीत पित्त-घ्नीश् च हिमाः क्रियाः ॥ ८ ॥
श्लोक 9
मधु-सर्पिः प्रयुञ्जीत स-संरम्भेषु कर्तव्यम् ऊर्ध्वं चाधश् च शोधनम् ।
उपवासो हितं भुक्तं प्रततं रक्त-मोक्षणम् ॥ ९ ॥
श्लोक 10
उपवासो हितस् तत्र घृष्टे विदलिते चैष सु-तराम् इष्यते विधिः ।
तयोर् ह्य् अल्पं स्रवत्य् अस्रं पाकस् तेनाशु जायते ॥ १० ॥
श्लोक 11
अत्य्-अर्थम् अस्रं स्रवति प्राय-शो ऽन्य-त्र विक्षते ।
ततो रक्त-क्षयाद् वायौ कुपिते ऽति-रुजा-करे ॥ ११ ॥
श्लोक 12
अत्य्-अर्थम् अस्रं वमति प्राय-शो ऽन्य-त्र च क्षते स्नेह-पान-परीषेक-स्वेद-लेपोपनाहनम् ।
स्नेह-वस्तिं च कुर्वीत वात-घ्नौषध-साधितम् ॥ १२ ॥
श्लोक 13
स्नेहैर् वस्तिं च कुर्वीत वात-घ्नौषध-साधितैः इति साप्ताहिकः प्रोक्तः सद्यो-व्रण-हितो विधिः ।
सप्ताहाद् गत-वेगे तु पूर्वोक्तं विधिम् आचरेत् ॥ १३ ॥
श्लोक 14
इति सप्ताहिकः प्रोक्तः प्रायः सामान्य-कर्मेदं वक्ष्यते तु पृथक् पृथक् ।
घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत् ॥ १४ ॥
श्लोक 15
कल्कादीन्य् अवकृत्ते तु विच्छिन्न-प्रविलम्बिनोः ।
सीवनं विधिनोक्तेन बन्धनं चानु पीडनम् ॥ १५ ॥
श्लोक 16
बन्धनं चाशु पीडनम् अ-साध्यं स्फुटितं नेत्रम् अ-दीर्णं लम्बते तु यत् ।
संनिवेश्य यथा-स्थानम् अ-व्याविद्ध-सिरं भिषक् ॥ १६ ॥
श्लोक 17
उदीर्णं लम्बते तु यत् संनिवेश्य यथा-स्थानं सूच्या विध्येत् सिरां भिषक् पीडयेत् पाणिना पद्म-पलाशान्तरितेन तत् ।
ततो ऽस्य सेचने नस्ये तर्पणे च हितं हविः ॥ १७ ॥
श्लोक 18
तर्पणे कथितं हविः विपक्वम् आजं यष्ट्य्-आह्व-जीवकर्षभकोत्पलैः ।
स-पयस्कैः परं तद् धि सर्व-नेत्राभिघात-जित् ॥ १८ ॥
श्लोक 19
गल-पीडावसन्ने ऽक्ष्णि वमनोत्कासन-क्षवाः ।
प्राणायामो ऽथ-वा कार्यः क्रिया च क्षत-नेत्र-वत् ॥ १९ ॥
श्लोक 20
गल-पीडो ऽवसन्ने ऽक्ष्णि वमनोत्क्लेशन-क्षवाः कर्णे स्थानाच् च्युते स्यूते श्रोतस् तैलेन पूरयेत् ।
कृकाटिकायां छिन्नायां निर्गच्छत्य् अपि मारुते ॥ २० ॥
श्लोक 21
कर्णे स्थान-च्युते स्यूते स्रोतस् तैलेन पूरयेत् समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निर्-अन्तरम् ।
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते ॥ २१ ॥
श्लोक 22
समां निवेश्य बध्नीयात् आजेन सर्पिषा तत्र उत्तानो ऽन्नानि भुञ्जीत शयीत च सु-यन्त्रितः ।
घातं शाखासु तिर्यक्-स्थं गात्रे सम्यङ्-निवेशिते ॥ २२ ॥
श्लोक 23
स्यूत्वा वेल्लित-बन्धेन बध्नीयाद् घन-वाससा ।
चर्मणा गोष्-फणा-बन्धः कार्यश् चा-संगते व्रणे ॥ २३ ॥
श्लोक 24
कार्यश् चांस-गते व्रणे कार्यश् चांश-गते व्रणे पादौ विलम्बि-मुष्कस्य प्रोक्ष्य नेत्रे च वारिणा ।
प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्न-संज्ञया ॥ २४ ॥
श्लोक 25
सेवन्या पिचु-युक्तया सीवन्या पिचु-युक्तया कार्यश् च गोष्-फणा-बन्धः कट्याम् आवेश्य पट्टकम् ।
स्नेह-सेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः ॥ २५ ॥
श्लोक 26
तत्र क्लिद्यन्ति हि व्रणाः तेन क्लिद्यन्ति हि व्रणाः कालानुसार्य्-अगुर्व्-एला-जाती-चन्दन-पर्पटैः ।
शिला-दार्व्य्-अमृता-तुत्थैः सिद्धं तैलं च रोपणम् ॥ २६ ॥
श्लोक 27
जाती-चन्दन-पद्मकैः छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः ।
बध्नीयात् कोश-बन्धेन ततो व्रण-वद् आचरेत् ॥ २७ ॥
श्लोक 28
दग्ध्वा तैलेन युक्तिभिः कार्या शल्याहृते विद्धे भङ्गाद् विदलिते क्रिया ।
शिरसो ऽपहृते शल्ये वाल-वर्तिं प्रवेशयेत् ॥ २८ ॥
श्लोक 29
मस्तुलुङ्ग-स्रुतेः क्रुद्धो हन्याद् एनं चलो ऽन्य-था ।
व्रणे रोहति चैकैकं शनैर् अपनयेत् कचम् ॥ २९ ॥
श्लोक 30
मस्तुलुङ्ग-स्रुते क्रुद्धो मस्तुलुङ्ग-स्रुतौ खादेन् मस्तिष्कान् अन्य-जीव-जान् ।
शल्ये हृते ऽङ्गाद् अन्यस्मात् स्नेह-वर्तिं निधापयेत् ॥ ३० ॥
श्लोक 31
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुत-शोणिताः ।
सेचयेच् चक्र-तैलेन सूक्ष्म-नेत्रार्पितेन तान् ॥ ३१ ॥
श्लोक 32
भिन्ने कोष्ठे ऽसृजा पूर्णे मूर्छा-हृत्-पार्श्व-वेदनाः ।
ज्वरो दाहस् तृड् आध्मानं भक्तस्यान्-अभिनन्दनम् ॥ ३२ ॥
श्लोक 33
सङ्गो विण्-मूत्र-मरुतां श्वासः स्वेदो ऽक्षि-रक्त-ता ।
लोह-गन्धि-त्वम् आस्यस्य स्याद् गात्रे च वि-गन्ध-ता ॥ ३३ ॥
श्लोक 34
आमाशय-स्थे रुधिरे रुधिरं छर्दयत्य् अपि ।
आध्मानेनाति-मात्रेण शूलेन च विशस्यते ॥ ३४ ॥
श्लोक 35
शूलेन च विनश्यति शूलेन च विशिष्यते पक्वाशय-स्थे रुधिरे स-शूलं गौरवं भवेत् ।
नाभेर् अधस्-ताच् छीत-त्वं खेभ्यो रक्तस्य चागमः ॥ ३५ ॥
श्लोक 36
अ-भिन्नो ऽप्य् आशयः सूक्ष्मैः स्रोतोभिर् अभिपूर्यते ।
असृजा स्यन्दमानेन पार्श्वे मूत्रेण वस्ति-वत् ॥ ३६ ॥
श्लोक 37
तत्रान्तर्-लोहितं शीत-पादोच्छ्वास-कराननम् ।
रक्ताक्षं पाण्दु-वदनम् आनद्धं च विवर्जयेत् ॥ ३७ ॥
श्लोक 38
आमाशय-स्थे वमनं हितं पक्वाशयाश्रिते ।
विरेचनं निरूहं च निः-स्नेहोष्णैर् विशोधनैः ॥ ३८ ॥
श्लोक 39
हितं पक्वाशयाश्रये हितं पक्वाशय-स्थिते निः-स्नेहोष्णैर् विशोधनम् यव-कोल-कुलत्थानां रसैः स्नेह-विवर्जितैः ।
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धव-संयुताम् ॥ ३९ ॥
श्लोक 40
पिबेत् सैन्धव-संयुतम् अति-निःस्रुत-रक्तस् तु भिन्न-कोष्ठः पिबेद् असृक् ।
क्लिष्ट-च्छिन्नान्त्र-भेदेन कोष्ठ-भेदो द्वि-धा स्मृतः ॥ ४० ॥
श्लोक 41
अति-निःसृत-रक्तस् तु क्लिन्न-भिन्नान्त्र-भेदेन श्लिष्ट-च्छिन्नान्त्र-भेदेन मूर्छादयो ऽल्पाः प्रथमे द्वितीये त्व् अति-बाधकाः ।
क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति ॥ ४१ ॥
श्लोक 42
क्लिन्नान्त्रः संशयी देही क्लिष्टान्त्रः संशये देही श्लिष्टान्त्रः संशयी देही भिन्नान्त्रो नैव जीवति यथा-स्वं मार्गम् आपन्ना यस्य विण्-मूत्र-मारुताः ।
व्य्-उपद्रवः स भिन्ने ऽपि कोष्ठे जीवत्य् अ-संशयम् ॥ ४२ ॥
श्लोक 43
अ-भिन्नम् अन्त्रं निष्क्रान्तं प्रवेश्यं न त्व् अतो ऽन्य-था ।
उत्पङ्गिल-शिरो-ग्रस्तं तद् अप्य् एके वदन्ति तु ॥ ४३ ॥
श्लोक 44
उरोगल-शिरो-ग्रस्तं उरोङ्गिल-शिरो-ग्रस्तं पुपुङ्गल-शिरो-ग्रस्तं वयङ्गिल-शिरो-ग्रस्तं प्रक्षाल्य पयसा दिग्धं तृण-शोणित-पांसुभिः ।
प्रवेशयेत् कॢप्त-नखो घृतेनाक्तं शनैः शनैः ॥ ४४ ॥
श्लोक 45
क्षीरेणार्द्री-कृतं शुष्कं भूरि-सर्पिः-परिप्लुतम् ।
अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेद् अपि ॥ ४५ ॥
श्लोक 46
तथान्त्राणि विशन्त्य् अन्तस् तत्-कालं पीडयन्ति च ।
व्रण-सौक्ष्म्याद् बहु-त्वाद् वा कोष्ठम् अन्त्रम् अन्-आविशत् ॥ ४६ ॥
श्लोक 47
तत्-कालं पीडयेत च तत्-प्रमाणेन जठरं पाटयित्वा प्रवेशयेत् ।
यथा-स्थानं स्थिते सम्यक् अन्त्रे सीव्येद् अनु व्रणम् ॥ ४७ ॥
श्लोक 48
यथा-स्थान-स्थिते सम्यग् स्थानाद् अपेतम् आदत्ते जीवितं कुपितं च तत् ।
वेष्टयित्वानु पट्टेन घृतेन परिषेचयेत् ॥ ४८ ॥
श्लोक
जीवितं कुपितं च यत् चूर्णैर् यथोक्तैः संधानं कृत्वा क्षौद्र-घृत-प्लुतैः ।
ततः कवलिकां दत्त्वा वेष्टयेद् अनु-पूर्व-शः ॥ ४८.१+१ ॥
श्लोक 49
पाययेत ततः कोष्णं चित्रा-तैल-युतं पयः ।
मृदु-क्रियार्थं शकृतो वायोश् चाधः-प्रवृत्तये ॥ ४९ ॥
श्लोक 50
पाययेत् तं ततः कोष्णं चित्र-तैल-युतं पयः अनुवर्तेत वर्षं च यथोक्तं व्रण-यन्त्रणाम् ।
उदरान् मेदसो वर्तिं निर्गतां भस्मना मृदा ॥ ५० ॥
श्लोक 51
यथोक्तं व्रण-यन्त्रणम् अवकीर्य कषायैर् वा श्लक्ष्णैर् मूलैस् ततः समम् ।
दृढं बद्ध्वा च सूत्रेण वर्धयेत् कुशलो भिषक् ॥ ५१ ॥
श्लोक 52
श्लक्ष्णैर् मूले ततः समम् श्लक्ष्णैश् चूर्णैस् ततः समम् तीक्ष्णेनाग्नि-प्रतप्तेन शस्त्रेण सकृद् एव तु ।
स्याद् अन्य-था रुग् आटोपो मृत्युर् वा छिद्यमानया ॥ ५२ ॥
श्लोक 53
स-क्षौद्रे च व्रणे बद्धे सु-जीर्णे ऽन्ने घृतं पिबेत् ।
क्षीरं वा शर्करा-चित्रा-लाक्षा-गोक्षुरकैः शृतम् ॥ ५३ ॥
श्लोक 54
स-क्षौद्रे तु व्रणे बद्धे सु-जीर्णान्नो घृतं पिबेत् रुग्-दाह-जित् स-यष्ट्य्-आह्वैः परं पूर्वोदितो विधिः ।
मेदो-ग्रन्थ्य्-उदितं तत्र तैलम् अभ्यञ्जने हितम् ॥ ५४ ॥
श्लोक 55
मेदो-ग्रन्थ्य्-उदितं चात्र तालीशं पद्मकं मांसी हरेण्व्-अगुरु-चन्दनम् ।
हरिद्रे पद्म-बीजानि सोशीरं मधुकं च तैः ॥ ५५ ॥
श्लोक 56
पक्वं सद्यो-व्रणेषूक्तं तैलं रोपणम् उत्तमम् ।
गूढ-प्रहाराभिहते पतिते विषमोच्चकैः ॥ ५६ ॥
श्लोक 57
मूढ-प्रहाराभिहते कार्यं वातास्र-जित् तृप्ति-मर्दनाभ्यञ्जनादिकम् ।
विश्लिष्ट-देहं मथितं क्षीणं मर्माहतं हतम् ॥ ५७ ॥
श्लोक
कुर्याद् वातासृग्-उक्तं हि मर्दनाभ्यङ्ग-शोधनम् मर्दनाभ्यङ्ग-शोधनम् क्षीणं मर्माहताहतम् क्षीणं मर्माहतं च तम् वासयेत् तैल-पूर्णायां द्रोण्यां मांस-रसाशिनम् ॥ ५७ऊअब् ॥