श्लोक 1
अथातो मुखरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
स्निग्धस्विन्नस्य खण्डौष्ठस्यौष्ठान्तौ विलिख्य सुश्लिष्टौ क्षौमसूत्रेण सीव्येत्।
शतधौतघृताभ्यक्तां चास्मै कबलिकां व्रणस्योपरि दद्यात्।
प्रक्लिन्नं च व्रणं व्रणचिकित्सया साधयेत्॥
श्लोक 3
ज्योतिष्मतीलोध्रमधुकपटोलोत्पलकाकमाचीश्रावणीसारिवाभिस्तैलं विपक्वमभ्यञ्जनाच्छोधनरोपणम्।
तथा वातहरमधुरौषधसिद्धं तैलं नस्यम्॥
श्लोक 4
वातज औष्ठकोपे देवदारुगुग्गुलुसर्जरसमधूच्छिष्टसिद्धेन महास्नेहेनाभ्यङ्गः।
तेनैव समधुकचूर्णेन प्रतिसारणाम्।
तदभ्यक्तेन पिचुना प्रच्छादनम्।
एरण्डपल्लवैः क्षीरक्वथितैर्नाडीस्वेदः खण्डौष्ठोक्तं नावनं शिरोऽभ्यङ्गश्च॥
श्लोक 5
पित्तोत्थेऽभिघातजे च जालौकोभिर्विस्रावणम्।
पत्तङ्गयष्टीछिन्नरुहाविपक्वं सर्पिरभ्यङ्गः।
मधुमधुकलोध्रसर्जरसैः प्रतिसारणम्।
पित्तविद्रधिवच्च चिकित्सा॥
श्लोक 6
रक्तजेप्यचिरोत्थिते पैत्तिकवत् प्रतिकुर्यात्।
कफजे जलौकोभिः शाकादिपत्रैर्वा रक्तं विस्राव्य व्योषपाठायवक्षारस्वर्जिकाक्षारैः सक्षौद्रैः प्रतिसारयेत्।
कुष्ठतगरदन्तीश्यामाबिडहरितालविडङ्गैर्वा।
स्वेदनस्यधूमकवलांश्च कफघ्नानवचारयेत्॥
श्लोक 7
मेदोजे दन्तच्छदं स्वेदयित्वा वृद्धिपत्रेण विपाट्य शुद्धमेदसमग्निनानुपचरेत्।
कफजोक्तैश्च प्रतिसारणम्।
जलार्बुदोक्तं तैलं रोपणम्॥
श्लोक 8
जलार्बुदं भित्वा विशोध्य त्रिकटुकटुकातेजोवतीयवक्षारस्वर्जिकासैन्धवकासीसचूर्णैः सक्षौद्रैः प्रतिसारयेत्।
अवगाढमतिवृद्धं वा क्षारेणाग्निना वा दहेत् हरिद्रालोध्रमधुकमालतीहरेणुतगरैर्विपक्वं तैलं रोपणम्॥
श्लोक 9
गण्डालजीमपक्वां शोफवद्विदग्धामुपनाह्य पक्वां विदार्य व्रणवत् साधयेत्॥
श्लोक 10
शीतदन्तस्योष्णामुबुस्विन्नस्य व्रीहिमुखेन पालीं लिखित्वा पिचुतैलेन दहेत्।
प्रतिसारयेच्च प्रियङ्गुजम्ब्वस्थिदाडिमत्वक्त्रिफलारसाञ्जनसैन्धवशुण्ठीमुस्तचूर्णैः समधुघृतैः।
क्षीरिवृक्षकषायो गण्डूषः।
अणुतैलं नस्यम्॥
श्लोक 11
दन्तहर्षे भेदे च वातहरसिद्धं तैलमेलाकुष्ठपाटलीस्वग्विपक्वो मज्जा वा गण्डूषः।
स्निग्धाश्च नस्यादयः॥
श्लोक 12
दन्तचाले दशमूलक्वाथेन तैलसर्पिर्वसाक्षौद्रैश्च कवलः।
पिप्पलीसैन्धवतुत्थलोध्रपतङ्गस्रोतोजमुस्तात्रिफलाः प्रतिसारणम्।
नियतं च स्नैहिकधूमपायी स्निग्धमधुराहारो विस्रावणपरः स्यात्।
चन्दनपद्मकमधुकविदारीकशेरुकनीलोत्पलमृद्वीकाजीवकर्षभकशर्कराणां प्रत्येकं पलेन क्षीरेण च मांसरसद्विगुणेन तैलप्रस्थं विपाचयेत्।
एतन्नस्यगण्डूषप्रयोगात् परं दशननयनश्रवणबलकरम्॥
श्लोक 13
अधिदन्तकं क्षारेणालिप्य जर्जरं विज्ञाय कृमिदन्तकविधिनोत्पाड्य तद्वदेवोपचरेत्।
अनवस्थितशोणितं च दग्ध्वा व्रणवदुपक्रमेत॥
श्लोक 14
दन्तशर्करां दन्तमूलान्यपीडयन् दन्तलेखनेन विलिख्य क्षारतैलेनावसेचयेत्।
मूषाकूर्पपाटलीत्वक्चूर्णेन प्रतिसारणम्।
सदा च दन्तधावनादीन् सेवेत।
दन्तहर्षोक्तं च कुर्यात्॥
श्लोक 15
कपालिकायामेतदेव विशेषतः शीलयेत्॥
श्लोक 16
कृमिदन्तके सुषिरं गुडेन मधूच्छिष्टेन सर्पिष वापूरयित्वा तप्तया कुब्जशलाकया दहेत्।
सप्तच्छर्दाकक्षीरं वा पूरणम्।
सर्षपकरञ्जतैलं॥
श्लोक 17
हिङ्गुविडङ्गस्वर्जिकाकट्फलकासीसकुष्ठचूर्णस्तान्तवबद्धो दन्तस्योपरि तिष्ठन् रुजमपहरति।
कुन्दुरुष्कचूर्णो वा।
एभिरेव च सिद्धं तैलं गण्डूषः।
दृढगूढमूलमांसे सरुजे विस्रावणम्।
भग्नस्फुटितविवर्णसुप्तचलस्य सरुजस्य च॥
श्लोक 18
एवमनुपशमे सन्दंशयन्त्रेण दन्तमायतं गृहीत्वा विचाल्य शस्रेण पार्श्वेभ्यो मोक्षयित्वोद्धरेत्।
दन्तनिर्घातनेनोत्पीड्य मुद्गरेणाश्मना वा निर्घातयेत्।
न तूत्तरं दन्तम्॥
श्लोक 19
तस्योद्धरणाच्छोणितात्ययस्ततश्चेन्द्रियभ्रंशो वात व्याधिर्वा॥
श्लोक 20
प्रक्षालितमुखश्च समधुकचूर्णं तैलं मधु वा गण्डूषं धारयेत्॥
श्लोक 21
विदारीमधुकशृङ्गाटककशेरुकाभिस्तैलं दशगुणे पयसि सिद्धं नस्यम्॥
श्लोक 22
उत्तरदन्तोद्धरणेप्ययमेव प्रतीकारः।
शीतोपचारश्च सुतराम्॥
श्लोक 23
शीतादे शोणितं विस्राव्य रसाञ्जनमुस्तत्रिफलार्जुनत्वक्प्रियङ्गुमहौषधकषायं गण्डूषं धारयेत्।
एभिरेव च सक्षौद्रैः प्रतिसारणं।
मधुरवर्गसिद्धं तैलं नस्यम्।
तेजोवतीव्योषहरिद्राद्वयकुष्ठपाठाकटुरोहिणीलोध्रसमङ्गामुस्तैः प्रतिसारणं सर्वदन्तमांसामयेषु कण्डूश्वयथुवेदनारक्तस्रुतिहरम्।
तथा व्याषयवक्षारमनश्शिलासैन्धवदार्वीत्वग्भिः एभिरेवाषैर्धगुटिका सर्वमुखरोगहरा॥
श्लोक 24
उपकुशे सुखोष्णाम्बुस्विन्नान्युत्सन्नानि दन्तमांसान्यवलिखेन्मण्डलाग्रेण शाकादिपत्रैर्वा।
ततः सुखोष्णो घृतमण्डस्तैलं वा गण्डूषः।
मरिचकुष्ठमधुकप्रियङ्गुलाक्षापतङ्गगैरिकरसाञ्जनशुण्ठीसैन्धवैर्मधुघृतमण्डयुक्तैः प्रतिसारणम्।
पृथक्पर्णीविडङ्गविदारीमधुकपयस्यासुरदारुविपक्वं तैलं गण्डूषो नस्यं च।
मधुरवर्गसिद्धमेव वा सर्पिः पुनः पुनश्च रुधिरावसेकः॥
श्लोक 25
दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलिखिते स्वर्जिकामधुकशुण्ठीसैन्धवैः प्रतिसारणम्॥
श्लोक 26
दन्तविद्रधौ तिक्तकटुकषायोष्णैः समूत्रैः कबलो लेपश्च।
वृश्चिकालीकुष्ठकटुकायवक्षारैः प्रतिसारणम्।
तं च पाकतो रूक्षशीतैरन्तर्बहिः प्रयुक्तैर्वारयेत्।
पक्वे तु पाटनमवगाढे दाहः।
त्रिफलासुमनोरिष्ठक्वाथो गण्डूषः।
यष्टीमधुकसिद्धः सर्पिर्मण्डो नस्यम्॥
श्लोक 27
सुषिरे छिन्नलिखिते लोध्रमुस्तत्रिफलाकिंशुकपतङ्गतार्क्ष्यशैलशतपुष्पाकट्फलैरवघर्षः।
तेषामेव क्वाथो गण्डूषः।
क्षीरिवृक्षकिंशुकामलकानां वा।
गैरिकोत्पलमधूकसारिवाचन्दनप्रपौण्डकशर्करानन्तालोध्रागरुसिद्धं तैलं नावनम्॥
श्लोक 28
अधिमांसकमचिरोत्थितं स्रावयेत्।
विवृद्धन्तु बडिशेन मचुट्या वा गृहीत्वा मण्डलाग्रेण छित्वा तीक्ष्णैः प्रतिसारयेत्।
कटुतीक्ष्णैः कवलस्तैलं वा यवक्षारावचूर्णितम्॥
श्लोक 29
विदर्भे दन्तमूलानि शस्त्रेण विशोध्य क्षारं प्रयुज्य घृतमण्डं गण्डूषे दद्यात्।
लोध्रपतङ्गमञ्जिष्ठामधुकचूर्णः प्रतिसारणम्।
काकोलीयष्टीमधुशर्कराविपक्वं तैलं नावनम्॥
श्लोक 30
दन्तनाडीमेषयित्वा संवृतां शस्त्रेण विवृतयित्वा तदाश्रितं दन्तमशेषमुद्धृत्य शलाकया दहेत्।
कुब्जामवगाढामनेकगतिं वा गुडमधुसिक्थान्यतमपूर्णाम्।
ततः क्षीरिवृक्षकषायेण गण्डूषं धारयेत्।
तत्सिद्धेन वा तैलेन॥
श्लोक 31
दन्तीखदिरसारमदनस्वादुकण्टकक्वाथे लोध्रवालकोशीरदेवदारुमञ्जिष्ठामधुककल्कविपक्वं तैलं सर्षपतैलं वा नाडीशोधनरोपणम्॥
श्लोक 32
प्रपौण्डरीकहरिद्राद्वयमधुकमधूच्छिष्टलोध्रकटुकीशर्करापद्मकचन्दनमूर्वोपोदकावास्तुकतण्डुलीयकमञ्जिष्ठाम्लीकाकपित्थपत्रैर्वा॥
श्लोक 33
नस्यं च विडङ्गमधुकमुस्तनिर्गुण्डीखदिरमञ्जिष्ठोशीरसुरतरुसिद्धं तैलं।
धूमासृक्स्रावणनावनानि शीलयेत्।
नाडीसाधनं चेक्षेत॥
श्लोक 34
वातजेषु जिह्वाकण्टकेषु वातौष्ठकोपोक्तो विधिः।
पित्तजेषु विघृष्टस्रुतरुधिरेषु स्वादुभिर्द्रव्यैरवघर्षणगण्डूषनावनानि कुर्यात्।
तद्वत् कफजेषु तीक्ष्णैः॥
श्लोक 35
जिह्वालसे नवोत्थिते तीक्ष्णाः प्रतिसारणादयः।
न चात्र शस्त्रमवचारयेत्।
सिरां तु विध्येत्॥
श्लोक 36
अधिजिह्वामुन्नम्य बडिशेन गृहीत्वा मण्डलाग्रेण छिद्यात्।
तीक्ष्णाश्च नस्यादयः।
उपजिह्वां शाकपत्रेणाङ्गुलिशस्त्रेण वा विस्राव्य यवक्षारेण प्रतिसारयेत्॥
श्लोक 37
गलशुण्डिकां कफघ्नैरुपाचरेत्।
वृद्धायां तूर्वारुबीजनिभमसिराततमग्रमुपरिजिव्हायानिविष्टं बडिशेन मुचुट्या वा वस्त्रवेष्टिताभ्यां वामाङ्गुष्ठप्रदेशिनीभ्यां गृहीत्वा मण्डलाग्रेण नात्यग्रे नातिमूले छिन्द्यात्।
अग्रच्छेदादनुपशमः शोफो लालादिवृद्धिर्वा।
अतिच्छेदाच्छोणितक्षयेण मरणम्।
सम्यक्च्छिन्नायां पूर्ववत् प्रतिसारणादयः॥
श्लोक 38
तालुसङ्घाते पुप्पुटे कच्छपे च नवे विधिरयम्।
शस्त्रकर्मणि तु विशेषः।
अत्र हि विलेखनम्॥
श्लोक 39
तालुपाके त्वपक्वस्य श्वय्थोः कासीसरसाञ्जनक्षौद्रैः प्रतिसारणम्।
मधुरकषायैः शीतैर्गण्डूषः।
पक्वस्य मण्डलाग्रेणाष्टापदवत् भेदनम् तीक्ष्णैरवघर्षणम्।
पटोलारिष्टजातीकरवीरगुडूचीवृषकटुकाहरिद्राद्वयवेत्राग्रकण्टकारिकाक्वाथः कवलो मधु तैलं च॥
श्लोक 40
तालुशोषे मधुकपिप्पलीनागरसिद्धं सर्पिरुत्तरं भक्तिकं सतृष्णः पिबेत्।
अम्लैश्चास्य गण्डूषः।
पयस्यामधूकमधूलिकाविपक्वं क्षीरसर्पिर्नस्यम्।
स्निग्धो धूमः।
तृष्णाघ्नमन्नपानम्॥
श्लोक 41
कण्ठरोगेषु तु ज्वराद्यनुपद्रुतेषु कटुनीक्ष्णैर्नस्यावघर्षणगण्डूषादयः सिराव्यधो रसाञ्जनेन्द्रयवदार्वीनिम्बक्वाथः पानम्।
व्योषयवक्षारदार्वीरसाञ्जनतेजोवतीपाठानिम्बत्वक्त्रिफलाचित्रकैः शुक्तगोमूत्रक्वथितैः कवलो गुटिका वा प्रतिसारणम्।
तालीसपत्रगृहधूमपञ्चकोलकैलामरिचपलाशमुष्ककक्षारयवक्षारैर्यवक्वाथेन गुटिकाः कृताः सर्वकण्ठरोगेष्वमृतोपमाः॥
श्लोक 42
अथ वातरोहिणीकामन्तर्बहिः स्विन्नामङ्गुलिशस्त्रकेण मधुलवणगर्भेण वा नखेन विस्राव्य तीक्ष्णैः प्रतिसारयेत्।
महापञ्चमूलक्वाथो गण्डूषः।
एलापुनर्नवसिंहीकपित्थकल्कपयोविपक्वं तैलं गण्डूषो नावनं च॥
श्लोक 43
पित्तजामप्येवं विस्राव्य पतङ्गशर्करालोध्रप्रियङ्गुभिः प्रतिसारयेत्।
एषामेव कषायो गण्डूषः।
द्राक्षापरूषकोशीरमधुकचन्दनक्वाथो वा।
त्रिफलातिल्वकश्यामाश्रीपर्णीत्वङ्मधुयष्टिकाभिर्दशगुणे पयसि सिद्धं सर्पिर्नस्यकवलभोजनेषु॥
श्लोक 44
रक्तजामप्येवं प्रत्याख्यायोपक्रमेत्॥
श्लोक 45
श्लैष्मिकीं स्वेदयित्वा विलिख्य कटुकवर्गेणागारधूमत्रिफलासैन्धवयुक्तेन प्रतिसारयेत्।
तद्विधाश्च गण्डूषाः।
निम्बजात्यपामार्गविडङ्गविपक्वं तैलं नस्यम्॥
श्लोक 46
शालूकवृन्दतुण्डिकेरीगिलायुष्वप्येष एव विधिः॥
श्लोक 47
गलविद्रधौ विस्रावितायां लोध्रवरारसाञ्जनपतङ्गगैरिकरोचनापिप्पलीसैन्धवचूर्णैरवघर्षणम्।
एभिरेव क्वथितैर्गण्डूषः।
किराततिक्तकलोध्रदार्वी शतपुष्पानिम्बपत्रकुष्ठैलागुडूचीचित्रकतगरमुस्ताक्वाथ कल्कविपक्वं तैलं नावनम्॥
श्लोक 48
गलगण्डमनिलजं स्वेदयित्वा विस्रावयेत् रूढव्रण च तिलप्रियाललट्वामूलकशणातसीबीजैरुपनाहयेत्।
तिल्वकाग्निमन्थपुनर्नवकालामृतासौभाञ्जनक गजपिप्पल्येकैषिकार्कमूलकरघाटकपुष्पैः सुराम्लपिष्टैः पुनः पुनर्लेपयेत्।
निम्बगुडूचीकुटजहंसपादीकृष्णाबलाद्वयदेवदारुसिद्धं च तैलं पाययेत्॥
श्लोक 49
श्लैष्मिकेप्ययमेव विधिः तीक्ष्णतराश्च स्वेदप्रलेपादयः।
विशल्यातिविषाविषाणिकाशुकनासाजगन्धागुञ्जाफलकटुकालाबुभिः।
पलाशक्षारम्बुपिष्टैः सुखोष्णो लेपः।
वत्सकादिना पञ्चलवणयुक्तेन सिद्धं तैलं पानम्।
तीक्ष्णांश्च वमनादीन् शीलयेत्।
पर्यायतश्च स्वेदं शोणितावसेचनं च।
तथानुपशमे पाचयित्वा व्रणवदुभावप्युपाचरेत्।
यवान्नमुद्गादियूषांच व्योषोत्कटान् पानभोजनयोर्विदध्यात्॥
श्लोक 50
मेदाज स्विन्नस्य सिरां विध्येत्।
पूर्वोक्ताः प्रलेपाः प्रातः प्रातश्चासनादिसाररजो गोमूत्रेण पिबेत्।
एवमप्यशान्तौ शस्त्रेण विदार्य मेदो विशोध्य सीव्येत्।
दाहयोग्यं वा वसाघृतक्षौद्रान्यतमेन यथावद्दहेत्।
रोचनाकासीसतुत्थकचूर्णितं तैलं व्रणशोधनरोपणम्।
असनादिसारगोपुरीषभस्मयुक्तं वा॥
श्लोक 51
मुखपाकेषु सामान्यतस्त्रिफलाक्वाथो मधुमानन्ये च तिक्तकटुककषाया मुखधावनाः।
मृद्वीकापाठाजातीमातुलुङ्गार्जुनपत्रजीवकपल्लवानामनभ्यवहरता चर्वणम्॥
श्लोक 52
दारुहरिद्रार्धतुलां विंशतिगुणेऽम्भसि श्रपयित्वा तं क्वाथं सगैरिकमादर्वीप्रलेपात् साधितं क्षौद्रयुक्तं घृतभाजने निदध्यात्।
एतन्निष्ठीवनं सर्वमुखामयनाडीघ्नम्।
अयमेव च पृथक्कल्पो यष्टीमधुकपटोलीनिम्बाटरूषकजातीलोध्रारिमेदत्रिफलाजम्बूखदिरत्वचाम्॥
श्लोक 53
यवक्षारभागाः सप्त सुवर्णगैरिकात् भागद्वयं मूर्वाकटुकातिविषामलकानामेको भागस्तत् सर्वं कुतलक्षारोदकपिष्टं गुटिकाः कृत्वा खादेन्निष्ठीवेच्च॥
श्लोक 54
खदिरसारतुलामरिमेदतुलाद्वयं च तोयवहेऽष्टभागावशेषं क्वाथयेदवतारितं परिस्रुतं च पुनराघनीभावात्।
घनीभूते शीते च कार्षिकाणि श्लक्ष्णीकृतानि प्रक्षिपेच्चन्दनपद्मकोशीरवालकमञ्जिष्ठाधातकीमुस्तप्रपौण्डरीकमधुकत्रिफलाचातुर्जातकलाक्षानलदतार्क्ष्यशैललोध्रद्विरजनीसमङ्गापाठाकट्फलैलेयपतङ्गागरुगैरिकाञ्जनानि।
पालिकांश्च जातीफललवङ्गकङ्कोलकेबुकान्।
कर्प्पूरार्द्धकुडवं च।
ता गुटिका वदनस्थाः सर्वान् मुखरोगान् जयन्ति।
सौरभं सौमनस्यं रुचिं च जनयन्ति॥
श्लोक 55
एषामेव च कल्ककषायैस्तैलं साधितं कवले नियुञ्ज्यात्॥
श्लोक 56
तत्र वातजे मुखपाके दशमूलकाकोलीरास्नामधुकसारिवाक्वाथेन कुष्ठकल्केन च सिद्धं तैलं नस्यं गण्डूषश्च।
स्नैहिको धूमः।
पिप्पल्येलालवणोत्तमैः प्रतिसारयेत्॥
श्लोक 57
पैत्तिके क्षीरेक्षुरसद्राक्षाशर्करोदकैर्गण्डूषः।
मधुरद्रव्यसिद्धं पयः पानं कवलो नस्यं च।
पद्मकसमङ्गामञ्जिष्ठालोध्रधातकीविपक्वः सर्पिर्मण्डो नावनम्।
मदयन्तिकापतैर्निष्ठीवनं च॥
श्लोक 58
कफजे कटुकक्षारलवणैः प्रतिसारणम्।
स्थिरासु तु पिटकासु प्राक्शाकादिपत्रेण लेखनम्।
मुष्ककपलाशामलकीक्षारगोमूत्रैर्गण्डूषः।
तद्विपक्वं च तैलम्।
निर्गुण्डीफणिज्जकार्जकसुरसपत्रैर्निष्टीवनम्।
देवदारुपाठातिविषादन्तीन्द्रयवकटुकागोमूत्रेण कल्कताः क्वथिता वा पीताः सर्वकफामयान् निघ्नन्ति॥
श्लोक 59
रक्तजे पित्तवत् सिद्धिः।
सर्वजे यथादोषोदयम्।
रोचनाकासीससौराष्ट्रिकारसाञ्जनानि मोचरसो मधु चैकतो विपक्वं लोहभाजनस्थं कल्कं विशुष्कं चुर्णीकृतं मधुना व्रणलेपं कुर्यात्॥
श्लोक 60
अथ सर्वसरमर्बुदमचिरोत्थितमवृद्धं मण्डलाग्रेण छित्वा मुष्ककभस्मना मधुमिश्रेण प्रतिसारयेत् स्वर्जिकाशुण्ठीचूर्णेन वा।
मधुतैलं निम्बगुडूचीक्वाथश्च गण्डूषः।
यवान्नभोजी तीक्ष्णानि कवलाभ्यङ्गनस्यान्याचरेत्॥
श्लोक 61
पूतिमुखं स्निग्धस्विन्नं वामयित्वा शिरोविरेकैरुपाचरेत्।
ततः स्वर्जिकाहिङ्गुगृहधूममनश्शिलैलाशुण्ठीविडङ्गतेजोवतीभिर्गुटिकाः कृत्वा मधुद्रुता मुखपरिशोधनार्थं दद्यात्।
समङ्गाधातकीपद्मलोध्रप्रियङ्गुचूर्णैः सलिलमवचूर्णितं मुखधावनम्।
शीतादोपकुशोक्तं च कुर्यात् नस्यधूमकवलांश्च शीलयेत्।
भवति चात्र॥
श्लोक 62
मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः।
तस्मात्तेषामसकृद्रुधिरं विस्रावयेद्दुष्टम्॥
श्लोक 63
कायशिरसोर्विरेको वमनं कवलग्रहाः कटुकतिक्ताः।
प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म॥
श्लोक 64
यवतृणधान्यं भक्तं विदलैःक्षारोषितैरपस्नेहाः।
यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय॥
श्लोक 65
प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः।
कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत॥
॥इति षड्विंशोऽध्यायः॥