अष्टाङ्गसंग्रहः सूत्रस्थानम् षड्विंशोऽध्यायः

श्लोक 1

अथातः स्वेदविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

चतुर्विधोऽग्निस्वेदो भवति तापोपनाहद्रवोष्मभेदेन।
तत्र तापस्वेदः पाणिकांस्यफालवालुकावस्त्रघटिकादिभिः साक्षादग्निना च प्रयोक्तव्यः॥

श्लोक 3

उपनाहस्वेदस्तु सर्वगन्धधान्यसर्षपकिण्ववचादेवदारुरास्नैरण्डमूलमधुकशताह्वासुराकिट्टादिवातहरद्रव्यचूर्णैर्यवगोधूमशकलैरानूपासृक्पित्तशिरःपादामिषवेशवारैश्च।
तथा श्लेष्मसंसृष्टे वायौ सुरसादिभिः।
पित्तसंसृष्टे च पद्मकादिभिः।
पृथक् सहितैर्वा।
क्षीरशुक्तधान्याम्ललवणमस्तुप्रगाढैः सुस्निग्धैः सुखोष्णैः साल्वलाभिधानैस्तैर्बहुशः प्रदिह्योष्णवीर्यापूतिसृदुरोमचर्मभिस्तदभावे घनवातहरपत्राविककौशेयैरुपनद्धमङ्गमहस्थितं विदाहपरिहारार्थं निशि मुञ्चेत्।
दिवा निशि बद्धम्।
दोषकालवलवशेन वा॥

श्लोक 4

द्रवस्वेदस्तु द्विविधिः।
परिषेकोऽवगाहश्च।
तत्र शिग्रुवरणाम्रातकमूलकसर्षपसुरसार्जकवासावंशाश्मन्तकाशोकशिरीषार्ककरञ्जैरण्डमालतीपत्रभङ्गपूतीकदशमूलादिवातहरैर्द्रव्यैर्मस्तुसलिलसुराक्षीरशुक्तादिभिः क्वथितैः पूर्वोक्तैश्च यथादोषं पृथक् सहितैर्वा कुम्भीर्वर्षलिकाः प्रणालीर्वा पूरयित्वा वातहरसिद्धस्नेहाभ्यक्तमनभ्यक्तं वोपविष्टं किलिञ्जे वा शयानमेकाङ्गे सर्वाङ्गे वा वस्त्रावच्छन्ने परिषेचयेत्।
तैरेवाद्भिः पूर्णे महति कटाहे कुण्डे द्रोण्यांवावगाहयेत्॥

श्लोक 5

ऊष्मस्वेदः पुनरष्टधा भिद्यते।
पिण्डः संस्तरो नाडी घनाश्म कुम्भी कूपः कुटी जेन्ताकश्च।
तत्र मृत्कपालपाषाणलोष्टलोहपिण्डानग्निवर्णान् सन्दंशेन गृहीत्वाम्भस्यम्ले वा निमज्जयेत् तैरार्द्रावकिवस्त्रेण वेष्टितैः श्लेष्ममेदोभूयिष्ठं सरुजमङ्गं ग्रन्थिमद्वा स्वेदयेत्।
पांसुसिकतागवादिपुरीषधान्यबुसपुलाकपललैर्वाम्लोत्क्वथितैः पूर्ववद्वेष्टितैः।
गवादिशकृतार्द्रेण पिण्डीकृतेनोपनाहद्रव्योत्कारिकाकृसरमांसपिण्डैर्वा वातरोगेष्विति पिण्डस्वेदः।
स एव सङ्कराख्यः॥

श्लोक 6

यथार्हस्वेदद्रव्याणि पिहितमुखायामुखायां सम्यगुपस्वेद्य निवातशरणशयनस्थे किलिञ्जे प्रस्तीर्याविककौशेयवातहरपत्रान्यतमोत्तरप्रच्छदे रौरवाजिनप्रावारादिभिः स्ववच्छन्नं स्वेदयेदिति संस्तरस्वेदः॥

श्लोक 7

पूर्ववदेवोपस्वेद्योखामुखेऽन्यामुख।
नाडीमूलच्छिद्रप्रमाणपार्श्वच्छिद्रामुपसन्धायावलिप्य च पार्श्वच्छिद्रस्थया नाड्या शरोषिकावंशदलकिलिञ्जकरञ्जपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घयाध्यर्द्धव्यामदीर्घया वा स्वायामचतुर्भागाष्टभागपरिणाहमूलाग्रस्रोतसा सर्वतोवातहरपत्रसंवृतछिद्रया द्विस्त्रिर्वा विनमितया सुखोपविष्टस्य स्वभ्यक्तप्रावृतेङ्गे बाष्पमुपहरेत्।
बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः॥

श्लोक 8

पुरुषायाममात्रमधिकं वा घनं समं च शिलातलं भूप्रदेशं वा वातहरदारुदीप्तेनाग्निना सर्वतस्तापयित्वाग्निमपोह्योष्णोदकाम्लादिभिरभ्युक्ष्य यथोक्तप्रच्छदे संस्तरवत्स्वेदयेदिति घानाश्मस्वेदः॥

श्लोक 9

पूर्ववत् स्वेदद्रव्याणि कुम्भ्यामुत्क्वाथ्याश्लिष्योपविष्टस्तद्वदूष्माणं गृह्णीयात्।
भूमौ वा तां निखाय तदूर्ध्वमासनं शयनं वा नातिघनप्रच्छदं परितः प्रलम्बमानकुथाकम्बलगोणिकं निधाय तत्रस्थस्योष्माणं गृह्णतः कुम्भ्यामग्निवर्णानयोगुडानुपलांश्च शनैर्निमज्जयेदिति कुम्भीस्वेदः॥

श्लोक 10

शयनस्याधोविस्तारद्विगुणखाते कूपे वातहरदारुकरीषान्यतरपूर्णदग्घे विगतधूमे स्वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः॥

श्लोक 11

कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहकल्कघनप्रदिग्धकुड्यां सर्वतोविधूमप्रदीप्तखदिराङ्गारपूर्णहसन्तिकासमूहपरिवृतां विधाय तन्मध्ये च शय्यां तत्रस्थं स्वेदयेदिति कुटीस्वेदः॥

श्लोक 12

अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत।
पूर्वस्यामुत्तरस्यां वा दिशि गुणवति प्रशस्तभूमिभागे।
देशे कृष्णमृत्तिके वा।
सुवर्णवर्णमृत्तिके परिघापुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले।
दक्षिणे पश्चिमे वा सुतीर्थे समसुविभक्तभूमिभागे।
सप्ताष्टौ वारत्नीरपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाभिमुखतीर्थं कूटागारं कारयेत्।
उत्सेधविस्तारतः परमरत्नयः षोडश।
समन्तात्सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनम्।
अस्य च कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोच्छ्रायां पिण्डिकां कारयेदाकवाटात्।
मध्ये चास्य कूटागारस्य किष्कुमुक्तं द्विपुरुषप्रमाणं मृन्मयं कन्दुसंस्थानंबहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सापिधानं कारयेत्।
तं च खादिराणामश्वकर्णानां वा काष्ठानां पूरयित्वा दीपयेत्।
स यदा जानीयात्साधुदग्धानि काष्ठानि विगतधूमान्यवतप्तं सर्वमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति।
तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्।
अनुशिष्यात्सौम्य प्रविश कल्याणायारोग्याय च।
प्रविश्य चैनां पिण्डिकामारुह्य षार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः।
न च त्वरयास्वेदमूर्छापरीतेनापि पिण्डिकैषा विमोक्तव्याप्राणोच्छ्वासात्।
भ्रश्यमानो ह्यतः पिण्डिकावकाशाद् द्वारमनधिगच्छन् स्वेदमूर्च्छा परीततया सद्यः प्राणान् जह्याः।
तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः।
त्वं यदा जानीया विगताभिष्यन्दमात्मानं सम्यक् प्रस्रुतस्वेदपिच्छं सर्वस्रोतो विमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्तिवेदनाग रवमिति।
ततः पिण्डिकानुसारेण द्वारं प्रपद्येथाः।
निष्क्रम्य च चक्षुषोः परिपालनार्थमतिस्विन्नोऽपि न सहसा शीतोदकमनुप्रविशेथाः।
सम्यक् स्विन्नस्त्वपगतसन्तापक्लमो मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयादिति जेन्ताकस्वेदः॥

श्लोक 13

तेषां विशेषतस्तापोष्मस्वेदौ कफे प्रयोजयेत्।
उपनाहमनिले।
किञ्चित् पित्तसंसृष्टेऽन्यतरस्मिन् द्रवमिति॥

श्लोक 14

अनाग्नेयं पुनर्मेदःकफावृते वायौ निवातसदनगुरुप्रावरणबहुमद्यपानव्यायामक्षुदातपनियुद्धाध्वभारभरणामर्षभयैः।
उपनाहं च पित्तान्वये पूर्वोक्तेनैव विधिनाग्निरहितमिति।
भवति चात्र॥

श्लोक 15

निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्।
व्याधिव्याधितदेशर्त्तुवशान्मध्यवरावरम्॥

श्लोक 16

कफार्तो रूक्षणं रूक्षो रूक्षस्निग्धं कफानिले।
आमाशयगते वायौ कफे पक्वाशयाश्रिते॥

श्लोक 17

रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः।
अल्पं वङ्क्षणयोः स्वल्पं दृङ्भुष्कहृदये न वा॥

श्लोक 18

पद्मोत्पलादिभिः सक्तुपिण्ड्या वाच्छाद्य चक्षुषी।
शीतैर्मुक्तावलीपद्मकुमुदोत्पलभाजनैः॥

श्लोक 19

मुहुः करैश्च तोयर्द्रैः स्विद्यते हृदयं स्पृशेत्।
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे।
स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्॥

श्लोक 20

पित्तास्रकोपतृण्मूर्च्छास्वराङ्गसदनभ्रमाः।
सन्धिपीडाज्वरश्यावरक्तमण्डलदर्शनम्॥

श्लोक 21

स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्।
विषक्षाराग्न्यतीसारछर्दिमेहातुरेषु च॥

श्लोक 22

स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा।
द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम्॥

श्लोक 23

स्वेदनं स्तम्भनं श्लक्ष्णरूक्षसूक्ष्मसरद्रवम्।
प्रायस्तिक्तं कषायं च मधुरं च समासतः॥

श्लोक 24

स्तम्मितः स्यात् बले लब्धे यथोक्तामयसङ्क्षयात्।
स्तम्भत्वक्स्नायुसङ्कोचकम्पहृद्वाग्घनुग्रहैः॥

श्लोक 25

पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्।
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छतान्।
स्तम्भनीयक्षतक्षीणाक्षाममद्यविकारिणः॥

श्लोक 26

तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः।
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्॥

श्लोक 27

भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्।
क्षुत्तृष्णाकमलापाण्डुमेहिनः पित्तपीडितान्॥

श्लोक 28

गर्भिणीं पुष्पितां सूतां मृदु वात्ययिके गदे।
श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु।
स्वरभेदानिलव्याधिपक्षाघातापतानके॥

श्लोक 29

अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे।
महत्त्वे मुष्कयोः खल्यामायांमे वातकण्टके॥

श्लोक 30

मूत्रक्र्च्छ्रार्बुदग्रन्थिशुक्राघाताढ्यमारुते।
वेपथुश्वयथुस्वापस्तम्भजृम्भाङ्गगौरवे॥

श्लोक 31

कर्णमन्याशिरःकोष्ठजङ्घापादोरुरुक्षु च।
स्वेदं यथायथं कुर्यात्तदौषधविभागतः॥

श्लोक 32

स्विन्नोऽन्नं पथ्यमश्नीयाद्दोषरोगानुरोधतः।
तदहः स्विन्नसर्वाङ्गो व्यायामं सुतरां त्यजेत्॥

श्लोक 33

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्।
कुर्यात् स्वेदो जाड्यतन्द्रापहारं स्तब्धान् सन्धींश्चेष्टयत्याशु चास्य॥

श्लोक 34

स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः।
दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते॥
इति षड्विंशोऽध्यायः॥