अष्टाङ्गसंग्रहः उत्तरस्थानम् 25

श्लोक 1

अथातो मुखरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

मात्स्यमहिषवाराहपिशितामकमूलकम्।
माषसूपदधिक्षीरशुक्तेक्षुरसफाणितम्॥

श्लोक 3

अवाक्शय्यां च भजतो द्विषतो दन्तधावनम्।
धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम्।
क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान्॥

श्लोक 4

तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधाकृतः॥

श्लोक 5

ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ।
दाल्येते परिपाट्येते परुषासितकर्कशौ॥

श्लोक 6

पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ।
पिटकाभिर्बहुक्लेदावाशुपाकौ

श्लोक 7

कफात् पुनः।
शीतासहौ गुरू शूनौ सवर्णपिटकाचितौ॥

श्लोक 8

सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ।
अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ॥

श्लोक 9

रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ।
खर्जूरसदृशं चात्र क्षीणे रक्तेर्बुदं भवेत्॥

श्लोक 10

मांसपिण्डोपमौ मांसात् स्यातां मूर्च्छत्कृमी क्रमात्॥

श्लोक 11

तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू॥

श्लोक 12

क्षतजाववदीर्येते पाट्येते चासकृत् पुनः।
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ॥

श्लोक 13

जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम्॥

श्लोक 14

गण्डालजी स्थिरः शोफो गण्डे दाहरुजान्वितः॥

श्लोक 15

वातादुष्णासहादन्ताः शीतस्पर्शाधिकव्यथाः।
दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः॥

श्लोक 16

दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः।
भवन्त्यम्लाशनेनैव सरुजश्चलिता इव॥

श्लोक 17

दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः।
चालश्वलद्भिर्दशनैर्भक्षणादधिकव्यथैः॥

श्लोक 18

करालस्तु करालानां दशनानां समुद्भवः॥

श्लोक 19

दन्तोधिकोधिदन्ताख्यः स चोक्तः खलवर्द्धनः।
जायमानेऽतिरुग्दन्ते जाते तत्र तु शाम्यति॥

श्लोक 20

अधावनान्मलो दन्ते कफो वा वातशोषितः।
पूतिगन्धिः स्थिरीभूतः शर्करा

श्लोक 21

साप्युपेक्षिता।
शातयत्यणुशो दन्तकपालानि कपालिका॥

श्लोक 22

श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः।

श्लोक 23

समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः।
शोषिते मज्ज्ञि सुषिरे दन्तेन्नमलपूरिते॥

श्लोक 24

पूतित्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः।
अहेतुतीव्रार्तिशमः ससंरम्भोसितश्चलः।
प्रलूनः पूयरक्तस्रुत् स चोक्तः कृमिदन्तकः॥

श्लोक 25

श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम्।
शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च।
शीतादोसौ

श्लोक 26

उपकुशः पाकः पित्तासृगुद्भवः।
दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः॥

श्लोक 27

कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेसृजिस्थिते।
चला मन्दरुजो दन्ताः पूतिवक्त्रं च जायते॥

श्लोक 28

दन्तयोस्त्रिषु वा शोफो बदरस्थिनिभो घनः।
कफास्रात्तीव्ररुक् शीघ्रं पच्यते दन्तपुप्पुटः॥

श्लोक 29

दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः।
सरुग्दाहः स्रवेत् भिन्नः पूयास्रं दन्तविद्रधिः॥

श्लोक 30

श्वयथुर्दन्तमूलेषु रुजावान्रक्तपित्तजः।
लालास्रावी स सुषिरो दन्तमांसप्रशातनः॥

श्लोक 31

स सन्निपातज्वरवान् सपूयरुधिरस्रुतिः।
महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः॥

श्लोक 32

दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः।
प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोधिमांसकः॥

श्लोक 33

घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्।
यस्मिंश्चलन्ति दन्ताश्च स विदर्भोभिघातजः॥

श्लोक 34

दन्तमांसाश्रितान्रोगान् यः साध्यानप्युपेक्षते।
अन्तस्तस्यास्रवन् दोषः सूक्ष्मां सञ्जनयेद्गतिम्।
पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी॥

श्लोक 35

ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः॥

श्लोक 36

शाकपत्रखरास्रस्ता स्फुटिता वातदूषिता।
जिह्वा पित्तात् सदाहोषा रक्तैर्मांसाङ्कुरैश्चिता।
शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः॥

श्लोक 37

कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः।
मत्स्यगन्धिर्भवेत् पक्वः सोलसो मांसशातनः॥

श्लोक 38

प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः।
साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः।
अधिजिह्वः सरुक्कण्डूवाक्याहारविघातकृत्॥

श्लोक 39

तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः॥

श्लोक 40

तालुमांसेनिलाद्दुष्टे पिटकाः सरुजाः खराः।
बह्व्यो घनास्रावयुतास्तास्तालुपिटकाः स्मृताः॥

श्लोक 41

तालुमूले कफात्सास्रान्मत्स्यबस्तिनिभो मृदुः।
प्रलम्बः पिच्छिलः शोफो नासयाहारमीरयन्।
कण्ठोपरोधतृट्कासवमिकृत् गलशुण्डिका॥

श्लोक 42

तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः॥

श्लोक 43

पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम्॥

श्लोक 44

कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक्॥

श्लोक 45

कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः॥

श्लोक 46

पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः॥

श्लोक 47

वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः॥

श्लोक 48

जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः।
मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी॥

श्लोक 49

कण्ठास्यशोषकृद्वातात् सा हनुश्रोत्ररुक्करी।
पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता॥

श्लोक 50

क्षिप्रजा क्षिप्रपाकातिरागिणी स्पर्शनासहा।
कफेन पिच्छिला पाण्डुरसृजा स्फोटकाचिता॥

श्लोक 51

तप्ताङ्गारनिभा कर्णरुक्वरी पित्तजाकृतिः।
गम्भीरपाका निचयात् सर्वलिङ्गसमन्विता॥

श्लोक 52

दोषैः कफोल्बणैः शोफः कोलवत् ग्रथितोन्नतः।
शूककण्टकवत् कण्ठे शालूको मार्गरोधनः॥

श्लोक 53

वृन्दो वृत्तोन्नतो दाहज्वरकृत् गलपार्श्वगः॥

श्लोक 54

हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः।
पिच्छिलो मन्दरुक्शोफः कठिनस्तुण्डिकेरिका॥

श्लोक 55

बाह्यान्तःश्ववथुर्घोरो गलमार्गार्गलोपमः।
गलौघो मूर्द्धगुरुतातन्द्रालालाज्वरप्रदः॥

श्लोक 56

वलयं नातिरुक्शोफस्तद्वदेवायतोन्नतः॥

श्लोक 57

मांसकीलो गले दोषैरेकोनेकोथवाल्परुक्।
कृच्छ्रोछ्वासोभ्यवहृतिः पृथुमूलो गिलायुकः॥

श्लोक 58

भूरिमांसाकुङ्रवृता तीव्रतृङ्ज्वरमूर्द्धरुक्।
शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी॥

श्लोक 59

व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः।
पूतिपूयनिभास्नावी श्वयथुर्गलविद्रधिः॥

श्लोक 60

जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः।
जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम्॥

श्लोक 61

पवनश्लेष्ममेदोभिर्गलगण्डो भवेत् बहिः।
वर्द्धमानः स कालेन मुष्कवल्लम्बते निरुक्॥

श्लोक 62

कृष्णारुणो वा तोदाढ्यः स वातात् कृष्णराजिमान्।
वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम्॥

श्लोक 63

स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात्।
वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम्॥

श्लोक 64

मेदसा श्लेष्मवद्धानिवृध्योः सोनुविधीयते।
देहं वृद्धस्य कुरुते गले शब्दं स्वरेऽल्पता॥

श्लोक 65

श्लेष्मरुद्धानिलगतिः शुष्ककण्ठो हतस्वरः।
ताम्यन् प्रसक्तं श्वसिति येन स स्वरहानिलात्॥

श्लोक 66

करोति वदनस्यान्तर्व्रणान् सर्वसरोऽनिलः।
सञ्चारिणोऽरुणान्रूक्षानो ष्ठौ ताम्रौ चलत्वचौ॥

श्लोक 67

जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता।
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः॥

श्लोक 68

अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः।
यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः॥

श्लोक 69

मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता।
क्षारोक्षितक्षतसमा व्रणास्तद्वच्च रक्तजे॥

श्लोक 70

क्वफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः॥

श्लोक 71

अन्तः कपोलमाश्रित्य श्यावपाण्डु कफोर्बुदम्।
कुर्यात्तत् घट्टितं छिन्नं मृदितं च विवर्धते॥

श्लोक 72

मुखपाको भवेत् सास्रैः सर्वैः सर्वाकृतिर्मलैः॥

श्लोक 73

पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः॥

श्लोक 74

औष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले।
वक्त्रे सर्वत्र चेत्युक्ता पञ्चसप्ततिरामयाः॥

श्लोक 75

एकादशैको दश च त्रयोदश तथा च षट्।
अष्टावष्टादशाष्टौ च क्रमात् तेष्वनुपक्रमाः॥

श्लोक 76

करालो मांसरक्तोष्ठावर्बुदानि जलाद्विना।
कच्छपस्तालुपिटका गलौघः सुषिरो महान्॥

श्लोक 77

स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः।
नाड्योष्ठकोपौ निचयाद्रक्तात् सर्वैश्च रोहिणी॥

श्लोक 78

दशने स्वरभ्रंशी कृच्छ्रोच्छवासोऽतिवत्सरः।
याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत्॥