अष्टाङ्गसंग्रहः सूत्रस्थानम् पञ्चविंशोऽध्यायः

श्लोक 1

अथातः स्नेहविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

स्नेहादिषूपयोगाय तद्व्यापच्छमनाय च।
कुर्यात् प्रागेव तद्योगिद्रव्यसम्भारसङ्ग्रहम्॥

श्लोक 3

गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम्।
औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम्॥

श्लोक 4

सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्।
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्॥

श्लोक 5

माधुर्यादविदाहित्वाज्जन्माद्येव च शीलनात्।
पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्।

श्लोक 6

घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च।
द्वाध्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्॥

श्लोक 7

स्नेहाशया दधिक्षीरं मांसास्थिफलदारु च।
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः।
वृद्धबालावलकृशा रूक्षाः क्षीणास्ररेतसः॥

श्लोक 8

वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः।
स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः।
ऊरुस्तम्भातिसारामगलरोगगरोदरैः॥

श्लोक 9

मूर्छार्छद्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः।
अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने॥

श्लोक 10

तत्र धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम्।
ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु॥

श्लोक 11

तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु।
वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु॥

श्लोक 12

रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च।
शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च॥

श्लोक 13

तथादग्धाहतभ्रष्टयोनिकर्णाशिरोरुजि।
तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे।
सर्वं सर्वस्य च स्नेहं युञ्ज्यात् भास्वति निर्मले॥

श्लोक 14

ऋतौ साधारणे दोषसाम्येऽनिलकफे कफे।
दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि॥

श्लोक 15

त्वरमाणे तु शीतेऽपि दिवा तैलं च योजयेत्।
उष्णेऽपि रात्रौ सर्पिश्च दोषादीन्वीक्ष्य चान्यथा॥

श्लोक 16

निश्यश्नुते वातकफाद्रोगानहनि पित्ततः।
युक्यावचारयेत् स्नेहं भक्ष्याद्यन्नेन बस्तिभिः।
नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः॥

श्लोक 17

रसभेदैककत्वाभ्यां चतुष्षष्टिर्विचारणाः।
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः॥

श्लोक 18

यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा।
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्॥

श्लोक 19

द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्।
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रासीयसीम्॥

श्लोक 20

कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम्।
अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम्॥

श्लोक 21

तत्र दुर्बलमन्दाग्निबालवृद्धसुखात्मकैः।
अपथ्यरिक्तकोष्ठत्वज्वरातीसारकासिभिः॥

श्लोक 22

ह्रस्वा पेया सुखा सा हि परिहारेऽनुवर्तते।
चिराच्च बल्या न रुजे व्यापन्नापि प्रकल्पते॥

श्लोक 23

मेहोरुःपिटकाकुष्ठवातशोणितपीडितैः।
मध्यमा मृदुकोष्ठैश्च स्नेहनी स्यात्सुखेन सा॥

श्लोक 24

न बलक्षपणी मन्दविभ्रंशा शुद्धयेऽप्यलम्।
महादोहानलबलक्षुत्तृट्क्लेशसहिष्णुभिः।
गुल्मोदावर्तवीसर्पदंशाभिपीडितैः॥

श्लोक 25

उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा।
सर्वमार्गानुसारेण जयेद् व्याधीन् सुयोजिता॥

श्लोक 26

ह्यस्तेन जीर्ण एवान्ने स्नेहोच्छः शुद्धये बहुः।
शमनः क्षुद्वयोऽनन्नो मध्यमात्रश्च शस्यते॥

श्लोक 27

बृंहणो रसमद्याद्यैः सभक्तोऽल्पो हितः स च।
बालवृद्धपिपासाअर्तस्नेहद्विण्मद्यशीलिषु॥

श्लोक 28

स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु।
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च॥

श्लोक 29

स्नेहः प्राग्भोजनात् कुर्यादूरुजङ्घाकटीबलम्।
वेगानुलोम्यमारोग्यमधःकायगदक्षयम्॥

श्लोक 30

मध्ये बृहत्त्वाग्निबलस्थिरताकुक्षिरुक्शमान्।
इन्द्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयम्॥

श्लोक 31

वाते सलवणं सर्पिः पित्ते केवलमिष्यते।
वैद्यो दद्यात् बहुकफे क्षारत्रिकटुकान्वितम्॥

श्लोक 32

वार्युष्णमच्छेऽनुपिबेत्स्नेहे तत्सुखपक्तये।
आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु॥

श्लोक 33

उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते।
ततो गुरुप्रावरणो निवातशयनस्थितः।
जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः॥

श्लोक 34

शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः।
जानीयाद् भेषजं जीर्यज्जीर्णं तच्छान्तिलाघावात्॥

श्लोक 35

अनुलोमनिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः।
जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्।
तेनोद्गारविशुद्धिः स्तात्ततश्च लघुता रुचिः॥

श्लोक 36

भोज्योऽन्नं मात्रया पास्यन् श्वःपिबन् पीतवानपि।
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्॥

श्लोक 37

उष्णोदकोपचारी स्यात् ब्रह्मचारी क्षपाशयः।
व्यायामवेगसंरोधशोकवर्षहिमातपान्॥

श्लोक 38

प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः।
नीचात्युच्चोपधानाहस्स्वप्नधूमरजांसि च॥

श्लोक 39

यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्।
सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः॥

श्लोक 40

उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्।
स्नेहस्य पानात् पूर्वं च दातव्यं मृदुभेषजम्।
उत्तेजनं हुताशस्य कोष्ठलाघवकारि च॥

श्लोक 41

त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्।
सम्यक्स्निग्धोऽथवायावदतःसात्मीभवेत् परम्॥

श्लोक 42

सात्मीभूतो हि कुरुते न मलानामुदीरणम्।
अतियोगेन वा व्याधीन् यथाम्ब्बोधोतियोजनात्॥

श्लोक 43

विहत्य सेतुं मृत्कोष्ठात् स्रवति क्षपयन् मृदम्।
स्नेहोऽप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुम्॥

श्लोक 44

वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्।
मृदुस्निग्धाङ्गताग्लानिःस्नेहोद्वेगोऽथलाघवम्॥

श्लोक 45

विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्ययः।
पाण्ड्वामयाग्गसदनघ्राणवक्त्रगुदस्रवाः।
गुददाहारुचिश्छर्दिमूर्छातृष्णाप्रवाहिकाः॥

श्लोक 46

शुक्तोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात्।
अमात्रयाहितोऽकाले मिथ्याहारविहारतः।
स्नेहः करोति शोफार्शस्तन्द्रानिद्राविसंज्ञताः॥

श्लोक 47

कण्डूकुष्ठज्वरोत्क्लेशशूलानाहबलक्षयान्।
जठरेन्द्रियदौर्बल्यजाड्यामस्तम्भवाग्ग्रहान्॥

श्लोक 48

तांस्तान् स्वदोषहेतूत्थान् पाण्ड्वादींश्चातियोजनात्।
क्षुत्तृष्णोक्लेखनस्वेदरूक्षपानान्नभेषजम्।
तक्रारिष्टखलोद्दालयवश्यामाककोद्रवाः॥

श्लोक 49

पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु।
यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्॥

श्लोक 50

विरूक्षणे लङ्घनवत् कृतातिकृतलक्षणम्।
स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृतः।
स्नेहमाशु जरां नीत्वा पुनरोजोऽभितश्चरन्॥

श्लोक 51

उदीरयेत् सोपसर्गां पिपासामस्य बाधिकाम्।
सोऽसूंस्त्यजेद्यद्युदकं न पिबेदाशु शीतलम्॥

श्लोक 52

शीतसेकावगाहान् वा तत्तृष्णापीडितो भजेत्।
स्नेहाग्निना दह्यमानः स्वविषेणेव पन्नगः॥

श्लोक 53

अजीर्णे बलवत्या तु शीतैर्दिह्याच्छिरोमुखम्।
छर्दयेत्तदशान्तौ च पीत्वा शीतोदकं पुनः॥

श्लोक 54

रूक्षान्नमुल्लिखेद्भुक्त्वा तादृश्यां तु कफानिले।
समदोषश्च निःशेषं स्नेहमुष्णाम्बुनोद्धरेत्॥

श्लोक 55

ततो दोषादिबलतः पूर्वोक्तं च विधिं श्रयेत्।
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः।
सर्वं ह्यनुव्रजेद्देहं हत्वा संज्ञां च मारयेत्॥

श्लोक 56

स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत्।
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः॥

श्लोक 57

एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः।
तिलमाषदधिक्षीरगुडमत्स्यरसादिभिः॥

श्लोक 58

मासला मेदुरा भूरिश्लेष्माणो विषमाग्नयः।
स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः॥

श्लोक 59

संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते।
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः॥

श्लोक 60

बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु।
योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्॥

श्लोक 61

प्रभूतमांसनिष्क्वाथान् जाङ्गलानूपजान् रसान्।
स्नेहभृष्टेषु वा तेषु यवागूं नातिसंहताम्॥

श्लोक 62

तिलचूर्णं च सस्नेहं फाणितं कृसरां तथा।
तिलकाम्बलिकं भूरिस्नेहं सर्पिष्मतीमपि॥

श्लोक 63

पेयां सुखोष्णा क्षैरेयीं पात्रे वा ससिताघृते।
सर्पिर्लवणयुक्तं वा सद्योदुग्धं तथा पयः॥

श्लोक 64

पेयां च पञ्चप्रसृतां स्नेहैस्तण्डुलपञ्चमैः।
पायसं माषमिश्रं च बहुस्नेहसमूयुतम्।
तैलशुण्ठीगुडरसं जीर्णे मांसरसाशिनः॥

श्लोक 65

स्नेहं वैकं सुराच्छेन दध्नो वा सगुडं सरम्।
वसां वराहजां सर्पिः पिप्पलीं लवणं तिलान्॥

श्लोक 66

पिप्पलीं लवणं स्नेहांश्चतुरो दधिमस्तुकम्।
दध्ना सिद्धं व्योषगर्भं धात्रीद्राक्षारसे घृतम्॥

श्लोक 67

यवकोलकुलत्थाम्बुक्षारक्षीरसुरादधि।
घृतं च सिद्धं तुल्यांशं सद्यःस्नेहनमुत्तमम्॥

श्लोक 68

सिद्धांश्च चतुरः स्नेहान् बदरत्रिफलारसैः।
योनिशुक्रामयहरान् सद्यःस्नेहान् प्रयोजयेत्॥

श्लोक 69

लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्।
तद्धि विष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च॥

श्लोक 70

गुडानूपामिषक्षीरतिलमाषसुरादधि।
कुष्टशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्॥

श्लोक 71

त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्।
स्नेहान्यथास्वमेतेषां योजयेदविकारिणः॥

श्लोक 72

क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्।
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः।
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः॥
इति पञ्चविंशोऽध्यायः॥