अष्टाङ्गसंग्रहः उत्तरस्थानम् 24

श्लोक 1

अथातो नासारोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सर्वेष्वादौ पीनसेषु स्नेहस्वेदवमनधूमगण्डूषस्निग्धोष्णभोजननिवातशयनासनानि सेवेत॥

श्लोक 3

पाचनार्थं च गुडार्द्रकक्षीरत्रिकटुकाजमांसमद्याम्लभोजनानि॥

श्लोक 4

रोहिषाजाजीवचाचोरकोपकुञ्चिकातर्कारीचातुर्जातकरजो वस्त्रावबद्धं मुहुर्मुहुरुपजिघ्नेत्।
घृताक्तसक्तून् मल्लकसम्पुटे कृत्वा धूमं च पिबेत्॥

श्लोक 5

पक्वे तु शिरोविरेचनमवपीडं च युञ्ज्यात्॥

श्लोक 6

निदानोक्तानि च वर्जयेत्।
विशेषेण शीताम्बुस्नानपानात्युच्चोपधानानुपधानक्रोधशोकान्॥

श्लोक 7

अथ वातप्रतिश्याये पूर्वमेव वातहरद्रव्यविपक्वं ससैन्धवं प्रातः सर्पिः पिबेन्महाषट्पलं वा॥

श्लोक 8

दशमूलकुलत्थकोलयवशुष्कमूलकव्योषलवणपञ्चकैः सदधि धान्याम्लं सर्पिः सिद्धमाहारे पाने च प्रणीतं प्रतिश्याययक्ष्माकासश्वासग्रहणीगुल्मविबन्धघ्नम्॥

श्लोक 9

जीर्णस्नेहं जाङ्गलरसेन व्योषदाडिमसैन्धववता बालमूलकरसेन सर्वधान्ययूषेण वा भोजयेत्।
नागरं वा पयसा पिबेत्॥

श्लोक 10

कृष्णादशमूलशुण्ठीयवैरण्डमूलक्काथासिद्धेन पयसोत्तमाङ्गं स्वेदयेत्।
तदेव च पानभोजनयोर्विदध्यात्।
अर्दितोक्तांश्च स्वेदान्।
एवमपरिपच्यमाने पुनः पुनर्नाडीस्वेदं वातहरं चास्थापनमनुवासनं शिरोबस्तिं च॥

श्लोक 11

पक्वे तु तैलं क्षवकचूर्णयुक्तं ससैन्धवं सर्पिर्वा शिरोविरेचनम्॥

श्लोक 12

पित्तप्रतिश्याये पद्मकोशीरपटोलसारिवाविदारीशतावरीक्षीरिद्रुमशुङ्गशठीकर्कटाख्यादुरालभानामर्द्धढकमष्टगुणेम्भासि विपाच्य पादावशेषे मधुकमृद्वीकाचन्दनशृङ्गाटककशेरुकश्वेतपाकान्यक्षमात्राणि दत्वा घृतप्रस्थं पयसा सह साधयेत्।
तत् प्रातः पानाय युञ्ज्यात्।
जीर्णे सुखोष्णतोयपरिषिक्तं ससैन्धवेन रसेन भोजयेत्।
सुस्निग्धं विरेचयेत् द्राक्षापटोलश्रीपर्णीमूर्वात्रिवृत्क्वाथेन त्रिवृत्पथ्यापूगफलचूर्णान्वितेन॥

श्लोक 13

विरिक्तभुक्तस्य शीतैः शिरोवक्त्रलेपपरिषेककवलग्रहान् वितरेत्॥

श्लोक 14

व्यजनपवनविधूयमानश्च नीलशाद्वलोपवनशिशिरकरकिरणधारागृहाणि सेवेत॥

श्लोक 15

तत्र च पक्वे दोषे शिरोविरेकं पुराणघृतेन ससैन्धवेन घृतमण्डेन वा कट्फलान्वितेन कुर्यात्।
विशुद्धस्रोतसश्च जाङ्गलरसेन क्षीरेण वा शीतेन भोजनम्॥

श्लोक 16

कफजे तु यवक्षारावचूर्णितमुष्णोदकानुपानं घृतं पाययेत्।
जीर्णे च तिलमाषपललवतीं यवागूम्।
ततो वामनीयौषधक्वाथसिद्धया ससर्पिष्कया सैन्धवमाषचूर्णप्रगाढया पेययोष्णाम्भसा च वामयेत्॥

श्लोक 17

ततस्तीक्ष्णधूमकवलयवान्नचणकप्रायाहारनाडीस्वदेरुपाचरेत्।
अरुचिगौरवयोस्तु विशोधयेत्॥

श्लोक 18

पक्वे क्षवकविडङ्गसैन्धवादीभिर्नस्यम्।
तैलाप्लुतो नागरचूर्णानुविद्धो मुद्ग आहारो यथासात्म्यं च रूक्षतीक्ष्णोष्णम्॥

श्लोक 19

शुद्धघ्राणपथस्य देवदारुसरलकाकोलीजीवकमधुकपिप्पल्यनन्ताक्षीरविपक्वं तैलं नस्यम्॥

श्लोक 20

सान्निपातिके दोषबलतः प्रतिकुर्यात्।
रसाञ्जनातिविषामुस्तभद्रदारुसाधितं चात्र तैलं नावनम्॥

श्लोक 21

रक्तजे पैत्तिको रक्तपित्तोक्तश्च विधिः॥

श्लोक 22

दुष्टप्रतिश्याये व्योषचित्रकयवक्षारबीजकविडङ्गपूतीकरञ्जत्वग्लवणत्रयैर्मांसरसप्रतीवापविपक्वं सक्षौद्रं सर्पिः पाययेत्।
जीर्णे घृते जाङ्गलरसेन तलोपसेकं भोजयेत्।
स्निग्धं च कफप्रतिश्यायवदुपाचरेत्॥

श्लोक 23

पक्वेऽवपीडं व्योषेन्द्रयवविडङ्गसारजीरकसैन्धवैर्बस्तमूत्रपिष्टैर्दद्यात्।
विशुद्धघ्राणस्रोतसं च पुनरुपस्नेह्य विरेचयेत्।
भृष्टान्यवान् भूस्तृणकाम्रातकजीरकत्रिवृतायुक्तान् गोमूत्रेण क्वाथयेत्।
तं क्वाथमभयानागरमरिचक्रमुकसैन्धवयावशूकचूर्णयुक्तं सबीजपूरकरसं पाययेत्।
कोष्णोदकं चानुकण्ठयेत्॥

श्लोक 24

विरिक्तं च काले मुस्तहरिद्रानागरयवक्षारपूतीकरञ्जरेणुकाभिरजाविगोत्रदधिभिश्च सिद्धं सर्पिरुपयोजयेत्।
तीक्ष्णानि च निरूहानुवासनानि।
अरिष्टांश्च पानार्थम्॥

श्लोक 25

एवमप्यशान्तौ हिङ्गुक्षारामरदारुविपक्वं घृतं मांसरसानुपानं पिबेत्॥

श्लोक 26

कोशाम्रपल्लवमूर्वा तर्कारीङ्गुदीफलफणिज्जकमहापञ्चमूलकण्टकारिकासारिवोरुपूग-हिंस्रानिम्बशिग्रुफलरक्षोघ्नकृमिघ्नदन्ती पूतिकरञ्जपिप्पलीवार्ताकबीजाहिमारकमूलत्वक्पत्रपुष्पफलैरजामूत्रपि-ष्टैरजाश्वशकृद्रसयुक्तैर्धूमवर्तिं कृत्वा घृताभ्यक्तां पातुं प्रयच्छेत्॥

श्लोक 27

पिप्पलीवर्धमानं चोपयुञ्जीत।
कृमिघ्नैश्च योगैर्यापयेत्॥

श्लोक 28

भृशक्षवथौ पुटके च निम्बकट्फलकुष्ठमरिचचूर्णैः क्लेदनाय प्रधमनम्।
पिप्पलीकुष्ठशुण्ठीविडङ्गमृद्वीकाकषायकल्कविपक्वं तैलं घृतं वा नावनम्॥

श्लोक 29

नासाशोषे बलातैलं पाने शिरोबस्तौ च।
स्निग्धस्य स्वेदः।
क्षीरसर्पिर्नस्यं मधुरवर्गसाधितं वा तैलम्।
स्नेहिको धूमः।
तथा नासानाहेऽपि।
एवमनुपशमे शिरोविरेकः॥

श्लोक 30

नासापाके दीप्तौ च जालौकोभिरस्रविस्रावणम्।
शीतैरूर्ध्वाधोविरेकलेपसेकाः।
नासास्रावे तीक्ष्णं नस्यं धूमश्च॥

श्लोक 31

अवीनसे पूतिनासे च गुडमरिचहिङ्गुशिवाटिकाविडङ्गैरजामूत्रपिष्टैर्नस्यम्।
कफप्रतिश्यायवच्च स्नेहस्वेदवमनानि॥

श्लोक 32

वमितवतो निर्गुण्डीशिग्रुतर्कारीफणिज्जकक्षवकसुरसार्जकपत्रस्वरसेन सार्षपं पीलुजं वा तैलं विपाच्य नस्यं विदध्यात्॥

श्लोक 33

लाक्षाविडङ्गपिप्पलीलवङ्गक्षवकनिशाकुष्ठवचाकरञ्जिकाकल्कैर्वा तिलतैलम्।
शिग्रुबृहतीदन्तीमूलबिल्वव्योषसुरससैन्धवैर्वा॥

श्लोक 34

उत्पन्नमात्रं पूयरक्तं रक्तप्रतिश्यायवच्चिकित्सेत्।
प्रवृद्धं नाडीव्रणवत्।
कृतवमनस्य चास्य नस्यधूमौ प्रयोजयेत्॥

श्लोक 35

अर्शांसि विधिवत् क्षारेणाग्निना वा दहेत्।
स्थूलानि तु शस्त्रेण स्पृष्ट्वा दाहानन्तरं शीतां क्रियां योजयेत्॥

श्लोक 36

वर्तिं च नासायां कुम्भनिकुम्भाग्निकसैन्धवपिप्पलीमनश्शिलालकल्कमधुघृतप्रदिग्धाम्॥

श्लोक 37

तुवरिकाबिभीतकहरिद्रालोध्रप्रियङ्गुकरञ्जिकाकल्कगुडोदकविपक्वं तैलं नावनम्।
करञ्जकलोध्रोत्पलमधुकतिन्दुकास्थित्रिफलाखदिरसारविपक्वं॥

श्लोक 38

यथादोषं च स्नेहवमनविरेकादीन् प्रणिदध्यात्॥

श्लोक 39

अर्बुदं बडिशेन गृहीत्वा मण्डलाग्रेण मूले समं छिन्द्यात्।
छिन्नं चोच्छिङ्खयेत्।
चलप्रमृष्टं च व्रणं शलाकया दहेत्तैलेन वा।
अग्निदग्धं म्रङ्क्षयेत्ततः शिशिरैः प्रदेहैः॥

श्लोक 40

उपरूढव्रणस्य लोध्रावापं तीक्ष्णोष्णलवणद्रव्यगोमूत्रयुक्तं सार्षपं कारञ्जं वा तैलं नावनम्।
पित्तजे रक्तजे वार्बुदे गोदन्तसैन्धवालकासीसकांस्यनीलैरम्बुपिष्टैरालेपः।
ततश्च शीताः प्रदेहसेकाः।
शीतैरेव च साधितानि घृतान्यभ्यङ्गनस्यपानानि॥

श्लोक 41

मांसमेदः सन्निपातार्शोर्बुदानि चैवं साधयेदिति।
भवति चात्र॥

श्लोक 42

उपसंहरति।
हीनच्छेदात् पुनर्बृद्धिरतिच्छेदात् स्वरक्षयः।
गन्धाज्ञानं च वीसर्पो मूर्च्छा छिन्द्यादतः समम्॥
इति चतुर्विंशोऽध्यायः॥