श्लोक 1
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
वातशोणितिनः स्निग्धस्य दाहरागरुक्तोदेषु जलौकोभिः कण्डूपतापस्वापचिमिचिमायनेषु शृङ्गतुम्बैर्दशाद्देशान्तरं सञ्चरत् सिरया प्रच्छानेन वा दुष्टमसृगसकृदल्पमवसेचयेत्॥
श्लोक 3
असृक्क्षये हि गम्भीरशोफस्तम्भकम्पग्लानि सङ्गोचादयः स्युः।
सिराव्यधोक्ताश्च मूर्छादयः।
नैव च स्रावयेदङ्गग्लानौ रूक्षे वातोत्तरं च रक्तम्।
ततश्च पुनः स्नेहयुक्तानि रूक्षाणि वा विरेचनानि बस्तिकर्म चासकृत् प्रयोजयेत्॥
श्लोक 4
अथ वातप्रबले पुराणघृतं पिबेच्छतावरीघृतं वा॥
श्लोक 5
दशमूलपुनर्नवद्वयैरण्डमुद्गपर्णीमाषपर्णीमहामेदाशतावरीरास्नावाक्पुष्पीशङ्खपुष्पीबलातिबला द्विपलांशाः पृथक् जलद्रोणे विपाचयेत्।
पादशेषे च तत्तुल्यानि पृथक् छागमांसामलकेक्षुरसघृतक्षीराणि संयोज्य कल्कं च पिप्पलीमरिचकाश्मर्यफलोत्पलद्विमेदाद्विश्रावणीवीरापुनर्नवनागरसमङ्गातुगाक्षीरीक्षीरकाकोलीद्राक्षाक्षोडपद्मबीजशृङ्गाटकनिकोचकभव्योरुमाणखर्जूरवाताममुञ्जाताभिषुकाणां पुनः पचेत्।
एतज्जीवनीयाख्यं सर्पिर्वातविकारान् विशेषतश्च पाण्डुरोगज्वरापस्मारभगन्दरश्वासकासहिध्मास्वरभेदपार्श्वशूलयकृत्प्लीहमूत्रसङ्गाश्मरीवात्तशोणितसर्वाङ्गैकाङ्गरोगानपहरति।
बल्यं वर्ण्यं वृष्यं चक्षुष्यं पुत्रदं च।
तैलसात्म्यो वा क्षीरसितोपेतं तैलं पिबेत्॥
श्लोक 6
अथवा शतावरीमयूरकक्षीरविदारीबलाद्वयतृणपञ्चमूलक्वाथे पद्मकादिगर्भं साधितम्।
बलातैलं वा वातव्याध्युक्तम्।
शतपाकं वा।
वातहरसिद्धेन पयसाम्लैर्वा स्पर्शसुखं परिषेकं कुर्वीत॥
श्लोक 7
प्रत्येकशो यवगोधूमतिलमुद्गमाषेषु काकोलीजीवकर्षभकबलातिबलातिबलाशृगालविन्नामेषशृङ्गीप्रियालसितोपलासुरभिवचाकशेरुकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धान् पञ्च पायसानुपकल्पयेत्।
स्नैहिकफलमज्जोत्कारिकां वा। बिल्वपेशिकातगरदेवदारुसरलरास्नाहरेणुकुष्ठशतपुष्पाभिर्वा दधिमस्तुयुक्ताभिरुपनाहः॥
श्लोक 8
यवमधुकैरण्डबीजपुनर्नवैर्धान्याम्बुपिष्टैः प्रलेपः।
मातुलुङ्गाम्लवेतससैन्धवघृतमिश्रं वा शिग्रुमूलम्।
सहचरजीवन्तीमूलं वा।
रास्नामधुकगुडूचीबलाद्वयजीवकर्षभकल्कक्षीरसिद्धं ससिक्थकं सर्पिरभ्यङ्गः॥
श्लोक 9
पित्तप्रबले द्राक्षारेवतफलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्।
शतावरीपटोलत्रिफलागुडूचीकटुकाकषायं वा।
स्वादुतिक्तवर्गसिद्धं च सर्पिः क्षीरं च।
रास्नाभीरुदशमूलबलासिद्धं वा।
धारोष्णं वा।
विरेकार्थे त्रिवृच्चूर्णयुक्तं वा।
क्षीराहारो वा क्षीरेणैरण्डतैलं बहुशः पिबेत्।
अमृतारग्वधाटरूषककषायेण वा।
क्षीरबस्तीन् वा सघृतान् दद्यात्॥
श्लोक 10
शीतैश्च चन्दनपद्मकबिसमृणालादिभिः शृतेन क्षीरेण परिषेकः।
क्षीरेक्षुरसमधुशर्करातण्डुलोदकेन वा।
द्राक्षामधुककाश्मर्ययुतेन वा।
धान्याम्लेन वा जीवनीयसिद्धेन वा सर्पिषा शतधौतेन वा॥
श्लोक 11
मसूरोशीरप्रपौण्डरीकदार्वीमधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैरकासक्तुभिः सघृतक्षीरशर्करैः प्रेदहे दाहरागरुग्विसर्पशोफहरः।
गोधूमचूर्णो वा छागक्षीरसंयुक्तो लेपः।
तिलाश्च पयसा पिष्टाः भृष्टाः कपाले पुनः पयसि प्रक्षिप्य निर्वापिताः॥
श्लोक 12
रक्तप्रबलेऽप्येवं बहुशश्च शोणितमवसेचयेत्॥
श्लोक 13
श्लेष्मप्रबले धात्रीनिशामुस्ताकषायं मधुमधुरपिबेत्।
त्रिफलाकषायं वा।
मधुकशृङ्गिवेराभयाकटुरोहिणीनिर्यूहं वा।
यथार्हस्नेहपीतं च मृदु वामयेद्विरूक्षयेच्च।
न चातिसेकलेपान् दद्यात्॥
श्लोक 14
निम्बसर्षपाश्वगन्धाक्षारतिलैः कोष्णैर्लेपः।
वचागारधूमद्विनिशाकुष्ठशतपुष्पाभिर्वा।
पुनर्नवेन वा सघृतेन।
तिलसर्षपातसीयवचूर्णो वा।
श्लेष्मातककपित्थमधुशिग्रुमिश्रः क्षारमूत्रपिष्टः कटुकस्कन्धसिद्धैः क्षारोदकतैलमूत्रैः सेकः॥
श्लोक 15
संसर्गे मिश्रं यथोद्रेकं वा प्रतिकुर्यात्।
सर्वेषु च यथायथं गुडूचीं गुडहरीतकीं पिप्पलीवर्धमानं वा शीलयेद्बस्तिकर्म चाभीक्ष्णमिति।
भवति चात्र॥
श्लोक 16
बाह्यमालेपनाभ्यङ्गपरिषेकावगाहनैः।
विरेकास्थापनस्नेहपानैरान्तरमाचरेत्॥
श्लोक 17
सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तिभिः।
लेपोपनाहसेकैश्च कोष्णैर्वातोत्तरं जयेत्॥
श्लोक 18
विरेचनैर्घृतक्षीरपानसेचनबस्तिभिः।
पित्तरक्तोत्तरं वातरक्तं लेपैश्च शीतलैः॥
श्लोक 19
वमनं मृदु नात्यर्थं स्नेहसेकादिलङ्घनम्।
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे॥
श्लोक 20
वातश्लेष्मोत्तरे शीतैः प्रलिप्ते वातशोणिते।
विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत्॥
श्लोक 21
पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः।
उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः॥
श्लोक 22
मधुयष्ट्याः पलशतात् कषाये पादशेषिते।
तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः॥
श्लोक 23
शतपुष्पावरीमूर्वापयस्याभीरुचन्दनैः।
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः॥
श्लोक 24
काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः।
जीवन्तीजीवकर्षभत्वक्पत्रनखवालकैः॥
श्लोक 25
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः।
चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत्॥
श्लोक 26
मधुयष्ट्याः पलं दत्वा तैलप्रस्थं चतुर्गुणे।
क्षीरे पचेच्छतं वारांस्तदेवं मधुकाच्छते॥
श्लोक 27
सिद्धं योज्यं तृडुन्मादश्वासकासविसर्पिषु।
हृत्पाण्डुरोगवातासृक्पित्तादिषु च पूर्ववत्॥
श्लोक 28
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा।
अतिवृद्ध्यानिले शस्तं नादौ स्नेहनबृंहणम्॥
श्लोक 29
कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः।
भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम्॥
श्लोक 30
गम्भीरे रक्तमाक्रान्तं स्याच्चेद्वातेन वर्जयेत्।
रक्तपित्तातिवृध्या तु पाकमाशु निगच्छति॥
श्लोक 31
भिन्नं स्रवति तद्रक्तं विदग्धं पूयमेव वा।
तयोश्चिकित्सां व्रणवत् भेदशोधनरोपणीम्॥
श्लोक 32
कुर्यादुपद्रवाणां च तस्मात्तस्माच्चिकित्सितात्।
प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्।
यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम्॥
श्लोक 33
नीते निरामतां सामे स्वेदलङ्घनपाचनैः।
रूक्षैश्चालेपसेकाद्यैः कुर्यात् केवलवातनुत्॥
श्लोक 34
वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम्।
व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्॥
श्लोक 35
धन्वमांसं यवः शालिर्विरेकः क्षीरवान्मृदुः।
सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्॥
श्लोक 36
कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः।
यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम्।
पञ्चमूलकषायेण वारिणा शीतलेन वा॥
श्लोक 37
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः।
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्॥
श्लोक 38
पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्।
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्॥
श्लोक 39
कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम्।
स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम्॥
श्लोक 40
प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम्।
महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसावृते॥
श्लोक 41
अन्नावृते पाचनीयं वमनं दीपनं लघु।
मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः।
एरण्डतैलं वर्चस्थे बस्तिस्नेहाश्च भेदिनः॥
श्लोक 42
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्।
सर्वस्थानावृतेप्याशु तत्कार्यं मातरिश्वनि॥
श्लोक 43
अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम्।
यापना बस्तयः प्रायो मधुराः सानुवासनाः॥
श्लोक 44
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्।
रसायनानां सर्वेषामुपयोगः प्रशस्यते॥
श्लोक 45
शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः।
लेहो वा भार्गवस्तद्वदेकादशसिताशतः॥
श्लोक 46
अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम्।
वातानुलोमनं कार्यं मूत्राशयविशोधनम्॥
श्लोक 47
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम्।
प्राणाद्यानां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्॥
श्लोक 48
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्।
समानं शमयोद्विद्वांस्त्रिधा व्यानं च योजयेत्॥
श्लोक 49
प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः।
स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान्॥
श्लोक 50
सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम्।
रसायनविधानेन लघुनो हन्ति शीलितः॥
श्लोक 51
पित्तावृते पित्तहरं मरुतश्चानुलोमनम्।
रक्तावृतेऽपि तद्वच्च खुडोक्तं यच्च भेषजम्।
पित्तरक्तानिलहितं विविधं च रसायनम्॥
श्लोक 52
यथानिदानं निर्दिष्टमिति सम्यक्चिकित्सितम्।
आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनात्॥
श्लोक 53
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्।
भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम्॥