अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 23

श्लोक 1

धूमातप-तुषाराम्बु-क्रीडाति-स्वप्न-जागरैः ।
उत्स्वेदाधि-पुरो-वात-बाष्प-निग्रह-रोदनैः ॥ १ ॥

श्लोक 2

उन्मादाधि-पुरो-वात- अत्य्-अम्बु-मद्य-पानेन कृमिभिर् वेग-धारणैः ।
उपधान-मृजाभ्यङ्ग-द्वेषाधः-प्रततेक्षणैः ॥ २ ॥

श्लोक 3

अ-सात्म्य-गन्ध-दुष्टाम-भाष्याद्यैश् च शिरो-गताः ।
जनयन्त्य् आमयान् दोषास् तत्र मारुत-कोपतः ॥ ३ ॥

श्लोक 4

अ-सात्म्य-गन्ध-दुष्टाम्बु- निस्तुद्येते भृशं शङ्खौ घाटा संभिद्यते तथा ।
भ्रुवोर् मध्यं ललाटं च पततीवाति-वेदनम् ॥ ४ ॥

श्लोक 5

भ्रुवोर् मध्ये ललाटं च बाध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी ।
घूर्णतीव शिरः सर्वं संधिभ्य इव मुच्यते ॥ ५ ॥

श्लोक 6

स्फुरत्य् अति सिरा-जालं कन्धरा-हनु-संग्रहः ।
प्रकाशा-सह-ता घ्राण-स्रावो ऽ-कस्माद् व्यथा-शमौ ॥ ६ ॥

श्लोक 7

मार्दवं मर्दन-स्नेह-स्वेद-बन्धैश् च जायते ।
शिरस्-तापो ऽयम् अर्धे तु मूर्ध्नः सो ऽर्धावभेदकः ॥ ७ ॥

श्लोक 8

पक्षात् कुप्यति मासाद् वा स्वयम् एव च शाम्यति ।
अति-वृद्धस् तु नयनं श्रवणं वा विनाशयेत् ॥ ८ ॥

श्लोक 9

शिरो-ऽभितापे पित्तोत्थे शिरो-धूमायनं ज्वरः ।
स्वेदो ऽक्षि-दहनं मूर्छा निशि शीतैश् च मार्दवम् ॥ ९ ॥

श्लोक 10

अ-रुचिः कफ-जे मूर्ध्नो गुरु-स्तिमित-शीत-ता ।
सिरा-निष्पन्द-तालस्यं रुङ् मन्दाह्न्य् अधिका निशि ॥ १० ॥

श्लोक 11

तन्द्रा शूनाक्षि-कूट-त्वं कर्ण-कण्डूयनं वमिः ।
रक्तात् पित्ताधिक-रुजः सर्वैः स्यात् सर्व-लक्षणः ॥ ११ ॥

श्लोक 12

संकीर्णैर् भोजनैर् मूर्ध्नि क्लेदिते रुधिरामिषे ।
कोपिते संनिपाते च जायन्ते मूर्ध्नि जन्तवः ॥ १२ ॥

श्लोक 13

शिरसस् ते पिबन्तो ऽस्रं घोराः कुर्वन्ति वेदनाः ।
चित्त-विभ्रंश-जननीर् ज्वरः कासो बल-क्षयः ॥ १३ ॥

श्लोक 14

रौक्ष्य-शोफ-व्यध-च्छेद-दाह-स्फुरण-पूति-ताः ।
कपाले तालु-शिरसोः कण्डूः शोषः प्रमीलकः ॥ १४ ॥

श्लोक 15

रौक्ष्य-शोफे व्यध-च्छेद-दाह-स्फुटन-पूति-ताः कण्डूः शोफः प्रमीलकः कण्डूः शोफो ऽ-प्रमीलकः ताम्राच्छ-सिङ्घाणक-ता कर्ण-नादश् च जन्तु-जे ।
वातोल्बणाः शिरः-कम्पं तत्-संज्ञं कुर्वते मलाः ॥ १५ ॥

श्लोक 16

पित्त-प्रधानैर् वाताद्यैः शङ्खे शोफः स-शोणितैः ।
तीव्र-दाह-रुजा-राग-प्रलाप-ज्वर-तृड्-भ्रमाः ॥ १६ ॥

श्लोक 17

तिक्तास्यः पीत-वदनः क्षिप्र-कारी स शङ्खकः ।
त्रि-रात्राज् जीवितं हन्ति सिध्यत्य् अप्य् आशु साधितः ॥ १७ ॥

श्लोक 18

सिध्यत्य् आशु सु-साधितः पित्तानुबद्धः शङ्खाक्षि-भ्रू-ललाटेषु मारुतः ।
रुजं स-स्पन्दनां कुर्याद् अनु-सूर्योदयोदयाम् ॥ १८ ॥

श्लोक 19

पित्तानुबन्धः शङ्खाक्षि- आ-मध्याह्नं विवर्धिष्णुः क्षुद्-वतः सा विशेषतः ।
अ-व्यवस्थित-शीतोष्ण-सुखा शाम्यत्य् अतः परम् ॥ १९ ॥

श्लोक 20

सूर्यावर्तः स इत्य् उक्ता दश रोगाः शिरो-गताः ।
शिरस्य् एव च वक्ष्यन्ते कपाले व्याधयो नव ॥ २० ॥

श्लोक 21

कपाले पवने दुष्टे गर्भ-स्थस्यापि जायते ।
स-वर्णो नी-रुजः शोफस् तं विद्याद् उप-शीर्षकम् ॥ २१ ॥

श्लोक 22

यथा-दोषोदयं ब्रूयात् पिटिकार्बुद-विद्रधीन् ।
कपाले क्लेद-बहुलाः पित्तासृक्-श्लेष्म-जन्तुभिः ॥ २२ ॥

श्लोक 23

कङ्गु-सिद्धार्थक-निभाः पिटिकाः स्युर् अरूंषिकाः ।
कण्डू-केश-च्युति-स्वाप-रौक्ष्य-कृत् स्फुटनं त्वचः ॥ २३ ॥

श्लोक 24

रूक्ष-कृत् स्फुटनं त्वचः सु-सूक्ष्मं कफ-वाताभ्यां विद्याद् दारुणकं तु तत् ।
रोम-कूपानुगं पित्तं वातेन सह मूर्छितम् ॥ २४ ॥

श्लोक 25

विद्याद् दारुणकं च तत् प्रच्यावयति रोमाणि ततः श्लेष्मा स-शोणितः ।
रोम-कूपान् रुणद्ध्य् अस्य तेनान्येषाम् अ-संभवः ॥ २५ ॥

श्लोक 26

तद् इन्द्र-लुप्तं रुज्यां च प्राहुश् चाचेति चापरे ।
खलतेर् अपि जन्मैवं शातनं तत्र तु क्रमात् ॥ २६ ॥

श्लोक 27

तद् इन्द्र-लुप्तं तज्जां च तद् इन्द्र-लुप्तं तझ्झां च तद् इन्द्र-लुप्तं तह्नाश् च तद् इन्द्र-लुप्तं रूढ्यां च शतनं तत्र तु क्रमात् शदनं तत्र तु क्रमात् सदनं तत्र तु क्रमात् सा वाताद् अग्नि-दग्धाभा पित्तात् स्विन्न-सिरावृता ।
कफाद् घन-त्वग् वर्णांश् च यथा-स्वं निर्दिशेत् त्वचि ॥ २७ ॥

श्लोक 28

पित्तात् स्निग्ध-सिरावृता पित्तात् स्निग्धा सिरावृता पित्तात् पीत-सिरावृता दोषैः सर्वाकृतिः सर्वैर् अ-साध्या सा नख-प्रभा ।
दग्धाग्निनेव नी-रोमा स-दाहा या च जायते ॥ २८ ॥

श्लोक 29

स-दाहोषा च जायते शोक-श्रम-क्रोध-कृतः शरीरोष्मा शिरो-गतः ।
केशान् स-दोषः पचति पलितं संभवत्य् अतः ॥ २९ ॥

श्लोक 30

तद् वातात् स्फुटितं श्यावं खरं रूक्षं जल-प्रभम् ।
पित्तात् स-दाहं पीताभं कफात् स्निग्धं विवृद्धि-मत् ॥ ३० ॥

श्लोक 31

स्थूलं सु-शुक्लं सर्वैस् तु विद्याद् व्यामिश्र-लक्षणम् ।
शिरो-रुजोद्भवं चान्यद् वि-वर्णं स्पर्शना-सहम् ॥ ३१ ॥

श्लोक 32

स्थूलं स-शुक्लं सर्वैस् तु अ-साध्या संनिपातेन खलतिः पलितानि च ।
शरीर-परिणामोत्थान्य् अपेक्षन्ते रसायनम् ॥ ३२ ॥