श्लोक 1
अथातो नासारोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः।
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा॥
श्लोक 3
अत्यम्बुपानरमणच्छर्दिबाष्पग्रहादिभिः।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः।
जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम्॥
श्लोक 4
तत्र वातात् प्रतिश्याये मुखशोषो भृशं क्षवः।
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः॥
श्लोक 5
कीटका इव सर्पन्ति मन्यते परितो भ्रुवौ।
स्वरसादश्चिरात् पाकः शिशिराच्छकफस्रुतिः॥
श्लोक 6
पित्तात्तृष्णाज्वरघ्राणापिटकासम्भवभ्रमाः।
नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः॥
श्लोक 7
कफात् कासोरुचिः श्वासो वमथुर्गात्रगौरवम्।
माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः॥
श्लोक 8
सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान्॥
श्लोक 9
दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक्।
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता।
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम्॥
श्लोक 10
सर्व एव प्रतिश्याया दुष्टता यान्त्युपेक्षिताः।
यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रियतापनः॥
श्लोक 11
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः।
कुप्यत्यकस्माद् बहुशो मुखदौर्गन्ध्यशोषकृत्॥
श्लोक 12
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः।
पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः।
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः॥
श्लोक 13
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः।
श्लेष्मा सुचिक्कणः पीतो ज्ञानं च रसगन्धयोः॥
श्लोक 14
तीक्ष्णाग्राणोपयोगार्करश्मिसूत्रतृणादिभिः।
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि॥
श्लोक 15
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजम्।
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः॥
श्लोक 16
शोषयन् नासिकास्रोतः कफं च कुरुतेऽनिलः।
शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः।
स्मृतोऽसौ नासिकाशोषः नासानाहे तु जायते॥
श्लोक 17
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना।
निश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव॥
श्लोक 18
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत्।
स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः॥
श्लोक 19
अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते॥
श्लोक 20
कफः प्रवृद्धो नासायां रुध्वा स्रोतांस्यवीनसम्।
कुर्यात् सघुर्घुरश्वासं पीनसाधिकवेदनम्॥
श्लोक 21
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका।
अजस्रं पिच्छिलं शीतं पक्वं सिङ्घाणकं घनम्॥
श्लोक 22
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा।
भवेद्धूमोपमोच्छ्वासा सा दीर्प्तिदहतीव च॥
श्लोक 23
तालुमूले मलैर्दुष्टे मारुतो मुखनासिकात्।
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति॥
श्लोक 24
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत्।
तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम्॥
श्लोक 25
पित्तश्लेष्मावरुद्धोन्तर्नासायां शोषयेन्मरुत्।
कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत्॥
श्लोक 26
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम्॥
श्लोक 27
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसं प्रततं क्षुतम्।
सानुनासिकवादित्वं पूतिनासः शिरोव्यथा।
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम्॥
इति त्रयोविंशोऽध्यायः॥