अष्टाङ्गसंग्रहः चिकित्सितस्थानम्  23

श्लोक 1

अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सर्वेषु केवलानिलविकारेष्वन्तर्बहिः स्नेहस्वेदौ साल्वलेनोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथसिद्धा महास्नेहप्रगाढाः स्निग्धा दध्यम्ला नागरपिप्पलीतीक्ष्णा ग्राम्यानूपौदकशिरःपिशितरसाः पयांसि यूषाः प्रीणनानि चान्नानि।
तैरेव च मांसैर्महास्नेहसंसृष्टैस्तदक्तानामभीक्ष्णं पिण्डादिस्वेदाः॥

श्लोक 3

अपि च।
कोलकुलत्थामरतरुयवमिसिमाषातसीवचाकुष्ठम्।
रास्नातैलफलानि च वातजिदुत्कारिकाम्लोष्णा॥

श्लोक 4

बिडालनकुलोष्ट्रसृगालादिचर्मभिर्बन्धः।
स्निग्धा बस्तयो नावनानि च प्रयोज्यानि।
दोषोपक्रमणीयं चेक्षेत॥

श्लोक 5

स्निग्धस्विन्नस्य हि तोदभेदायामशूलादयो वातविकाराः शीघ्रमुपशाम्यन्ति।
स्नेहश्च धातून् पुष्णाति बलं च देहे जनयति।
तस्मात् पुनः पुनः स्नेहस्वेदौ शीलयेत्।
तन्मृदूकृते च कोष्ठे नावतिष्ठन्त्यनिलामयाः॥

श्लोक 6

यदि तु सदोषत्वान्न निवर्तन्ते ततः सर्वशरीरगेऽपि वायौ विशेषतः पक्वाशयाश्रिते मृदुस्नेहविरेचनं तिल्वकसर्पिः सातलाघृतमैरण्डतैलं वा क्षीरेण दद्यात्।
एवं हि विशुद्धस्रोतसोऽनावृतः पवनो विचरन्नाशु शान्तिमेति॥

श्लोक 7

अपि च।
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः।
स्रोतो बध्वानिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्॥

श्लोक 8

अथ दुर्बले विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्तमेवंविधं च भोज्यम्।
भोज्ययुक्तं वा स्रंसनमवचारयेत्।
विशुद्धस्य च समिद्धेऽग्रावसकृत् स्नेहस्वेदौ स्वाद्वम्ललवणं चान्नपानम्।
एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत्॥

श्लोक 9

आमाशयगते कृतवमनस्य षड्ढरणं चूर्णं परतश्च यथार्हं स्नेहादीन्।
नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान्।
अशेषकोष्ठाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारोपयोगानन्तर्गुल्मोपक्रमं च प्रयुञ्जीत।
हृदयस्थे अंशुमत्या शृतं पयः॥

श्लोक 10

श्रोत्रादिगते शिरोगते च विशेषेण स्नैहिकं नस्यं धूमं शिरोबस्तिमर्दनालेपनान्यथास्वं च स्रोतसां प्रीणनम्॥

श्लोक 11

त्वचि स्थितेऽभ्यङ्गस्वेदनिवातानि।
रक्ते शीतप्रदेहविरेकरक्तमोक्षाः।
मांसमेदसोर्विरेकास्थापनशमनानि।
अस्थिमज्ज्ञोरन्तर्बहिःस्नेहाः।
शुक्रप्राप्ते हर्षः शुक्रलं चान्नपानम्।
विबद्धे तु शुक्रे विरेचनम्।
ततोऽनुबन्धेऽनन्तरोक्तां क्रियां कुर्यात् पुत्रकामीयं चेक्षेत॥

श्लोक 12

शुष्यति तु गर्भे बालेषु च यष्टीमधुककाश्मर्यफलसारिवाशर्कराशृतं पयो दद्यात्।
मांसादमांसरसांश्च बृंहणीयस्नेहयुक्तान्॥

श्लोक 13

सिरास्नावसन्धिप्राप्तेऽभ्यङ्गमर्दनस्वेदोपनाहबन्धाग्निकर्माणि।
सङ्कोचे माषसैन्धवसाधितं तैलमभ्यङ्गः।
स्वापे बहुशो रक्तावसेचनम्।
न त्वङ्गम्लानौ शोषभयात्।
स्रुतरक्तस्य तैललवणागारधूमैः प्रदेहः॥

श्लोक 14

अथापतानकिनमस्रस्ताक्षमस्तब्धलाङ्गुलमवेदनमस्वेदनमप्रलापिनमखट्वाघातिनमबहिरायामिनं चोपक्रमेत॥

श्लोक 15

तत्र प्रागेव स्निग्धस्विन्नाङ्गं व्योषविडङ्गश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनन्तरं चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वं सर्पिरच्छं पाययेत्।
तथा नातिमात्रमनिलः प्रसरति॥

श्लोक 16

ततो भद्रदार्वादिवर्गं वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमांसं च निष्क्वाथ्य तत्कषायेणाम्लक्षीरवता मधुरवर्गप्रतीवापं महास्नेहं विपचेत्।
तमपतानकिनमभ्यङ्गपरिषेकावगाहपानभोजनानुवासननावनेषु विदध्यात्॥

श्लोक 17

बलीयसि च वाते सुखोष्णकरीषपूर्णे कूपे निखन्यादामुखम्।
तप्तायां वा रथकारचुल्यां शिलायां वा सुरापरिषिक्तायां शाययेत् पलालावच्छन्नम्।
स्वेदयेद्वा पिण्डेन।
मूलकोरुबूकस्फूर्जातकार्कसप्तलाशङ्खिनीस्वरससिद्धं वा तलमभ्यङ्गादिषु योज्यम् अभुक्तवता चैतत् पीतमम्लदधिमरिचवचायुक्तमाक्षेपकमपहन्ति॥

श्लोक 18

तिलपीडनोपकरणद्रव्याण्यल्पकालतैलपरिपीतान्यवक्षुद्य महति कटाहे पानीयेनाप्लाव्य क्वाथयेदास्नेहोपगमात्।
ततस्तत् स्नेहमम्भस उपरिष्टात् पाणिशरावयोरन्यतरेणादाय वातघ्नौषधदत्तप्रतीवापं स्नेहपाककल्पेन पचेत्।
एतदणुतैलं सर्ववातविकारहरम्।
अणुतैलद्रव्येभ्यो निषपद्यत इत्यणुतैलम्॥

श्लोक 19

वेगान्तरेषु च तीक्ष्णान्यवपीडानि प्रधमनानि वासकृद्दद्यात्।
तथास्य श्लेष्मापगमनेन श्वसनविमोक्षात् संज्ञा पुनः पुनर्नोपरुध्यते।
कुक्कुटकुलीरशिंशुमारवराहवसाः पाययेत्।
यवकोलकुलत्थमूलकदधिघृततैलसिद्धां च यवागूम् सर्वाकारं च गतवेगः स्नेहविरेचनास्थापनानुवासनानि सेवेत॥

श्लोक 20

त्रिवृदृन्तीसुवर्णक्षीरीशङ्खिनीविडङ्गत्रिफलानामक्षसमाः कल्काः बिल्वमात्रकं तिल्वकमूलानां त्रिफलारसदधिपात्रे द्वे घृतपात्रमकं सर्वमैकध्यं प्रतिसंसृज्य विपचेदेतत्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु।
तिल्वकविधिरेव चाशोकरम्यकयोर्द्रष्टव्यः।
शुद्धवातपतानकविधानमेतत्।
संसृष्टे यथासंसर्गम्॥

श्लोक 21

सकफे तु वाते तुल्बुरुफलाभयाहिङ्गुपुष्करमूललवणत्रयचूर्णं यवक्वाथेन कृत्पार्श्वार्तिहरं पिबेत्।
हिङ्गुनागरदाडिमाम्लवेतससौवर्चलचूर्णं वा।
मुस्तपिप्पलीनागरातिविषाबिभीतकभार्ङ्गीचूर्णं वा मद्येनोष्णाम्बुना वापतन्त्रककासहृद्रोगहरम्।
सौवर्चलाभयाव्योषसिद्धं सर्पिः।
रास्नाम्लवेतससैन्धववचाहरातकाकल्कश्च घृतभृष्टो भक्षितः॥

श्लोक 22

शुण्ठीचित्रकभार्ङ्गीशुकनासानिचुलमहावल्लीबृहतीद्वयकाकमाचीपुनर्नवैरक्षमात्रैर्घृतप्रस्थं साधयेत्।
तत् पीतं परमपतन्त्रकश्वासहिध्माहृद्रोगघ्नम्।
पथ्याशतार्धकल्केन वा सौवर्चलपलद्वययुक्तं चतुर्गुणक्षीरं घृतप्रस्थं विपाचयेत् तदपतन्त्रकघ्नम्।
न चास्य शोधनार्थं बस्तयस्तीक्ष्णाः प्रयोक्तव्याः।
हृद्रोगचिकित्सितं चेक्षते॥

श्लोक 23

अन्तर्बहिरायामावेकायामवत् साधयेत्।
तैलद्रोण्यां चात्र शयनम्।
अन्तरायामश्चैतयोर्घोरतरः अपि च॥

श्लोक 24

विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः।
प्रस्विद्यंश्च धनुष्कम्पी दशरात्रं न जीवति॥

श्लोक 25

वेगेष्वतोऽन्यथा जीवेन्मन्देषु विनतो जडः।
खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोथवा॥

श्लोक 26

हनुस्तम्भमप्यर्दितवच्चिकित्सेत्।
स्वेदयित्वा च हनू स्तब्धौ स्रस्तौ स्वस्थानमानीय पाणिभ्यां पीडयेत्।
विवृतास्ये चिबुकं चोन्नामयेत्।
संवृतास्ये च नामयेत्॥

श्लोक 27

जिह्वास्तम्भे सामान्योक्तो विधिरेकायामे च।
तथा महातृणपञ्चमूलविदार्यादिजीवनीयानि मेद्यमांसान्यौदककन्दांश्च द्विगुणोदके क्षीरशेषं निष्क्वाथ्य परिस्राव्य तैलप्रस्थेनोन्मिश्रं पुनरधिश्रयेत्।
क्षीरानुगमे चावतार्य शीतं मन्थयेत्।
ततः स्नेहमादाय पूर्ववद्विपचेत्।
एतत् क्षीरतैलं पानाभ्यङ्गादिषु विधेयम्।
तैलविहीनमिदमेव क्षीरघृतमक्षितर्पणम्॥

श्लोक 28

तिल्वकफलसिद्धक्षीरदध्ना च सह मांसरसान् कल्पयेत्।
यथोक्ताश्च यवागूः स्निग्धाश्च नस्यधूमकवलग्रहाः प्रयोज्याः।
कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत्।
उपलिप्य च गोमयेन पुनः खदिरकाष्ठैर्दग्ध्वा तद्भस्मापनीय तत्र शीतीभूते तैलं निषेचयेत्।
उषितं च निशां खानयेत्।
तामनुगततैलां मृत्तिकामादाय पञ्चमूलेन सह क्वाथयेत्।
तमपि क्वाथं परिस्रुतमष्टगुणेन पयसा तैलावशेषं पाचयेत्।
एतदप्यणुतैलं नावनात् सर्ववातव्याधिहरम्॥

श्लोक 29

तद्वच्च पञ्चमूलकाष्ठैर्दग्ध्वा भस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोदकवति कटाहेऽभ्यासिच्य तैलं पाणिना पिचुना वा गृहीत्वा वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगा चाश्वगन्धा वातघ्नानि च द्रव्याणि।
सिध्यति चास्मिन् शङ्खमाध्मापयेत्।
दुन्दुभीन् वादयेत्।
ब्राह्मणानध्यापयेत् भोजयेच्च।
छत्रं धारयेत्।
बालव्यजनैश्च वीजयेत्।
तत्सिद्धं नस्यपानाभ्यङ्गबस्तिषु प्रयुञ्जीत।
एतत्सहस्रपाकमनिवार्यवीर्यं तैलमेवं भागशतपक्वं शतपाकम्।
अभीक्ष्णं च स्वेदयेत्।
ततः स्निग्धस्विन्नस्य श्लक्ष्णस्य मृदुनश्चर्मणो वाससो वा चतुरङ्गुलविस्तृताभिः पट्टिकाभिर्वक्रीभूतप्रदेशानवगृह्णन् सर्वतो वेष्टयेत् बध्नीयात्।
निशि बध्वा दिवा मुञ्चेद्दिवा वा जिशि।
मोक्षान्ते चोत्कारिकाभिः सुस्निग्धाभिर्वातघ्नप्रक्लृप्ताभिः स्वेदयेत्।
अव्यथं च प्रतिलोमं प्रमार्जयन्नृजु कुर्वंश्च पुनर्बध्नीयात्।
एवं सप्तरात्रम्।
सशोफे तु वमनमाचरेत्।
सदाहरागे बलवतः सिराव्यधम्।
घृतक्षीरबस्तिसेकान् वातपित्तघ्नक्रियां च॥

श्लोक 30

एकाङ्गरोगिणमम्लानगात्रं स्नेहस्वेदोपपन्नं मृदुना संशोधनेन संशोध्यानुवास्यास्थाप्य चाक्षेपकविधानेनोपचरेत्।
विशेषतो बलातैलमनुवासनार्थे।
दोषसंसर्गे यथासंसर्गम्।
कुक्कुटीं वा रसायनविधानेनोपयुञ्जीत।
अपबाहुके नाचनमूर्ध्वभक्तं च निरामे स्नेहपानम्।
विश्वभीप्रभृतिषु पाददाहान्तेषु यथोक्तां सिरां विध्वा वातव्याधिवदुपाचरेत्॥

श्लोक 31

ऊरुस्तम्भे तु स्नेहासृक्स्राववमनाविरेचनबस्तिकर्माणि परिहरेत्।
आमश्लेष्मभ्यां सह तेषां विरोधात्।
ऊरुलीनानां वायुना स्तब्धानां च वमनादिभिरूर्ध्वं नेतुमम्भसामिव निम्नात् स्थलमशक्यत्वात्।
ततस्तत्र तु बहुशः शमनशोषणानि युक्त्यावेक्ष्य युञ्जीत।
रूक्षोपचारान् यवश्यामाककोद्रवोद्दालकमलवणमल्पतैलसिद्धं शाकं क्षारारिष्टमधूदकानि च शीलयेत्॥

श्लोक 32

स सैन्धवं वचादिं हरिद्रादिं वत्सकादिं वा।
षड्धरणं वा हरीतकीः पिप्पलीर्वा।
शार्ङ्गेष्टामदनदन्तीवत्सकं वा।
स्वादुकण्टकारग्वधदार्वीमरुबकपाठाकरञ्जकूलकचूर्णं वा सक्षौद्रं मस्तुना पिबेत्।
चित्रकदेवदारुकुष्ठपाठातिक्तकरोहिणीर्वा मधुना लिह्यात्।
त्रिफलापिप्पलीमुस्तचविकाकटुरोहिणीर्वा।
स्वेदांश्च रूक्षान् कुर्यात्॥

श्लोक 33

अत्यपतृप्तं तु रूक्षं क्षाममनिद्रं जाङ्गलरसैः शालिभिश्च तर्पयेत्।
सर्षपतैलं वा सरलकुष्ठश्रीवेष्टकसुरदारुनागकेसराजगन्धासिद्धं सक्षौद्रं पिबेत्।
ससैन्धवपलं शुण्ठीचित्रकपिप्पलीमूलानां पृथक् द्विपलं दश भल्लातकास्थीनि कल्कीकृत्यैकध्यमारनालाढकेन सह तैलप्रस्थं पचेत्।
तत्सर्ववातविकारेषु पथ्यं विशेषादूरुस्तम्भार्शोगृध्रसीघ्नमपत्यदं च।
बहिरपि श्लेष्मक्षपणाय क्षौद्रसर्षपकरञ्जफलवल्मीकमृद्गोमूत्रैरुष्णैर्लेपयेत्।
सौभाञ्जनतर्कारीद्वयसरलार्जुनकरञ्जाढकीगोक्षुरकैर्लेपोन्मर्दनसेकान् कुर्यात्।
व्यायामैश्च विविधर्मेदः क्षपयेत्।
स्थलान्युल्लङ्क्षयेत्।
प्रतिस्रोतः सरितमव्यालां तरेत्।
एवमूरुस्तम्भो हि शुष्केश्लेष्मणि प्रशाम्यतीति॥

श्लोक 34

भवति चात्र।
सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्।
पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया॥

श्लोक 35

रास्नामहौषधद्वीप्पिप्पलीशठिपौष्करम्।
पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम्॥

श्लोक 36

निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथग्दशपलान् विपचेद्घटेऽपाम्।
अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः॥

श्लोक 37

पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिसिचव्यकुष्ठैः।
तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यरुष्करवचाकणमूलयुक्तैः॥

श्लोक 38

मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः।
तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्॥

श्लोक 39

नाडीव्रणार्बुदभगन्दरगण्डमाला जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्।
यक्ष्मारुचिश्वसनपीनसकासशोषहृत्पाण्डुरोगमदविद्रधिवातरक्तम्॥

श्लोक 40

द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्।
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह॥

श्लोक 41

पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः।
तद्वत्खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः॥

श्लोक 42

सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्।
योज्यो निरत्ययः पाननस्याभ्यञ्जनबस्तिषु॥

श्लोक 43

बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्।
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते॥

श्लोक 44

तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मबुलूकजा।
प्रत्यग्रा विधिनानेन नस्यपानेषु योजयेत्॥

श्लोक 45

जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथं क्वाथाभ्यामेकतस्तैलमाभ्याम् क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता नश्येयुः श्लेष्मयुक्ता विशेषात्॥

श्लोक 46

समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च।
अभीरुमूलाच्च तुलार्धमेतदष्टांशशेषं विपचेद्वहेऽपाम्॥

श्लोक 47

तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः।
लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च॥

श्लोक 48

तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान्।
कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादौ पीनसान्योनिरोगान्॥

श्लोक 49

केतकिमूलबलातिबलानां यद्बहलेन रसेन विपक्वम्।
तैलमनल्पतुषोदकयुक्तं मारुतमस्थिगतं तदपोहेत्॥

श्लोक 50

तुलां लशुनकन्दस्य तुलार्धं जाङ्गलात् पलात्।
दशमूलाच्च विपचेद्भागान् पञ्चपलान् पृथक्॥

श्लोक 51

तोयार्मणेण पादस्थे समं तैलं पयो दधि।
तत्र दद्यात् पलांशांश्च रास्नामधुकजीवकान्॥

श्लोक 52

मिशिस्थिरामहामेदाचपलातिविषाबलाः।
काकोली पौष्करं मूलमश्वगन्धां च साधितम्॥

श्लोक 53

तत्परं वातरोगघ्नं गुल्मानाहार्तिशूलनुत्।
भग्नजर्जरिताङ्गानां पथ्यमग्नेश्च दीपनम्॥

श्लोक 54

समूलजालां विपचेत् प्रसारिणीं तुलोन्मितां पादधृते घटेऽम्भसः।
पृथक् सतैलं दधि तत्समं क्षिपेत् समं च ताभ्यां विजयां ततः पचेत्॥

श्लोक 55

प्रसारिणीजीवकसिन्धुजन्मयष्ट्याह्वरास्नाग्निकयावशूकैः।
सग्रन्थिकाख्यैर्द्विपलैः सुपिष्टैः भल्लातकानां दशकैस्त्रिभीश्च॥

श्लोक 56

शुण्ठीपलत्रययुतैर्विनिहन्ति पाननस्यादिभिस्तदखिलान् मरुतो विकारान् कुष्ठप्रमेहहतनाममनोविकारश्वासास्थिभङ्गजठरक्रिमिबीजदोषान्॥

श्लोक 57

पचेत् सहाचरतुलां जलद्रोणचतुष्टये।
द्रोणशेषे समक्षीरे तत्र तैलाढकं पचेत्॥

श्लोक 58

सहाचरस्य मूलानां कल्कितैर्दशाभिः पलैः।
अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात्॥

श्लोक 59

सैलानलदशौलेयशताह्वारक्तचन्दनात्।
सिद्धेऽस्मिन् शर्कराचूर्णादष्टादशपलं क्षिपेत्॥

श्लोक 60

भेडस्य संमतं तैलं तत् कृच्छ्राननिलामयान्।
वातकुण्डलिकोन्मादभूतापस्मारवर्ध्म च।
गुल्महृद्रोगदुर्नामयोनिरोगांश्च नाशयेत्॥

श्लोक 61

श्वदंष्ट्रककषायस्य प्रस्थौ द्वौ पयसा समौ।
षट्पलं शृङ्गवेरस्य गुडस्य च पलाष्टकम्।
तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु॥

श्लोक 62

बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम्।
जलाढकशते पक्त्वा शतभागाथिते रसे॥

श्लोक 63

दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः।
पचेत्साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः॥

श्लोक 64

शठीसरलदार्वेलामञ्जिष्ठागरुचन्दनैः।
पद्मकातिबलामुस्तासूप्यपर्णीहरेणुभिः॥

श्लोक 65

यष्ठ्याह्वसुरसव्याघ्रनखर्षभकजीवकैः।
पलाशरसकस्तूरीनलिकाजातिकोशकैः॥

श्लोक 66

स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः।
त्वक्कुन्दुरुककर्पूरतुरुष्कश्रीनिवासकैः॥

श्लोक 67

लवङ्गनखकंकोलकुष्ठमांसीप्रियङ्गुभिः।
स्थौणेयतगरध्यामवचामदनकप्लवैः॥

श्लोक 68

सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते।
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजितम्॥

श्लोक 69

श्वासं कासं ज्वरं मूर्छां छर्दिं तृष्णां क्षतं क्षयम्।
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्।
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्॥

श्लोक 70

अमृतायास्तुलाः पञ्च पचेत्तोयवहद्वये।
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्॥

श्लोक 71

एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः।
शतपुष्पाबलामेदामहामेदर्धिजीवकैः॥

श्लोक 72

काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः।
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः॥

श्लोक 73

शतावरीतामलकीकर्कटाह्वाहरेणुभिः।
वचागोक्षुरकैरण्डारास्नाकालासहाचरैः॥

श्लोक 74

वीरामहैलर्षभकत्रिदशाह्वैश्च कार्षिकैः।
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च॥

श्लोक 75

कल्कैस्तत्क्षीणवीर्याग्निबलसम्मूढचेतसः।
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्॥

श्लोक 76

वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्।
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्।
गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्।
एष कल्पोऽश्वगन्धाया बलातिबलयोरपि॥

श्लोक 77

क्वाथकल्कपयोभिर्वा बलादीनां पृथक् पचेत्।
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः॥

श्लोक 78

रसेन मूलकानां च तैलं दधिपयोन्वितम्।
साधयेत्तत् परं सर्वपवनव्याधिभेषजम्॥

श्लोक 79

यच्च शीतज्वरे तैलमगर्वाद्यमुदाहृतम्।
सहस्रशतशः पक्त्वा सिद्धं वातामयापहम्॥

श्लोक 80

फलत्रिकस्य प्रस्थं स्यात् कुलत्थं कुडवद्वयम्।
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलानि तु॥

श्लोक 81

रास्नाचित्रकयोर्द्वे द्वे दशमूलात् पलं पलम्।
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्॥

श्लोक 82

सुरारनालदध्यम्लसौवीरकतुषोदकम्।
कोलदाडिमवृक्षाम्लरसं क्षीरं वसां नवाम्॥

श्लोक 83

मज्जानं तैलमाज्यं च जीवनीयपलानि षट्।
कल्कमेकत्र तत् सिद्धं सिद्धं शुद्धानिलामये॥

श्लोक 84

सिरापर्वास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु।
वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रयोजयेत्॥

श्लोक 85

आनूपजाङ्गलोत्थानामस्थीनि विपचेज्जले।
तत्स्नेहं दशमूलस्य कषायेण पुनः पचेत्॥

श्लोक 86

जीवकर्षभकास्फोतविदारीकपिकच्छुभिः।
वातघ्नैर्दीपनीयैश्च कल्कैर्द्विक्षीरभागिकैः॥

श्लोक 87

सिरापर्वास्थिकोष्ठस्थं पानाद्यैर्हन्ति तच्चलम्।
क्षीणौजोमज्जशुक्राणामेतत् स्यादमृतोपमम्॥

श्लोक 88

पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः।
दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नरीः पुत्रभाजश्च कुर्युः॥

श्लोक 89

स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः।
पित्तं वा दर्शयेद्रूपं बस्तिभिस्तं विनिर्जयेत्॥
॥इति त्रयोविंशोऽध्यायः॥