श्लोक 1
वात-शोणितिनो रक्तं स्निग्धस्य बहु-शो हरेत् ।
अल्पाल्पं पालयन् वायुं यथा-दोषं यथा-बलम् ॥ १ ॥
श्लोक 2
रुग्-राग-तोद-दाहेषु जलौकोभिर् विनिर्हरेत् ।
शृङ्ग-तुम्बैश् चिमिचिमा-कण्डू-रुग्-दूयनान्वितम् ॥ २ ॥
श्लोक 3
प्रच्छानेन सिराभिर् वा देशाद् देशान्तरं व्रजत् ।
अङ्ग-ग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत् ॥ ३ ॥
श्लोक 4
अङ्ग-म्लानौ तु न स्राव्यं रूक्षं वातोत्तरं च यत् गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायु-सिरामयान् ।
ग्लानिम् अन्यांश् च वातोत्थान् कुर्याद् वायुर् असृक्-क्षयात् ॥ ४ ॥
श्लोक 5
विरेच्यः स्नेहयित्वा तु स्नेह-युक्तैर् विरेचनैः ।
वातोत्तरे वात-रक्ते पुराणं पाययेद् घृतम् ॥ ५ ॥
श्लोक 6
श्रावणी-क्षीर-काकोली-क्षीरिणी-जीवकैः समैः ।
सिद्धं सर्षभकैः सर्पिः स-क्षीरं वात-रक्त-नुत् ॥ ६ ॥
श्लोक 7
द्राक्षा-मधूक-वारिभ्यां सिद्धं वा स-सितोपलम् ।
घृतं पिबेत् तथा क्षीरं गुडूची-स्व-रसे शृतम् ॥ ७ ॥
श्लोक 8
तैलं पयः शर्करां च पाययेद् वा सु-मूर्छितम् ।
बला-शतावरी-रास्ना-दश-मूलैः स-पीलुभिः ॥ ८ ॥
श्लोक 9
श्यामैरण्ड-स्थिराभिश् च वातार्ति-घ्नं शृतं पयः ।
धारोष्णं मूत्र-युक्तं वा क्षीरं दोषानुलोमनम् ॥ ९ ॥
श्लोक 10
पैत्ते पक्त्वा वरी-तिक्ता-पटोल-त्रि-फलामृताः ।
पिबेद् घृतं वा क्षीरं वा स्वादु-तिक्तक-साधितम् ॥ १० ॥
श्लोक 11
क्षीरेणैरण्ड-तैलं च प्रयोगेण पिबेन् नरः ।
बहु-दोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ॥ ११ ॥
श्लोक 12
कषायम् अभयानां वा पाययेद् घृत-भर्जितम् ।
क्षीरानु-पानं त्रिवृता-चूर्णं द्राक्षा-रसेन वा ॥ १२ ॥
श्लोक 13
निर्हरेद् वा मलं तस्य स-घृतैः क्षीर-वस्तिभिः ।
न हि वस्ति-समं किञ्-चिद् वात-रक्त-चिकित्सितम् ॥ १३ ॥
श्लोक 14
विशेषात् पायु-पार्श्वोरु-पर्वास्थि-जठरार्तिषु ।
मुस्ता-धात्री-हरिद्राणां पिबेत् क्वाथं कफोल्बणे ॥ १४ ॥
श्लोक 15
मुस्त-द्राक्षा-हरिद्राणां स-क्षौद्रं त्रि-फलाया वा गुडूचीं वा यथा तथा ।
यथार्ह-स्नेह-पीतं च वामितं मृदु रूक्षयेत् ॥ १५ ॥
श्लोक 16
गुडूचीं वा यथा-बलम् गुडूचीं वा यथा-यथम् त्रि-फला-व्योष-पत्त्रैला-त्वक्क्षीरी-चित्रकं वचाम् ।
विडङ्गं पिप्पली-मूलं रोमशां वृषकं त्वचम् ॥ १६ ॥
श्लोक 17
रोमशं वृषकं त्वचम् ऋद्धिं लाङ्गलिकीं चव्यं सम-भागानि पेषयेत् ।
कल्ये लिप्त्वायसीं पात्रीं मध्याह्ने भक्षयेद् इदम् ॥ १७ ॥
श्लोक 18
वातास्रे सर्व-दोषे ऽपि परं शूलान्विते हितम् ।
कोकिलाक्षक-निर्यूहः पीतस् तच् छाक-भोजिना ॥ १८ ॥
श्लोक 19
पीतस् तच् छाक-भक्षिणा कृपाभ्यास इव क्रोधं वात-रक्तं नियच्छति ।
पञ्च-मूलस्य धात्र्या वा रसैर् लेलीतकीं वसाम् ॥ १९ ॥
श्लोक 20
खुडं सु-रूढम् अप्य् अङ्गे ब्रह्म-चारी पिबन् जयेत् ।
इत्य् आभ्यन्तरम् उद्दिष्टं कर्म बाह्यम् अतः परम् ॥ २० ॥
श्लोक
त्रि-फलाष्ट-पलं क्वाथ्य पाद-शेषं जलाढके ।
षो-डशैव पलान्य् अत्र प्रक्षिपेच् छुद्ध-गुग्गुलोः ॥ २०.१+१ ॥
श्लोक
ततस् तस्मिन् घनी-भूते कल्की-कृत्य द्वि-कार्षिकाः ।
पथ्या-विडङ्ग-कटुका गुडूची पल-संमिता ॥ २०.१+२ ॥
श्लोक
कर्षांशे त्रिवृता दन्ती खादेद् इष्टानु-पानतः ।
विविधम् अपि वात-रक्तं स्रुत-शुष्क-स्फुटितम् अपि हन्ति ॥ २०.१+३ ॥
श्लोक
व्रण-कास-कुष्ठ-गुल्म-श्वयथूदर-पाण्डु-मेहम् अर्शांसि ।
अभिभूय जरा-दोषं करोति कैशोरकं कायम् ॥ २०.१+४ ॥
श्लोक 21
आरनालाढके तैलं पाद-सर्ज-रसं शृतम् ।
प्रभूते खजितं तोये ज्वर-दाहार्ति-नुत् परम् ॥ २१ ॥
श्लोक 22
स-मधूच्छिष्ट-मञ्जिष्ठं स-सर्ज-रस-शारिवम् ।
पिण्ड-तैलं तद् अभ्यङ्गाद् वात-रक्त-रुजापहम् ॥ २२ ॥
श्लोक 23
दश-मूल-शृतं क्षीरं सद्यः शूल-निवारणम् ।
परिषेको ऽनिल-प्राये तद्-वत् कोष्णेन सर्पिषा ॥ २३ ॥
श्लोक 24
स्नेहैर् मधुर-सिद्धैर् वा चतुर्भिः परिषेचयेत् ।
स्तम्भाक्षेपक-शूलार्तं कोष्णैर् दाहे तु शीतलैः ॥ २४ ॥
श्लोक 25
तद्-वद् गव्याविक-च्छागैः क्षीरैस् तैल-विमिश्रितैः ।
निःक्वाथैर् जीवनीयानां पञ्च-मूलस्य वा लघोः ॥ २५ ॥
श्लोक 26
द्राक्षेक्षु-रस-मद्यानि दधि-मस्त्व्-अम्ल-काञ्जिकम् ।
सेकार्थं तण्डुल-क्षौद्र-शर्कराम्भश् च शस्यते ॥ २६ ॥
श्लोक 27
प्रियाः प्रियं-वदाः नार्याश् चन्दनार्द्र-कर-स्तनाः ।
स्पर्श-शीताः सुख-स्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥ २७ ॥
श्लोक 28
स-रागे स-रुजे दाहे रक्तं हृत्वा प्रलेपयेत् ।
प्रपौण्डरीक-मञ्जिष्ठा-दार्वी-मधुक-चन्दनैः ॥ २८ ॥
श्लोक 29
सितोपलैरका-सक्तु-मसूरोशीर-पद्मकैः ।
लेपो रुग्-दाह-वीसर्प-राग-शोफ-निबर्हणः ॥ २९ ॥
श्लोक 30
स-सितोपल-कासेक्षु- -मसूरैरक-सक्तुभिः वात-घ्नैः साधितः स्निग्धः कृशरो मुद्ग-पायसः ।
तिल-सर्षप-पिण्डैश् च शूल-घ्नम् उपनाहनम् ॥ ३० ॥
श्लोक 31
तिल-सर्षप-पिण्डश् च औदक-प्रसहानूप-वेसवाराः सु-संस्कृताः ।
जीवनीयौषधैः स्नेह-युक्ताः स्युर् उपनाहने ॥ ३१ ॥
श्लोक 32
जीवनीयौषध-स्नेह- स्तम्भ-तोद-रुग्-आयाम-शोफाङ्ग-ग्रह-नाशनाः ।
जीवनीयौषधैः सिद्धा स-पयस्का वसापि वा ॥ ३२ ॥
श्लोक 33
घृतं सहचरान् मूलं जीवन्ती छागलं पयः ।
लेपः पिष्टास् तिलास् तद्-वद् भृष्टाः पयसि निर्वृताः ॥ ३३ ॥
श्लोक 34
क्षीर-पिष्ट-क्षुमां लेपम् एरण्डस्य फलानि वा ।
कुर्याच् छूल-निवृत्त्य्-अर्थं शताह्वां वानिले ऽधिके ॥ ३४ ॥
श्लोक 35
क्षीर-पिष्टाम् उमां लेपम् मूत्र-क्षार-सुरा-पक्वं घृतम् अभ्यञ्जने हितम् ।
सिद्धं स-मधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे ॥ ३५ ॥
श्लोक 36
मुस्त-क्षार-सिता-पक्वं सेकाभ्यङ्गः कफोत्तरे गृह-धूमो वचा कुष्ठं शताह्वा रजनी-द्वयम् ।
प्रलेपः शूल-नुद् वात-रक्ते वात-कफोत्तरे ॥ ३६ ॥
श्लोक 37
मधु-शिग्रोर् हितं तद्-वद् बीजं धान्याम्ल-संयुतम् ।
मुहूर्त-लिप्तम् अम्लैश् च सिञ्चेद् वात-कफोत्तरे ॥ ३७ ॥
श्लोक 38
उत्तानं लेपनाभ्यङ्ग-परिषेकावगाहनैः ।
विरेकास्थापन-स्नेह-पानैर् गम्भीरम् आचरेत् ॥ ३८ ॥
श्लोक 39
वात-श्लेष्मोत्तरे कोष्णा लेपाद्यास् तत्र शीतलैः ।
विदाह-शोफ-रुक्-कण्डू-विवृद्धिः स्तम्भनाद् भवेत् ॥ ३९ ॥
श्लोक 40
पित्त-रक्तोत्तरे वात-रक्ते लेपादयो हिमाः ।
उष्णैः प्लोषोष-रुग्-राग-स्वेदावदरणोद्भवः ॥ ४० ॥
श्लोक 41
मधुयष्ट्याः पल-शतं कषाये पाद-शेषिते ।
तैलाढकं सम-क्षीरं पचेत् कल्कैः पलोन्मितैः ॥ ४१ ॥
श्लोक 42
स्थिरा-तामलकी-दूर्वा-पयस्याभीरु-चन्दनैः ।
लोह-हंसपदी-मांसी-द्वि-मेदा-मधुपर्णिभिः ॥ ४२ ॥
श्लोक 43
काकोली-क्षीर-काकोली-शतपुष्पर्द्धि-पद्मकैः ।
जीवकर्षभ-जीवन्ती-त्वक्-पत्त्र-नख-वालकैः ॥ ४३ ॥
श्लोक 44
प्रपौण्डरीक-मञ्जिष्ठा-शारिवैन्द्री-वितुन्नकैः ।
चतुष्-प्रयोगं वातासृक्-पित्त-दाह-ज्वरार्ति-नुत् ॥ ४४ ॥
श्लोक
चतुष्-प्रयोगात् तद् धन्ति तैलं मारुत-शोणितम् सोपद्रवं साङ्ग-शूलं सर्व-गात्रानुगं तथा ।
वातासृक्-पित्त-दाहार्ति-ज्वर-घ्नं बल-वर्ण-कृत् ॥ ४४+१ ॥
श्लोक 45
बला-कषाय-कल्काभ्यां तैलं क्षीर-समं पचेत् ।
सहस्र-शत-पाकं तद् वातासृग्-वात-रोग-नुत् ॥ ४५ ॥
श्लोक 46
रसायनं मुख्य-तमम् इन्द्रियाणां प्रसादनम् ।
जीवनं बृंहणं स्वर्यं शुक्रासृग्-दोष-नाशनम् ॥ ४६ ॥
श्लोक 47
कुपिते मार्ग-संरोधान् मेदसो वा कफस्य वा ।
अति-वृद्ध्यानिले शस्तं नादौ स्नेहन-बृंहणम् ॥ ४७ ॥
श्लोक 48
कृत्वा तत्राढ्य-वातोक्तं वात-शोणितिकं ततः ।
भेषजं स्नेहनं कुर्याद् यच् च रक्त-प्रसादनम् ॥ ४८ ॥
श्लोक 49
प्राणादि-कोपे युग-पद् यथोद्दिष्टं यथामयम् ।
यथासन्नं च भैषज्यं विकल्प्यं स्याद् यथा-बलम् ॥ ४९ ॥
श्लोक 50
नीते निर्-आम-तां सामे स्वेद-लङ्घन-पाचनैः ।
रूक्षैश् चालेप-सेकाद्यैः कुर्यात् केवल-वात-नुत् ॥ ५० ॥
श्लोक 51
शोषाक्षेपण-संकोच-स्तम्भ-स्वपन-कम्पनम् ।
हनु-स्रंसो ऽर्दितं खाञ्ज्यं पाङ्गुल्यं खुड-वात-ता ॥ ५१ ॥
श्लोक 52
संधि-च्युतिः पक्ष-वधो मेदो-मज्जास्थि-गा गदाः ।
एते स्थानस्य गाम्भीर्यात् सिध्येयुर् यत्नतो नवाः ॥ ५२ ॥
श्लोक 53
तस्माज् जयेन् नवान् एतान् बलिनो निर्-उपद्रवान् ।
वायौ पित्तावृते शीताम् उष्णां च बहु-शः क्रियाम् ॥ ५३ ॥
श्लोक 54
व्यत्यासाद् योजयेत् सर्पिर् जीवनीयं च पाययेत् ।
धन्व-मांसं यवाः शालिर् विरेकः क्षीर-वान् मृदुः ॥ ५४ ॥
श्लोक 55
स-क्षीरा वस्तयः क्षीरं पञ्च-मूल-बला-शृतम् ।
काले ऽनुवासनं तैलैर् मधुरौषध-साधितैः ॥ ५५ ॥
श्लोक 56
काले ऽनुवासनं तैलं मधुरौषध-साधितम् यष्टीमधु-बला-तैल-घृत-क्षीरैश् च सेचनम् ।
पञ्च-मूल-कषायेण वारिणा शीतलेन वा ॥ ५६ ॥
श्लोक 57
वारिणा शीतलेन च कफावृते यवान्नानि जाङ्गला मृग-पक्षिणः ।
स्वेदास् तीक्ष्णा निरूहाश् च वमनं स-विरेचनम् ॥ ५७ ॥
श्लोक 58
पुराण-सर्पिस् तैलं च तिल-सर्षप-जं हितम् ।
संसृष्टे कफ-पित्ताभ्यां पित्तम् आदौ विनिर्जयेत् ॥ ५८ ॥
श्लोक 59
कारयेद् रक्त-संसृष्टे वात-शोणितिकीं क्रियाम् ।
स्वेदाभ्यङ्ग-रसाः क्षीरं स्नेहो मांसावृते हितम् ॥ ५९ ॥
श्लोक 60
स्नेहो मांसावृते हितः प्रमेह-मेदो-वात-घ्नम् आढ्य-वाते भिषग्-जितम् ।
महा-स्नेहो ऽस्थि-मज्ज-स्थे पूर्वोक्तं रेतसावृते ॥ ६० ॥
श्लोक 61
अन्नावृते पाचनीयं वमनं दीपनं लघु ।
मूत्रावृते मूत्रलानि स्वेदाश् चोत्तर-वस्तयः ॥ ६१ ॥
श्लोक 62
स्वेदा उत्तर-वस्तयः एरण्ड-तैलं वर्चः-स्थे वस्ति-स्नेहाश् च भेदिनः ।
कफ-पित्ता-विरुद्धं यद् यच् च वातानुलोमनम् ॥ ६२ ॥
श्लोक 63
सर्व-स्थानावृते ऽप्य् आशु तत् कार्यं मातरिश्वनि ।
अन्-अभिष्यन्दि च स्निग्धं स्रोतसां शुद्धि-कारणम् ॥ ६३ ॥
श्लोक 64
सर्व-स्थानावृते चाशु सर्व-स्थानावृते त्व् आशु यापना वस्तयः प्रायो मधुराः सानुवासनाः ।
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम् ॥ ६४ ॥
श्लोक 65
मृदु काय-विरेचनम् रसायनानां सर्वेषाम् उपयोगः प्रशस्यते ।
शिलाह्वस्य विशेषेण पयसा शुद्ध-गुग्गुलोः ॥ ६५ ॥
श्लोक 66
लेहो वा भार्गवस् तद्-वद् एका-दश-सिताशितः ।
अपाने त्व् आवृते सर्वं दीपनं ग्राहि भेषजम् ॥ ६६ ॥
श्लोक 67
एका-दश-सितासितः वातानुलोमनं कार्यं मूत्राशय-विशोधनम् ।
इति संक्षेपतः प्रोक्तम् आवृतानां चिकित्सितम् ॥ ६७ ॥
श्लोक 68
प्राणादीनां भिषक् कुर्याद् वितर्क्य स्वयम् एव तत् ।
उदानं योजयेद् ऊर्ध्वम् अपानं चानुलोमयेत् ॥ ६८ ॥
श्लोक 69
समानं शमयेद् विद्वांस् त्रि-धा व्यानं तु योजयेत् ।
प्राणो रक्ष्यश् चतुर्भ्यो ऽपि तत्-स्थितौ देह-संस्थितिः ॥ ६९ ॥
श्लोक 70
त्रि-धा व्यानं च योजयेत् स्वं स्वं स्थानं नयेद् एवं वृतान् वातान् वि-मार्ग-गान् ।
सर्वं चावरणम् पित्त-रक्त-संसर्ग-वर्जितम् ॥ ७० ॥
श्लोक 71
रसायन-विधानेन लशुनो हन्ति शीलितः ।
पित्तावृते पित्त-हरं मरुतश् चानुलोमनम् ॥ ७१ ॥
श्लोक 72
रक्तावृते ऽपि तद्-वच् च खुडोक्तं यच् च भेषजम् ।
रक्त-पित्तानिल-हरं विविधं च रसायनम् ॥ ७२ ॥
श्लोक 73
यथा-निदानं निर्दिष्टम् इति सम्यक् चिकित्सितम् ।
आयुर्-वेद-फलं स्थानम् एतत् सद्यो ऽर्ति-नाशनात् ॥ ७३ ॥
एतत् सद्यो ऽर्ति-नाशनम्
श्लोक 74
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्-जितम् ।
भेषजं शमनं शस्तं पर्यायैः स्मृतम् औषधम् ॥ ७४ ॥