श्लोक 1
अथातो रोगभेदीयमध्यायं व्याख्यास्यामः इति हस्माहुरात्रेयादयो महर्षयः।
सप्तविधाः खलु रोगा भवन्ति।
सहगर्भजातपीडाकालप्रभावस्वभावजाः।
ते तु पृथग्द्विविधाः।
तत्र सहजाः शुक्रार्तवदोषान्वयाः।
कुष्ठार्शोमेहादयः।
पितृजा मातृजाश्च।
गर्भजा जनन्यभिवारात् कौब्जपाङ्गुल्यपैग्गल्यकिलासादयोऽन्नरसजा दौहृदविमाननजाश्च।
जातजाः स्वापचारात् सन्तर्पणजा अपतर्पणजाश्च।
पीडाकृताः क्षतभङ्गप्रहारक्रोधशोकभयादयः शारीरमानसाश्च।
कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्च।
प्रभावजा देवगुरूल्लङ्घनशापार्थवणादिकृता ज्वरादयः पिशाचादयश्च।
स्वभावजाः क्षुत्पिपासाज्वरादयः कालजा अकालजाश्च।
तत्र कालजा रक्सणकृताः।
अरक्षणजा अकालजाः।
त एते समासतः पुनर्द्विविधा भवन्ति।
प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च।
तत्र रोगोत्पत्तिं प्रति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टञ्चोद्दिश्याप्तोपदिष्टानां विहितानां प्रतिषिद्धानामननुष्ठानमनुष्ठानं वा।
जन्मान्तरातीतेन तु पूर्वम्।
तत्तु पुनर्दैवाख्यमुक्तञ्च नियतानियतभेदेन प्राक्।
तस्माद् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः।
विपरीता दैवजन्मानः अल्पनिदाना महारुजाश्चोभयात्मकाः॥
श्लोक 2
तत्र यथास्वं प्रतिपक्षशीलनात् पूर्वेषां रोगाणामुपशमः।
सत्येव विपक्षशीलनेऽनिष्टकर्मक्षयात् दैविकानाम्।
दोषकर्मक्षयादन्येषाम्।
अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति।
तच्च पराभिसंस्कारमाचक्षते।
एवञ्चाहुः यदि स्वयं कृतादेवकर्मणः कार्यानिर्वृत्तिः स्यात्।
न दृष्टपुरुषान्तरकृतात्।
किमिति विद्वानपि पराचरितयोरुपकारापकारयोः सुखदुःखानुरोधात्तोषरोषौ प्रतिकर्तव्यचित्तं वा प्रतिपद्यते।
एवमेते व्याधयो द्विविधाः सन्तः त्रिविधा जायन्ते।
ततश्च दोषवन्तो भूयः सप्तविधाः॥
श्लोक 3
सकलोऽपि चायं रोगसमूहः प्रतिकारवानायुर्वेदविहितमुपदेशमपेक्षते।
यस्मान्नियतहेतुकोऽप्यामयः सम्यक् भिषगादेशानुष्ठानादुपात्तायुस्संस्कारापरिक्षये जातोपि वा सह्यवेदनतां प्रतिपद्यते।
अनुपक्रम्यमाणस्तु सर्व एव प्रायशो भिनत्यकण्डे।
स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानष्षोडशगुणसमुदित क्रियोपलम्भादाशुतरमपरिक्लिष्टस्य चापगच्छति।
अनियतफलदायिनि तु दैवे हिताभ्यासरतस्याऽवकाशमेव न लभते व्याधिः।
तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोः तुल्यदर्शी स्यात्।
त्रिविधाश्च पुनर्व्याधयो मृदुमध्याधिमात्रभेदेन।
तत्राल्पलक्षणा मृदवो मध्यलक्षणा मध्याः सम्पूर्णलक्षणास्त्वधिमात्राः।
ते पुनः सुखसाध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्टाः।
सुबहुशोऽपिच भिद्यमाना व्याधयो निजागन्तुतां न व्यभिचरन्ति॥
श्लोक 4
तत्र निजास्तु दोषोत्थाः।
तेषु पूर्वं वातादयो वैषम्यमापद्यन्ते ततो व्यथाभिनिर्वर्तते।
बाह्यहेतुजास्त्वागन्तवः तेषु प्राहरेण व्यथा पूर्वमुपजायते ततो दोषवैषम्यम्।
दोषवैषम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च।
एवञ्च कृत्वा न दोषव्यतिरेकेण रोगानुबन्धः केवलं पौर्वापर्ये विशेषः।
तस्मादेकाकारा एवरोगा रुक्सामान्यात्।
असङ्ख्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभावो पक्वमविशेषात्।
यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते।
असङ्ख्येयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभजेत्॥
श्लोक 5
दोषा एव हि सर्वरोगककारणम्।
यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वां च्छायां नातिवर्तते।
यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण व्यवस्ह्तितं गुणत्रयमप्यतिरिच्य न वर्तते।
तथैवेदमपि कृत्स्नं विकारजातं दोषत्रयमिति।
यथा च विद्युद्वर्षादयो नभसि भवन्ति न त्ववश्यं निमित्ततस्त्ववश्यमपि।
तरङ्गबुद्बुदादयश्चाम्भसि तथा दोषेषु रोगाः॥
श्लोक 6
त्रिविधन्तु निमित्तमेषामसात्म्येन्द्रियार्थसंयोगः पज्ञापराधाः परिणामश्च ते पुनः प्रत्येकमतियोगायोगमिथ्यायोगभेदात् त्रिधा भिद्यन्ते।
तत्र यथास्वं चक्षुरादीन्द्रियाणां रूपादिभिरर्थैरतिसंसर्गोऽतियोगः।
अल्पशो नैव वा संसर्गस्त्वयोगः।
सूक्ष्मातिदूरान्तिकस्थातिभास्वत्भरवाप्रियविकृतादिदशनम्।
द्विष्टात्युच्चपरुषभीषणादिश्रवणम्।
पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याघ्राणम्।
स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसानामभ्यवहारः तथा स्नानादीनां शीतोष्णादीनाञ्च स्पृश्यानामयथावदुपसेवनमशुचिभूताभिघातविषवातादिसंस्पर्शश्च भिथ्यायोगः॥
श्लोक 7
कायवाङ्मनोभेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः।
तत्र कायादिकर्मणोऽतिप्रवृत्तिरतियोगः।
अल्पशो नैव वा प्रवृत्तिरयोगः।
वेगोदीरणधारणविषमाङ्गेचष्टनस्खलनकण्डूयनप्रहारप्राणायामादि।
तथा क्षुत्पिपासार्धभुक्तभाषणादि।
भयशे केर्ष्यामात्सर्यादि।
दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः।
परिणामः काल उच्यते।
सोऽपि शीतोष्णवर्षभेदात्त्रिधा।
तत्रालितिमात्रस्वलक्षणः कालोऽतियोगः।
हीनस्वलक्षणस्त्वयोगः।
विपरीतो मिथ्यायोगः।
त एतेऽतियोगादयः सामान्यतोऽनुपशयलक्षणाः।
सर्वो वा प्रज्ञापराध एवायं यदेषामविवर्जनम्।
अर्थकर्मकालाः पुनःसम्यग्योगेनोपशयात् भूयिष्ठं स्वास्थ्यहेतवः।
तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्तेऽनुगृह्णन्ति च।
शेषा रसकर्मकालास्तु सर्वं देहं।
अपि च॥
श्लोक 8
सर्वभावानां भावाभावौ नान्तरेण योगातियोगादीन् व्यवस्येत्।
सर्वेषां पुनर्विकाराणां निदानदोषदूष्याविशेषेभ्यो भावाभावविशेषा भवन्ति।
यदा ह्येते त्रयो निदानादिविशेषात् नान्योन्यमनुबध्नन्तीषद्वानुबध्नन्त्यबला वा न तदामिनिर्वर्त्तन्ते व्याधर्याश्चरा द्वाभिनिर्वर्त्तन्ते तनवो वा भवन्त्यसम्पूर्णलिङ्गा वा।
विपर्यये तु विपरीताः॥
श्लोक 9
त्रयश्च रोगाणां मार्गा बाह्यमध्याभ्यन्तराः तत्र बाह्यो रक्तादिधातवस्त्वक् च।
स पुनः शाखाख्यः।
तदाश्रयाः गण्डपिटकालज्यपचीचर्मकीलार्बुदाधिमांसमशव्यङ्गादयो बहिर्भागाश्च शोफार्शोगुल्मवीसर्पविद्रध्यादयः।
मध्यो मूर्द्धहृदयबस्त्यादीनि मर्माण्यस्थिसन्धयः।
तत्रोपनिवद्धाश्च स्नायुसिराकण्डरादयः तदाश्रयाः।
पक्षवधग्रहापतानकार्दितराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयो मूर्द्धादिरोगाश्च।
आभ्यन्तरो महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयाश्रयः कोष्ठोऽन्तरिति पर्यायाः तदाश्रया ज्वरातीसारछर्द्यलसकविषूचिकाश्वासकासहिध्मानाहोदरप्लीहादयोऽन्तर्भागाश्च विसर्पशोफार्शोविद्रधिगुल्मादयः॥
श्लोक 10
ते च रोगाः स्वप्रधाना भवन्त्यन्यपरिवारा वा क्रमादनुबन्ध्यनुबन्धाख्याः।
तत्राद्याः स्वतन्त्राः स्पष्टाकृतयो यथास्वं समुत्थानोपशयाश्च।
इतरे तु तद्विपरीताः तद्वच्च दोषा अपि।
तत्रान्यपरिवारा व्याधयो द्विविधाः।
पुरोगामिनोनुगामिनश्च।
तेष्वाद्याः पूर्वरूपसंज्ञाः।
उपद्रवास्त्वितरे।
तान्यथायथमेव वक्ष्यमाणानुपलक्षयेत्।
प्रधानप्रशमे च प्रशमो भवति तेषामनुपशाम्यतो वा पश्चात्तानुपक्रमेत्।
त्वरितं वा बलवन्तमुपद्रवं प्रधानाविरोधेन।
स हि पीडाकरतरो भवति व्याधिपरिक्लिष्टदेहत्वात् प्रमेहपिटकादिवत्।
तथान्यः प्रधान एव रोगोऽन्यस्य प्रधानस्य हेतुः भवति।
यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य।
तौ श्वासस्य।
प्लीहा जठरस्य।
तच्छ्वयथोः।
अर्शांसि गुल्मोदरातीसारग्रहणीनां।
प्रतिश्यायः कासज्वरयोः।
तौ क्षयस्य।
क्षयः शोषस्य।
एकश्चापचारो निमित्तमेकस्य व्याधेः बहूनां च तथा बहवः तद्वदेकं लिङ्गम्।
एवमेव प्रशमेऽभ्युपायः तथा स एवान्यस्य प्रकोपे।
तस्मात्तानवहितः सम्यगागमादिभिः परीक्षेत॥
श्लोक 11
तत्रागमतो रोगमेवमेवं प्रकोपणमेवं योनिमेवमधिष्ठानमेवमात्मानमेवं देवनमेवं रूपशब्दगन्धरसस्पर्शमेवं पूर्वरूपमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदर्कमेवं नामानम्।
तस्मिन्नियं प्रतीकारस्य प्रवृत्तिः अन्यथा निवृत्तिः।
प्रत्यक्षतस्त्वातुरस्य यथास्वमिन्द्रियैर्वर्णसंस्थानप्रमाणोपचयछायाविण्मूत्र छर्दिताधिक्यमान्त्रकूजनमङ्गुल्यादिषुसन्धिषु स्फुटनं देहशकृद्वर्णादिगन्धं सुप्तशीतोष्णस्तम्भनसंस्पन्दश्लक्ष्णखरस्पर्शञ्च।
प्रकृतिविकृतियुक्तमास्यरसन्तु प्रश्नेन तथा सुच्छर्दनदुच्छर्दनत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रद्विष्टेष्टसुखदुःखानि च।
तथा वयः प्रत्यक्षेण च।
अनुमानतस्तु यूकापसर्पणेन शरीरवैरस्यम्।
मक्षिकोपसर्पणेन शरीरमाधुर्यम्।
तथाग्निं जरणशक्त्या।
बलं व्यायामशक्त्या।
गूढलिङ्गं व्याधिमुपशयानुपशयतः।
दोषप्रमाणमपचारविशेषेणायुषः क्षयं रिष्टैः।
प्रकृति सत्वसारसात्म्यबलाननुशीलनेनेति।
भवति चात्र॥
श्लोक 12
ज्ञानबुद्धिप्रदीपेन यो नाविशति योगिवत्।
आतुरस्यान्तरात्मानं न स गोरांश्चिकित्सति॥
श्लोक 13
द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ।
तद्यथैको गुरुव्याधिः सत्वदेहबलाश्रयात्॥
श्लोक 14
लघुव्याधिवदाभाति लघुव्याधिरतोन्यथा।
बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः॥
श्लोक 15
ततोल्पमल्पवीर्यं वा विपरीतमतोऽथवा।
पथ्यंविपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणाम्॥
श्लोक 16
ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते।
बुभुत्सेत भिषक् तस्मात् तत्वं तन्त्रानुशीलनात्॥
श्लोक 17
अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा।
न जातु स्खलति प्राज्ञो विषमेपि क्रियापथे॥
श्लोक 18
आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिप्रवृद्धः।
तत्रानुबन्धं प्रकृतिञ्च सम्यक् ज्ञात्वा ततः कर्म समारभेत॥
इति द्वाविंशोऽध्यायः॥