अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 22

श्लोक 1

खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रण-वद् आचरेत् ।
यष्टी-ज्योतिष्मती-लोध्र-श्रावणी-शारिवोत्पलैः ॥ १ ॥

श्लोक 2

पटोल्या काकमाच्या च तैलम् अभ्यञ्जनं पचेत् ।
नस्यं च तैलं वात-घ्न-मधुर-स्कन्ध-साधितम् ॥ २ ॥

श्लोक 3

महा-स्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर् हितः ।
देव-धूप-मधूच्छिष्ट-गुग्गुल्व्-अमरदारुभिः ॥ ३ ॥

श्लोक 4

यष्ट्य्-आह्व-चूर्ण-युक्तेन तेनैव प्रतिसारणम् ।
नाड्य्-ओष्ठं स्वेदयेद् दुग्ध-सिद्धैर् एरण्ड-पल्लवैः ॥ ४ ॥

श्लोक 5

यष्ट्य्-आह्व-चूर्ण-युक्तैस् तु तैर् एव प्रतिसारणम् खण्डौष्ठ-विहितं नस्यं तस्य मूर्ध्नि च तर्पणम् ।
पित्ताभिघात-जाव् ओष्ठौ जलौकोभिर् उपाचरेत् ॥ ५ ॥

श्लोक 6

लोध्र-सर्ज-रस-क्षौद्र-मधुकैः प्रतिसारणम् ।
गुडूची-यष्टि-पत्तङ्ग-सिद्धम् अभ्यञ्जने घृतम् ॥ ६ ॥

श्लोक 7

पित्त-विद्रधि-वच् चात्र क्रिया शोणित-जे ऽपि च ।
इदम् एव नवे कार्यं कर्मौष्ठे तु कफातुरे ॥ ७ ॥

श्लोक 8

इदम् एव भवेत् कार्यं कर्मौष्ठे तु कफोत्तरे पाठा-क्षार-मधु-व्योषैर् हृतास्रे प्रतिसारणम् ।
धूम-नावन-गण्डूषाः प्रयोज्याश् च कफ-च्छिदः ॥ ८ ॥

श्लोक 9

स्विन्नं भिन्नं वि-मेदस्कं दहेन् मेदो-जम् अग्निना ।
प्रियङ्गु-लोध्र-त्रि-फला-माक्षिकैः प्रतिसारयेत् ॥ ९ ॥

श्लोक 10

स-क्षौद्रा घर्षणं तीक्ष्णा भिन्न-शुद्धे जलार्बुदे ।
अवगाढे ऽति-वृद्धे वा क्षारो ऽग्निर् वा प्रतिक्रिया ॥ १० ॥

श्लोक 11

स-क्षौद्रैर् घर्षणं तीक्ष्णैर् क्षारो वह्निः प्रतिक्रिया आमाद्य्-अवस्थास्व् अलजीं गण्डे शोफ-वद् आचरेत् ।
स्विन्नस्य शीत-दन्तस्य पालीं विलिखितां दहेत् ॥ ११ ॥

श्लोक 12

तैलेन प्रतिसार्या च स-क्षौद्र-घन-सैन्धवैः ।
दाडिम-त्वग्-वरा-तार्क्ष्य-कान्ता-जम्ब्व्-अस्थि-नागरैः ॥ १२ ॥

श्लोक 13

कवडः क्षीरिणां क्वाथैर् अणु-तैलं च नावनम् ।
दन्त-हर्षे तथा भेदे सर्वा वात-हरा क्रिया ॥ १३ ॥

श्लोक 14

दन्त-भेदे तथा हर्षे सर्वा वात-हराः क्रियाः तिल-यष्टीमधु-शृतं क्षीरं गण्डूष-धारणम् ।
स-स्नेहं दश-मूलाम्बु गण्डूषः प्रचलद्-द्वि-जे ॥ १४ ॥

श्लोक 15

स-स्नेह-दश-मूलाम्बु-गण्डूषाः प्रचले द्वि-जे तुत्थ-लोध्र-कणा-श्रेष्ठा-पत्तङ्ग-पटु-घर्षणम् ।
स्निग्धाः शील्या यथावस्थं नस्यान्न-कवडादयः ॥ १५ ॥

श्लोक 16

गण्डूष-कवडादयः अधि-दन्तकम् आलिप्तं यदा क्षारेण जर्जरम् ।
कृमि-दन्तम् इवोत्पाट्य तद्-वच् चोपचरेत् तदा ॥ १६ ॥

श्लोक 17

अन्-अवस्थित-रक्ते च दग्धे व्रण इव क्रिया ।
अ-हिंसन् दन्त-मूलानि दन्तेभ्यः शर्करां हरेत् ॥ १७ ॥

श्लोक 18

क्षार-चूर्णैर् मधु-युतैस् ततश् च प्रतिसारयेत् ।
कपालिकायाम् अप्य् एवं हर्षोक्तं च समाचरेत् ॥ १८ ॥

श्लोक 19

जयेद् विस्रावणैः स्विन्नम् अ-चलं कृमि-दन्तकम् ।
स्निग्धैश् चालेप-गण्डूष-नस्याहारैश् चलापहैः ॥ १९ ॥

श्लोक 20

अ-बलं कृमि-दन्तकम् गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत् ।
सप्तच्छदार्क-क्षीराभ्यां पूरणं कृमि-शूल-जित् ॥ २० ॥

श्लोक 21

हिङ्गु-कट्फल-कासीस-स्वर्जिका-कुष्ठ-वेल्ल-जम् ।
रजो रुजं जयत्य् आशु वस्त्र-स्थं दशने घृतम् ॥ २१ ॥

श्लोक 

वस्त्र-स्थं दशनैर् घृतम् अलक्तकं वा सिन्धूत्थं वेल्ल-धूमं स-हिङ्गु वा ।
धान्याम्ल-सिद्धं शेवालं कोष्णं वा दशन-स्थितम् ॥ २१+१ ॥

श्लोक 

वेश्म-धूमं स-हिङ्गु वा वराहकर्णी-मूलं वा शरपुङ्खा-जटाथ-वा ।
वर्तिर् वावल्गुज-फलैर् बीजपूर-जटान्वितैः ॥ २१+२ ॥

श्लोक 22

गण्डूषं ग्राहयेत् तैलम् एभिर् एव च साधितम् ।
क्वाथैर् वा युक्तम् एरण्ड-द्वि-व्याघ्री-भूकदम्ब-जैः ॥ २२ ॥

श्लोक 23

गण्डूषं धारयेत् तैलम् -व्याघ्री-भूर्ज-कदम्बकैः क्रिया-योगैर् बहु-विधैर् इत्य् अ-शान्त-रुजं भृशम् ।
दृढम् अप्य् उद्धरेद् दन्तं पूर्वं मूलाद् विमोक्षितम् ॥ २३ ॥

श्लोक 24

संदंशकेन लघुना दन्त-निर्घातनेन वा ।
तैलं स-यष्ट्य्-आह्व-रजो गण्डूषो मधु वा ततः ॥ २४ ॥

श्लोक 25

गण्डूषो मधुना ततः ततो विदारि-यष्ट्य्-आह्व-शृङ्गाटक-कसेरुभिः ।
तैलं दश-गुण-क्षीरं सिद्धं युञ्जीत नावनम् ॥ २५ ॥

श्लोक 26

कृश-दुर्-बल-वृद्धानां वातार्तानां च नोद्धरेत् ।
नोद्धरेच् चोत्तरं दन्तं बहूपद्रव-कृद् धि सः ॥ २६ ॥

श्लोक 27

एषाम् अप्य् उद्धृतौ स्निग्ध-स्वादु-शीत-क्रमो हितः ।
विस्रावितास्रे शीतादे स-क्षौद्रैः प्रतिसारणम् ॥ २७ ॥

श्लोक 28

एषाम् अप्य् उद्धृतैः स्निग्ध- मुस्तार्जुन-त्वक्-त्रि-फला-फलिनी-तार्क्ष्य-नागरैः ।
तत्-क्वाथः कवडो नस्यं तैलं मधुर-साधितम् ॥ २८ ॥

श्लोक 29

दन्त-मांसान्य् उप-कुशे स्विन्नान्य् उष्णाम्बु-धारणैः ।
मण्डलाग्रेण शाकादि-पत्त्रैर् वा बहु-शो लिखेत् ॥ २९ ॥

श्लोक 30

ततश् च प्रतिसार्याणि घृत-मण्ड-मधु-द्रुतैः ।
लाक्षा-प्रियङ्गु-पत्तङ्ग-लवणोत्तम-गैरिकैः ॥ ३० ॥

श्लोक 31

घृत-मण्ड-मधु-प्लुतैः स-कुष्ठ-शुण्ठी-मरिच-यष्टीमधु-रसाञ्जनैः ।
सुखोष्णो घृत-मण्डो ऽनु तैलं वा कवड-ग्रहः ॥ ३१ ॥

श्लोक 32

तैलं वा कवड-ग्रहे घृतं च मधुरैः सिद्धं हितं कवड-नस्ययोः ।
दन्त-पुप्पुटके स्विन्न-च्छिन्न-भिन्न-विलेखिते ॥ ३२ ॥

श्लोक 33

घृतं वा मधुरैः सिद्धं यष्ट्य्-आह्व-स्वर्जिका-शुण्ठी-सैन्धवैः प्रतिसारणम् ।
विद्रधौ कटु-तीक्ष्णोष्ण-रूक्षैः कवड-लेपनम् ॥ ३३ ॥

श्लोक 34

घर्षणं कटुका-कुष्ठ-वृश्चिकाली-यवोद्भवैः ।
रक्षेत् पाकं हिमैः पक्वः पाट्यो दाह्यो ऽवगाढकः ॥ ३४ ॥

श्लोक 35

सुषिरे छिन्न-लिखिते स-क्षौद्रैः प्रतिसारणम् ।
लोध्र-मुस्त-मिशि-श्रेष्ठा-तार्क्ष्य-पत्तङ्ग-किंशुकैः ॥ ३५ ॥

श्लोक 36

सौषिरे छिन्न-लिखिते स-कट्फलैः कषायैश् च तेषां गण्डूष इष्यते ।
यष्टी-लोध्रोत्पलानन्ता-शारिवागुरु-चन्दनैः ॥ ३६ ॥

श्लोक 37

स-कट्फलैः कषायश् च स-गैरिक-सिता-पुण्ड्रैः सिद्धं तैलं च नावनम् ।
छित्त्वाधि-मांसकं चूर्णैः स-क्षौद्रैः प्रतिसारयेत् ॥ ३७ ॥

श्लोक 38

वचा-तेजोवती-पाठा-स्वर्जिका-यव-शूक-जैः ।
पटोल-निम्ब-त्रि-फला-कषायः कवडो हितः ॥ ३८ ॥

श्लोक 39

स्वर्जिका-याव-शूक-जैः विदर्भे दन्त-मूलानि मण्डलाग्रेण शोधयेत् ।
क्षारं युञ्ज्यात् ततो नस्यं गण्डूषादि च शीतलम् ॥ ३९ ॥

श्लोक 40

संशोध्योभयतः कायं शिरश् चोपचरेत् ततः ।
नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत् ॥ ४० ॥

श्लोक 41

कुब्जां नैक-गतिं पूर्णां गुडेन मदनेन वा ।
धावनं जाति-मदन-खदिर-स्वादुकण्टकैः ॥ ४१ ॥

श्लोक 42

न्युब्जां नैक-गतिं पूर्णां गुडेन मधुनाथ-वा क्षीरि-वृक्षाम्बु-गण्डूषो नस्यं तैलं च तत्-कृतम् ।
कुर्याद् वातौष्ठ-कोपोक्तं कण्टकेष्व् अनिलात्मसु ॥ ४२ ॥

श्लोक 43

जिह्वायां पित्त-जातेषु घृष्टेषु रुधिरे स्रुते ।
प्रतिसारण-गण्डूष-नावनं मधुरैर् हितम् ॥ ४३ ॥

श्लोक 44

तीक्ष्णैः कफोत्थेष्व् एवं च सर्षप-त्र्य्-ऊषणादिभिः ।
नवे जिह्वालसे ऽप्य् एवं तं तु शस्त्रेण न स्पृशेत् ॥ ४४ ॥

श्लोक 45

तीक्ष्णैः कफोत्थेष्व् अप्य् एवं तीक्ष्णैः कफोत्थेष्व् एवं तु उन्नम्य जिह्वाम् आकृष्टां बडिशेनाधि-जिह्विकाम् ।
छेदयेन् मण्डलाग्रेण तीक्ष्णोष्णैर् घर्षणादि च ॥ ४५ ॥

श्लोक 46

उप-जिह्वां परिस्राव्य यव-क्षारेण घर्षयेत् ।
कफ-घ्नैः शुण्डिका साध्या नस्य-गण्डूष-घर्षणैः ॥ ४६ ॥

श्लोक 47

एर्वारु-बीज-प्रतिमं वृद्धायाम् अ-सिरा-ततम् ।
अग्रं निविष्टं जिह्वाया बडीशाद्य्-अवलम्बितम् ॥ ४७ ॥

श्लोक 48

अग्रं निविष्टं जिह्वायां अग्रे निविष्टं जिह्वाया छेदयेन् मण्डलाग्रेण नात्य्-अग्रे न च मूलतः ।
छेदे ऽत्य् असृक्-क्षयान् मृत्युर् हीने व्याधिर् विवर्धते ॥ ४८ ॥

श्लोक 49

नात्य्-अग्रे नाति-मूलतः मरिचातिविषा-पाठा-वचा-कुष्ठ-कुटन्नटैः ।
छिन्नायां स-पटु-क्षौद्रैर् घर्षणं कवडः पुनः ॥ ४९ ॥

श्लोक 50

कटुकातिविषा-पाठा-निम्ब-रास्ना-वचाम्बुभिः ।
संघाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत् ॥ ५० ॥

श्लोक 51

अ-पक्वे तालु-पाके तु कासीस-क्षौद्र-तार्क्ष्य-जैः ।
घर्षणं कवडः शीत-कषाय-मधुरौषधैः ॥ ५१ ॥

श्लोक 52

घर्षणं कवडः शीतः कषाय-मधुरौषधैः पक्वे ऽष्टा-पद-वद् भिन्ने तीक्ष्णोष्णैः प्रतिसारणम् ।
वृष-निम्ब-पटोलाद्यैस् तिक्तैः कवड-धारणम् ॥ ५२ ॥

श्लोक 53

तालु-शोषे त्व् अ-तृष्णस्य सर्पिर् उत्तर-भक्तिकम् ।
कणा-शुण्ठी-शृतं पानम् अम्लैर् गण्डूष-धारणम् ॥ ५३ ॥

श्लोक 54

तालु-शोषे तृषार्तस्य धन्व-मांस-रसाः स्निग्धाः क्षीर-सर्पिश् च नावनम् ।
कण्ठ-रोगेष्व् असृङ्-मोक्षस् तीक्ष्णैर् नस्यादि कर्म च ॥ ५४ ॥

श्लोक 55

क्वाथः पानं च दार्वी-त्वङ्-निम्ब-तार्क्ष्य-कलिङ्ग-जः ।
हरीतकी-कषायो वा पेयो माक्षिक-संयुतः ॥ ५५ ॥